Rutukalyanam

ऋतुभिः सह कवयः सदैव सम्बद्धाः। विशिष्य संस्कृतकवयः। यथा हि ऋतवः प्रतिसंवत्सरं प्रतिनवतामावहन्ति मानवेषु तथैव ऋतुवर्णनान्यपि काव्यरसिकेषु कामपि विच्छित्तिमातन्वते। ऋतुकल्याणं हि सत्यमिदमेव हृदि कृत्वा प्रवृत्तम्। नगरजीवनस्य यान्त्रिकतां मान्त्रिकतां च ध्वनदिदं चम्पूकाव्यं गद्यपद्यमिश्रितमिति सुव्यक्तमेव। ऐदम्पूर्वतया प्रायः पुरीपरिसरप्रसृतानाम् ऋतूनां विलासोऽत्र प्रपञ्चितः। बेङ्गलूरुनामके महानगरे प्रतिवसतोः कयोश्चन युवदम्पत्योः प्रणयसंवादरूपेयं कविता मधुराम्लचाटुतया नगरजीवनस्य सुखदुःखपाकपाटवं प्रतिपद्यचमत्कृतिपुरःसरं तन्तनीति। सर्वत्र चमत्कारिण्यपि “कृशानुदृष्टिः” परमार्थतो “विश्वावसुसृष्टि”रेव हृदयनिर्वाणकारिणी खलु। तथ्यमिदमेव दम्पत्योरनयोः संवादेन स्फारीभवति। सर्वथा काव्यमिदं वार्तमानिकजीवनाश्रितम्। देशमेकं स्थिरीकृत्य कालवैविध्यप्रदर्शनं कृतेरस्या उद्देश्यम्। अतो हि बेङ्गलूरुनगरस्य हृदयङ्गमं दर्शनं वागर्थमाध्यमेनात्र कर्तुमर्हन्ति कोविदाः। एवं नगरसंस्कृतिजुष्टम् ऋतुप्रकृतिपुष्टं च तदिदं कविकर्म साम्प्रतिकसंस्कृतसाहित्यस्य किमपि स्पृहणीयं पदमञ्चति॥