वर्णनेतिवृत्तमीमांसा—चित्रकलादृष्टान्तः

This article is part 2 of 5 in the series Varnana-itivrutta

धीपारम्यं वर्णनगतमुक्तिचमत्कृतं हि चित्रं कृतकम्।
हृद्भावशबलदुर्बलगतिस्तु वृत्ते विचित्रशैथिल्याय॥४॥

काव्यस्य हृद्भाव-चिद्भावसम्बद्धं पूर्वनिर्दिष्टमेव विषयं कारिकेयं प्रस्तौति। इतिवृत्तनियोजने बुद्धिविलासः कलासमयमनुसरन् अनुकरणरूपो भवेत्। वर्णनेषु हार्दभावस्तावदनुकीर्तनरूपेण भवेदत्युक्तिवर्जितः। नयेऽस्मिन्ननादृते सति, अतिबौद्धिकं काव्यं शुष्कतां दुरूह्यतां च व्रजति। तत्तदा चित्रमिति भूत्वाऽधमकाव्यगर्ते पनीपतीति। यस्मिन्नु काव्ये पुनरितिवृत्तमतिमात्रं भावशबलितं, तदवश्यं शैथिल्यदोषदग्धं जायते। अतः सर्वथाऽनुल्लङ्घ्यं रसोपनिषद्भूतमौचित्यम्॥

व्यावहारेष्वर्थरहितरवसदृशं वर्णनैकरचनं प्रायः।
इतिवृत्तरहितकाव्यं तत्कर्तर्युपचरत्यहो कविशब्दः॥५॥

केचिदाचक्षते यदितिवृत्तनिरपेक्षं काव्यं भवितुमर्हतीति। अन्ये केचन काव्यं नाम निरितिवृत्तमेवेति भणन्ति। नः श्रुतिपथमवातरंश्च बहुधा मुक्तकानि यानि पूर्वापरविवक्षानिरपेक्षाणि। मुक्तकात्मभूतं परिशुद्धं वर्णनमत्यन्तं प्रलोभनीयम्। अमरुककवेः प्रस्तावावसरे कृता खलु मुक्तकप्रशंसा तत्रभवताऽनन्दवर्धनेन विमर्शकाग्रेसरेण। इतिवृत्तमुपजीवीति, वर्णनमुपजीव्यमित्येतवता भासेत। नन्वर्थरहिताः शब्दा यद्यपि सन्ति, शब्दरहितोऽर्थः सर्वथा न सम्भवतीति साक्ष्यत्वेनात्र केचिद्वदेयुः। अत एव कविशब्दः “कवृ-वर्णे” इत्यनेन धातुना निष्पन्नः सन् वर्णनमेव प्रधानतया लक्ष्यीकरोतीत्यपि ब्रूयुः।

इदमिह प्राप्तम्। को निष्कर्षः? वयमत्र वच्मः। अर्थनिरपेक्षः शब्दः, इतिवृत्तनिरपेक्षं वर्णनं च परमार्थतो न कदाचन रसिकानुभवगोचरः। यदि केनचिदनुभूयते, आपातत एव स्यान्नान्यथा। किं वस्तुहीनं किमपि मुक्तकं भवेत्? न खलु सर्वथा। अप्रकृतेऽपि वस्तुवर्णने तद्विवक्षा तु निस्संशयं विलसति। विद्यमाने सति वस्तुनि, तद्व्याप्त्यनुसारं लघुर्वा गुरुर्भवत्येव कश्चन संनिवेशविशेषः। सत्यमेव, अमुं संनिवेशविशेषम् इतिवृत्तमिति व्यपदेष्टुमयुक्तम्। परन्तु मुक्तकं तद्यदा चर्वणास्पदं भवति, विनाऽपवादं तस्मिन् किञ्चन संनिवेशस्वारस्यं घटते। तथ्यमिदं चाटु-अन्यापदेशादिमुक्तकविशेषरसिकानां सुतरामपरोक्षम्। किं बहुना, नीतिबोधकेषु निदर्शनात्मकेष्वपि मुक्तकेषु तदिदं साक्षात्कर्तुमलम्। एतादृगवसरेषु सहृदयहृदयम् आलम्बनभित्तिरूपेण स्वयमेव घटनावलीराविष्करोतीति दिक्।

उदियादत्र कश्चन प्रश्नः। इतिवृत्तं यदि क्वचिदिव सहृदयैरुद्बुद्ध्य तन्मूलकमास्वाद्यं जायत इति चेत्तस्य काव्यशरीरत्वाभिधानं कथं समर्थनीयम्? ननु तत्तर्हि काव्यबहिर्भूतम्? इदमत्र समाधानम्—सत्यम्, इतिवृत्तं काव्यशरीरमेव। परं तत् “अर्थ”त्वेनापि गण्यते। काव्यस्य परमार्थो रस एव खलु। सोऽयं रसः किं काव्येऽस्ति? न। सहृदयहृदयं तदधिष्ठानम्। काव्यास्वादाख्यः कश्चिदनुभवविशेष एव रसः। स तु न वाच्यः। घण्टापथे व्यङ्ग्य एव तस्य विहारः। अनेन हि रसस्य चरमस्थितिः सहृदय एव लसतीति सिद्धम्। नात्र केऽपि सुधियो विवदन्ते। जिज्ञासाप्रस्तावेषु तावदीदृशेषु रसस्यानिर्वचनीयता परिगणनीया मननीया च। ब्रह्मास्वादसहोदरं रसानन्दं परोक्षविधिना नेत्यात्मकविधानेन च वर्णयितुं शक्यते। इत्यात्मकेन मार्गेण तस्य निर्वचनं विधातुं न केनापि पार्यते। अत एव बहुधा प्रपञ्चिता अपि वाक्-अर्थ-रस-भाव-वर्णन-वस्त्वादायो मूलभूतांशाः सम्पूर्णतया तार्किकपरिशोधनं नैव सहन्ते। कथं कार्यं तर्हि शोधनमेतेषाम्? वेदान्तिभिर्यथा जगज्जीवब्रह्मादीनां मीमांसा क्रियते, तथैवात्रापि समनुष्ठेयम्। अन्यानीव शास्त्राणि साहित्यशास्त्रमपि केवलं ज्ञापकं न तु कारकम्। तदयं सङ्क्षेपः—अविभाज्ये वर्णनेतिवृत्ते परमार्थतः। यथोक्तं पूर्वमेव, इतिवृत्तं दर्शनं; वर्णनं हि तदभिव्यक्तिः। तस्मात् “वर्णनानिपुणः कविः” इति केवलमौपचारिकं कथनम्। नैतत् परिपूर्णम्। स्मरणीयानि कानिचन वचनान्यत्र—“कविर्मनीषी परिभूः” (इशावास्योपनिषत्, ८), “कविः क्रान्तदर्शी सर्वदृक्” (इशावास्योपनिषत्, ८ शाङ्करभाष्यम्), “कवयोऽप्यत्र मोहिताः” (भगवद्गीता, ४.१६), “कवयो मेधाविनः,” “कविं क्रान्तदर्शिनं सर्वज्ञम्” (भगवद्गीता, ४.१६ शाङ्करभाष्यम्), “स तत्त्वदर्शनादेव शास्त्रेषु पठितः कविः” (काव्यकौतुकम्)। अतः प्रायेण विचारजातमिदमेवं सङ्ग्रहीतुमुचितम्—समेषां कवीनां मुखद्वयं भवति। एकं तु वर्णनानैपुण्यम्। अपरं तु दर्शनं तदन्तर्गतं रसेतिवृत्तवस्तुसाक्षात्कारं च। एतयोः साकल्यमेव सत्काव्यम्; साफल्यमेव सत्कवित्वम्॥

इतिवृत्तवर्णनयोः सम्बन्धं चित्रकलाया दृष्टान्तेन स्पष्टमवगन्तुं शक्यते। तद्यथा—

वर्ण इव वर्णनं ननु वृत्तं तावत्समग्ररेखाचित्रम्।
इतिवृत्तविटपिशाखाविततः किल वर्णनाख्यपर्णसमूहः॥६॥

यथा वर्णितं जयमङ्गला-मानसोल्लस-शिवतत्त्वरत्नाकर-विष्णुधर्मोत्तरपुराणादिषु ग्रन्थेषु, भारतीयचित्रकलापरम्परा नैकस्वारस्यपुष्टा विशिष्टा जागर्ति। चित्रपटविन्यासे वर्ण-रेखा-भूषण-वर्तनादयः सन्त्यनेके घटकाः। उक्तं च विष्णुधर्मोत्तरपुराणे—

“रेखां प्रशंसन्त्याचार्या वर्तनां च विचक्षणाः।
स्त्रियो भूषणमिच्छन्ति वर्णाढ्यमितरे जनाः”॥(३.४१.११)

इदमस्य श्लोकस्य तात्पर्यम्—रेखा अतिप्रौढा एव रसिकाः समास्वादयितुं पारयन्ति; वर्तनाः[1] सर्वे कलारसिका उररीकुर्वते; आलेख्यस्य चित्रांस्तावद्विभागानलङ्कृतिप्रियाः स्त्रैणस्वभावाः समभिलषन्ति; सामान्यास्तु लोका वर्णवैभव एव समर्पितमानसाः।

ननु कथमसौ विषयः प्रकृतप्रसङ्गे समन्वेति? किमिदं शाखाचङ्क्रमणम्? इति चेदुच्यते। वर्णनं वर्णसंनिभम्, इतिवृत्तं च रेखासमूहप्रख्यमिति नः प्रेक्षा। एवं च प्रधानेतिवृत्तस्य पताका-प्रकरी-प्रकरणादीनां वक्रताव्यापारः “वर्तना”याः परिधौ लगति; वर्णनस्य वक्रवाक्यविन्यस्तविविधालङ्कारविलासस्तु “भूषण”स्य व्याप्तौ सङ्गच्छते। तथा च सर्वेष्वपि काव्येषु विद्वद्रसिकेभ्यो रोचमानः परमार्थतो रस एव। अयमेव हि काव्यार्थः। अङ्गिरसः, अङ्गरसः, प्रबन्धध्वनिः, प्रकरणध्वनिः, प्रबन्धवक्रता, प्रकरणवक्रता, प्रबन्धौचित्यम्, इतिवृत्तस्य सर्वसन्धिसौन्दर्यम्—अमीषां समेषामपि काव्यतत्त्वानां रस एव परमं लक्ष्यम्। परन्तु पामरेभ्यः समष्ट्यपेक्षया व्यष्टिरेव किल स्पृहणीया। अतस्तेभ्यः शब्दालङ्काराः, चाटुसम्भाषणानि, सुलभवेद्याश्चित्रबन्धाश्च रोचन्तेतमाम्[2]

इतिवृत्तं रेखाचित्रमिव निजगर्भे निखिलानपि सन्दर्भानाकलय्य वस्त्वपि सम्यङ्निर्वहति। वर्णनं तु सर्वत्र यथोचितं वर्णलेपमाचरति। इदं तावदवधार्यताम्—वस्तुनि सति भित्तिरूपेण, कविकर्मणि च चित्ररूपेण, इतिवृत्तवर्णने द्वे अपि वस्त्वाश्रिते इति सुस्पष्टं बुध्यते बुधैः। अथ च यदा वर्णनं वस्तुनः सम्पर्कमञ्चति—तन्नाम यदा वर्णो भित्तावभिलिप्तो भवति—तदा तस्य वर्णनत्वेन (वर्णत्वेन) साकं किञ्चिदितिवृत्तत्वम् (रेखासमूहत्वं) अपि सिद्ध्यति। अनुभवसिद्धमेतत्। कूर्चेन क्रियमाणं वर्णलेपनमादौ रेखा-वर्तनात्मकमेव भवेन्ननु। तथैव च वस्तुसंनिकृष्टे सतीतिवृत्ते—अर्थात्, भित्तावालिखितायां रेखायां—इतिवृत्तत्वेन (रेखात्वेन) सह वर्णनत्वम् (वर्णत्वं) अपि समुद्भूयते। भित्तिभिन्नं वर्णमाश्रित्यैव किल रेखानां स्फुटत्वमाविर्भवति। इदं च सर्वानुभववेद्यम्। अत इतिवृत्तशून्यं वर्णनं, वर्णनशून्यमितिवृत्तं च गगनकुसुमायते। असाध्यमेतत्। एतादृशं परस्परालम्बनमेव कारिकास्थः पादपदृष्टान्तो विशदीकरोति। इतिवृत्तं विटपिनः शाखोपशाखासमूहः (शाखानां रेखात्वं गमनार्हं), वर्णनं तु तस्य पर्णसन्दोहः (पर्णानां वर्णत्वं वेद्यं)। द्वितयमिदं परस्परपोषकमिति सर्वमनवद्यम्॥

सम्प्रति चित्रकलायाः साहाय्येन प्रकृतोपयोगीनि कानिचन साहितीतत्त्वानि विमृशामः।

केषुचिच्चित्रेषु वर्णविलास एव प्राधान्यमर्हति। अन्येषु केषुचिद्रेखासुषमैव प्रामुख्यमाप्नोति। तथैव साहित्येऽपि वर्णनप्रधानानि, इतिवृत्तप्रधानानि च भवन्ति काव्यानि। केवलमङ्गुलिमेयानि कानिचन महाकाव्यानि तावदुभयप्राधान्येन सहृदयहृदयावर्जकानि भवन्ति। उभयसंमिलनमेतादृशं हि वस्तुककाव्यानां भागधेयं तत्स्वारस्यस्थानं च। तथ्यमिदं मनसिकृत्यैव प्रायेण वर्णचित्रगतं साकल्यं रूपकेष्वपि दृश्यत इति वामनो निरणैषीत्—“सन्दर्भेषु दशरूपकं श्रेयः। तद्धि चित्रं चित्रपटवद्विशेषसाकल्यात्” (काव्यालङ्कारसूत्रवृत्तिः, १.३.३०-३१)। रूपकेषु पञ्चसन्ध्यात्मकम् इतिवृत्तं प्रमुखम्। वर्णनानि च तस्मिन्नौचित्यमविहाय चकासति। अनेन हि सामग्र्यसिद्धिः। तस्माद्रूपकेषु शब्दार्थसौन्दर्यं परां काष्ठामधिरोहतीति निगमनम्। इतिवृत्तगतार्थ-वर्णनाश्रितशब्दयोः साकल्यं श्रेयसे भूयसे स्यात्। पूर्वोक्तसूत्रयोस्तात्पर्यमेवं कामधेनुव्याख्यानमभिधत्ते—“विशेषाणां भाषाभेदादिरूपाणां कथाख्यायिकानां महाकाव्यभेदानामस्मादेव वस्तुविन्यासकल्पनम्”। अनेन ध्वनितं वस्तुककाव्यानां महत्त्वं मुक्तकापेक्षया[3]। इदं च तत्रभवता लोचनकृता परमपुरुषार्थसंस्पर्शीति वर्णितं नः समीक्षामर्हति, “महाकाव्यरूपः पुरुषार्थफलः समस्तवस्तुवर्णनाप्रबन्धः सर्गबन्धः” (ध्वन्यालोकलोचनम्, ३.७)। एवं च मुक्तकानामेकदेशीयत्वं प्रकटयित्वा ग्रथनकौशलफलं यत्काव्यं तदेव श्रेष्ठमिति बहवो विचक्षणा मेनिरे । यथा “काव्यं ग्रथनकौशलात्” (रसार्णवसुधाकरः, १.२४२)। विषयेऽस्मिन् वामनस्याङ्गीकृतिरस्ति। स हि काव्यप्रकारेषु निबद्धमनिबद्धं चेति विभागद्वयं प्रदर्श्य ब्रूते—“क्रमसिद्धिस्तयोः स्रगुत्तंसवत्, नानिबद्धं चकास्ति” (काव्यालङ्कारसूत्रवृत्तिः, १.३.२७-२८)। अयं च श्लोकस्तेन समुल्लिखतः—

“असङ्कलितरूपाणां काव्यानां नास्ति चारुता।
न प्रत्येकं प्रकाशन्ते तैजसाः परमाणवः”॥

यद्यपि मुक्तक-कुलक-सङ्घातादिषु प्राप्तप्रतिष्ठा अनेके श्रेष्ठकवयः सन्ति, तथापि ग्रथनकौशलात्मकं वस्तुनिर्वहणं वर्णनवैशद्यं च महाकवीनामादर्शस्थानमित्यत्र नास्ति विप्रतिपत्तिः।

चित्रलेखनभेदेषु सादृश्यलेखनं विद्धमिति विख्यातम्, सादृश्यातीतं च रसचित्रमिति। विभागावेतौ साहित्येऽपि सलीलं लगतः। अन्यच्च सन्ति षण्डङ्गानि चित्रनिर्मितौ यथा—रूपभेदः, लावण्यम्, प्रमाणम्, भावयोजना, सादृश्यम्, वर्तिकाभङ्गः। तथैव काव्ये यथाक्रमं प्रकरणभेदः, व्यष्टि-समष्टिलावण्यम्, सन्धि-सन्ध्यङ्गादिप्रमाणम्, रस-भावसंयोजना, स्वभावोक्तिबन्धुरता, वक्रोक्तिविलासश्च तावदितिवृत्त-वर्णनयोः पाकपुष्टिं सिसाधयिषन्ति॥

Notes

[1] आधुनिकपरिभाषायां वर्तना “Strokes” इत्यभिधानेन सूचिता।

[2] न मेऽस्ति मनागपि रन्ध्रान्वेषणदक्षता। नाहं तावदलङ्कारप्रस्थानं वा तदास्वादक-विमर्शकानपि वा गर्हये। अत्रेयं मनीषा मम—महाकाव्येषु कदाचिदितिवृत्तस्य महत्त्वं परिणतप्रज्ञाः कवयोऽपि विस्मरेयुः; परं न कदाचन वर्णनानि कदर्थितानि भवन्ति, स्पष्टावगमात्तेषाम्। वर्णनमीमांसेव नेतिवृत्तमीमांसा सुलभसाध्या। आनन्दवर्धनस्तु ध्वन्यालोके “मा निषाद ... ,” “अतिक्रान्तसुखाः कालाः ... ” इति पद्यद्वितयमवलम्ब्य रामायण-महाभारतयोरङ्गिरसौ यथाक्रमं करुण-शान्ताविति निश्चैषीत्। अनेन प्रौढैकवेद्यमितिवृत्तमहत्त्वमिति गम्यते। परन्तु क्षेमेन्द्रो रामयणस्याङ्गिरसः शान्त इति मनुते; भवभूतिश्च पूर्वरामचरित्रस्य वीररसप्राधान्यं प्रस्तौति। एवमितिवृत्तमीमांसा नैव सरला।

[3] सन्ति कानिचन वचांसि यानि प्रकृताभिप्रायादल्पं यावद्भिद्यन्ते। यथा—

“निरन्तररसोद्गारगर्भसन्दर्भनिर्भराः।
गिरः कवीनां जीवन्ति न कथामात्रमाश्रिताः॥” (वक्रोक्तिजीवितम्, ४.४ कारिकानन्तरं विद्यमानः सङ्ग्रहश्लोकः)

“अमरुककवेरेकः श्लोकः प्रबन्धशतायते।” (कस्यचित्)
“अस्तु वस्तुषु मा वा भूत्कविवाचि रसः स्थितः।” (काव्यमीमांसायां नवमेऽध्याये)
“मुक्तकेषु प्रबन्धेष्विव रसबन्धाभिनिवेशिनः कवयो वर्तन्ते। यथा ह्यमरुकस्य कवेर्मुक्तकाः शृङ्गाररसस्यन्दिनः प्रबन्धायमानाः प्रसिद्धा एव।” (ध्वन्यालोकः, ३.७)

सत्यामीदृश्यां स्थितौ न केनापि साहित्यशास्त्रविदा विस्मृतं निराकृतं चोभयसौन्दर्यस्य प्राशस्त्यम्।

To be continued. 

Author(s)

About:

Dr. Ganesh is a 'shatavadhani' and one of India’s foremost Sanskrit poets and scholars. He writes and lectures extensively on various subjects pertaining to India and Indian cultural heritage. He is a master of the ancient art of avadhana and is credited with reviving the art in Kannada. He is a recipient of the Badarayana-Vyasa Puraskar from the President of India for his contribution to the Sanskrit language.

Translator(s)

About:

Shashi Kiran B N holds a bachelor’s degree in Mechanical Engineering and a master's degree in Sanskrit. His interests include Indian aesthetics, Hindu scriptures, Sanskrit and Kannada literature, and philosophy. A literary aficionado, Shashi enjoys composing poetry set to classical meters in Sanskrit. He co-wrote a translation of Śatāvadhāni Dr. R Ganesh’s Kannada work Kavitegondu Kathe.