“वागर्थविस्मयास्वादः” प्रमुखतया साहित्यशास्त्रतत्त्वानि विमृशति । अत्र सौन्दर्यर्यशास्त्रीयमूलतत्त्वानि यथा रस-ध्वनि-वक्रता-औचित्यादीनि सुनिपुणं परामृष्टानि प्रतिनवे चिकित्सकप्रज्ञाप्रकाशे। तदन्तर एव संस्कृतवाङ्मयस्य सामर्थ्यसमाविष्कारोऽपि विहितः। क्वचिदिव च्छन्दोमीमांसा च प्रकल्पिता, यया प्रयोगमुपलक्ष्य गतिसौन्दर्यं निरूपितम्। किञ्च रससम्बद्धानामेव तत्त्वानामत्र प्रधानचिन्तनं चकास्ति। प्रायेण संस्कृतविमर्शनपथे तावदिदंप्रथमतया मानवस्य मूलभूतचोदनानि पुरुषार्थचतुष्टयसंवेदनानि च युगपत् समाकलय्य रस-भावयोः स्थाननिर्देशनं कृतम्। अत एव रसानां सङ्ख्यानिष्कर्षः, स्वरूपसिद्धिः, व्याप्तिविमर्शनञ्चेति विविधान्यधिकरणानि सुनिशितमत्र परामृष्टानि। कथं साहित्यस्य रूप-स्वरूपभूतयोर्वक्रतारसयोः सामरस्यं नितरां भातीति, ध्वन्यौचित्ययोः कथमत्र सन्धानकारिता प्रथत इति ग्रन्थेऽस्मिन्निस्संशयं ज्ञातुमर्हन्ति बुभुत्सवः। किं बहुना, भारतीयसाहित्यसमालोचनस्य विश्वजनीनतैव निराग्रहेणापि समर्थेन विधिना व्यधायि लेखकेन। अतः सर्वैरपि साहित्यविद्यारसिकैः समादरणीयोऽयं प्रयासः।