Varnana-itivrutta

वर्णनेतिवृत्तमीमांसा—उपसंहारः

तदयं सङ्क्षेपः—निर्विशिष्टक्लैब्यसन्त्रस्ते सति समाजे, तेन विशिष्टो व्यक्तिगुणः सुतरां नावगम्यते[1]। तादृशस्तु भित्तीतिवृत्तवियुक्तो वाग्व्यापारः सरस्वतीविडम्बनाय रसविध्वंसनाय च कल्पते। अनुलक्षिते सत्यस्मिन्, साम्प्रतिकसमाजे कथानायकार्हता न कस्मिन्नपि मनुजे विद्यत इत्युत्प्रेक्षितुमलम्[2]। भारतीयकाव्यमीमांसादृशा रसः सदैव नायकाश्रितः। अन्यच्च “नायकस्य कवेः श्रोतुः समानोऽनुभवः स्मृतः” इत्यमुं तौतीयमभिप्रायमनुरुध्य पश्यामश्चेत्, साम्प्रतिकं साहित्यं रसशून्यमेवेति सहृदयाय प्रतीयते। यतो हि नायकस

वर्णनेतिवृत्तमीमांसा—यत्नेन वारणीया दोषाः

अस्यां दिशि सुकविना केचन दोषा यत्नेन वारणीयाः। यथा संविधाने निर्वैशिष्ट्यम्, इतिवृत्ते च निस्सङ्घर्षता। यद्यपि सङ्घर्ष इति परिभाषाविशेषः प्राच्यभारतीयकाव्यमीमांसायां किञ्चिदप्रचुरस्तथापि कथायाः पुरोऽभिवृद्धये विविधपात्राणां पोषणाय च सोऽयमावश्यक इति सुविदितमेव सुधियाम्। श्रीमद्रामायणे श्रीमन्महाभारते च विद्यमानो धर्माधर्मयोः सदसतोश्च सङ्घर्षः सुविख्यातः। महाकाव्येष्ववश्यं मन्त्र-द्यूत-प्रयाण-आजि-नायकाभ्युदयादीनि वर्णनानि भवेयुरिति किल काव्यशास्त्रसमयः। अत्राजिर्नाम न केवलं बाह्यः, अपि तु आन्तरङ्गिकोऽपि भवितुमर्हति। प्रकृते कानिचिदुदाहरणानि दद्मः—नैषधीयचरिते नलेनानुभूतः सङ्घर्षो यो देवानां प्

वर्णनेतिवृत्तमीमांसा—भाविकम्

सम्प्रति भाविकाभिधानं किञ्चन साहित्यतत्त्वमवगाहामहे।

भाविकमिति सम्भाविततत्त्वं दण्ड्यादिभिस्तु मौलिकमेवम्।
इतिवृत्तश्रीकारणमतिलोकमनोज्ञवर्णनेङ्गितयुक्तम्॥७॥

तत्त्वस्यास्य स्वरूपनिरूपणं भामहेन सम्यगकारि। यथा—

“भाविकत्वमिति प्राहुः प्रबन्धविषयं गुणम्।
प्रत्यक्षा इव दृश्यन्ते यत्रार्था भूतभाविनः”॥ (काव्यालङ्कारः, ३.५३)

वर्णनेतिवृत्तमीमांसा—चित्रकलादृष्टान्तः

धीपारम्यं वर्णनगतमुक्तिचमत्कृतं हि चित्रं कृतकम्।
हृद्भावशबलदुर्बलगतिस्तु वृत्ते विचित्रशैथिल्याय॥४॥

वर्णनेतिवृत्तमीमांसा

[लेखोऽयं शतावधानिन आर्यगणेशस्य कन्नडभाषानिबद्धशोधप्रबन्धस्य संस्कृतानुवादः (Ref: Ganesh, R. Hadanu-havaṇu. Mangalore: Prasaranga, Mangalore University, 2018. pp.150-176)]

वल्लकीपुस्तकाशक्यं शब्दार्थव्यञ्जनं परम्।
यत्र तत्र भवामीति स्मेरास्याऽवतु भारती॥