वर्णनेतिवृत्तमीमांसा—यत्नेन वारणीया दोषाः

This article is part 4 of 5 in the series Varnana-itivrutta

अस्यां दिशि सुकविना केचन दोषा यत्नेन वारणीयाः। यथा संविधाने निर्वैशिष्ट्यम्, इतिवृत्ते च निस्सङ्घर्षता। यद्यपि सङ्घर्ष इति परिभाषाविशेषः प्राच्यभारतीयकाव्यमीमांसायां किञ्चिदप्रचुरस्तथापि कथायाः पुरोऽभिवृद्धये विविधपात्राणां पोषणाय च सोऽयमावश्यक इति सुविदितमेव सुधियाम्। श्रीमद्रामायणे श्रीमन्महाभारते च विद्यमानो धर्माधर्मयोः सदसतोश्च सङ्घर्षः सुविख्यातः। महाकाव्येष्ववश्यं मन्त्र-द्यूत-प्रयाण-आजि-नायकाभ्युदयादीनि वर्णनानि भवेयुरिति किल काव्यशास्त्रसमयः। अत्राजिर्नाम न केवलं बाह्यः, अपि तु आन्तरङ्गिकोऽपि भवितुमर्हति। प्रकृते कानिचिदुदाहरणानि दद्मः—नैषधीयचरिते नलेनानुभूतः सङ्घर्षो यो देवानां प्रतिनिधित्वेन स्वप्रियायै प्रणयसन्देशप्रदानात्मकः, रघुवंशे दिलीपस्य गुरुभक्ति-स्वात्मरक्षणयोः सङ्घर्षः, कुमारसम्भवे शर्वाणीशशिशेखरयोः काम-तपसोः सङ्घर्षश्च। दृश्यकाव्येषु चायं नितमां प्रसिद्धः। परमधुनातने काले सङ्घर्षः कश्चिन्नूत्नतयाऽऽविष्कृत इव काव्यांशः सर्वैः प्रस्तूयते। समस्तं प्राचीनसाहित्यं सङ्घर्षरहितमित्याक्षिप्य तदध्ययने हीनादराः सन्ति बहवो लोकाः। तथा च तत्रत्यं वैशिष्ट्यमवगणय्य पात्रचित्रणे वैविध्यशून्यत्वमेव वरमिति प्राज्ञंमन्यैः सन्यक्कारमुच्यते। अहो मोहमहिमा! हास्यास्पदं शोचनीयं चैतद्भ्रान्तिविलसितम्। यथा पात्रानुचितं वर्णनं विडम्बनाय भवति, तथैव सङ्घर्षशून्यमितिवृत्तं व्यर्थप्रायमिति निश्चप्रचम्। उक्तं हि कविना जगन्नाथपाठकेन—

“कियद्वारं क्रौञ्चा इह न निहता व्याधविशिखैः
परं काव्यं रामायणमिदमिहैकं समुदितम्।
स कालः स द्रष्टा स च हृदयवान् सा च करुणा
समेत्य द्योतन्ते यदि वलति वाणीविलसितम्”॥

यथा यथा पात्राणां वैशिष्ट्यमेधते, तथा तथा सङ्घर्षोऽपि तीव्रः समुन्नतश्च जायते। अपि च तस्मिन्निष्पादिता भवन्ति विस्तृतित्वम्, सर्वङ्कषत्वम्, देशकालपरिच्छेदरहितशक्तिसम्पन्नतादयो नैके गुणाः। ईदृशैः पात्रैर्यद्भावजातं प्रकटीक्रियते, तत्सलीलं साधारणीकरणत्वं प्राप्नोति। तेन रसश्च पोस्फूर्यते। अनेन हि कविदर्शनं सहृदयहृदयदर्शनमपि भवति। दर्शनं चेदं महेतिवृत्त-महावर्णनसम्पन्नं विद्योतते[1]

अत्रेदमुदाहरणम्। महाभारते तावदभिमन्योर्मरणमतिमात्रं हृदयस्पर्शि। किं स्यात्कारणम्? उच्यते। अभिमन्युर्हि पूर्वे वयसि वर्तमानो विद्यासम्पन्नश्च युवा। अवक्रविक्रमस्य तस्य नूतनपरिणयप्राप्तसकृत्कान्तासौभाग्यं मरणेन वैतथ्यमभजत। तथा च श्रीकृष्ण-अर्जुन-धर्मज-भीमादीनां पात्रनेपथ्यमप्यत्र कारणम्। कुरुक्षेत्रप्रविदारणे परोलक्षं योधा अतिथयो बभूवुः समवर्तिनः। नष्टाश्चाष्टादशसङ्ख्याका अक्षौहिणीसेनाः। मृता अपि नैके राजपुत्राः। तथापि धनञ्जयनन्दनस्यैव मरणं सहृदयहृदयवेधकम्। अत्र तद्वैशिष्ट्यमेव गमकम्। अनामधेयस्य कस्यचन भटस्य मरणं महाभारते नैवं परिणमति। एतावता सुभद्रासूनोः प्राणा एवामूल्याः, अनामधेयस्य भटस्य नेति न खलु निगमनम्। योधस्य तस्य मरणं वाचकहृदयं भेत्तुं यावदौत्कट्यमावश्यकं, तावन्नास्ति तच्चित्रणे। यदि भगवता व्यासेन सैनिकस्य वैशिष्ट्यमुचितेन विधिना निरूपितमभविष्यत्, तर्हि रसप्रतीतिरवश्यं समुदैष्यत्। किं च सर्वत्र न साध्यं खल्वीदृशं निरूपणम्। यतो ह्यस्थानोदत्तीकरणं महते विडम्बनाय। लोकोत्तरसङ्घर्षरहितत्वात्सर्वेषां जीवनेषु[2]। यथा पर्वदिनेषु तथा प्रत्यहमपि भूरिभोजनमसाध्यं किल। अथापि न केनापि विवेकिना सामान्यं भोजनं तिरस्क्रियते। रुच्यधीनं हि स्वारस्यम्। किं बहुना, यद्यपि भीमार्जुनौ समानसंस्कारसम्पन्नौ भ्रातरौ, तथापि युद्धे धर्मकर्मसङ्घर्षेण किंकर्तव्यमूढो बभूव सव्यसाची, न तु वृकोदरः। अतो भगवद्गीतोपदेशाय पार्थ एव सत्पात्रतां प्रपेदे।

कानिचिदुदाहरणान्तराणि मीमांसामहे। लोके प्रथागता तावदेकलव्यस्य कथा। स हि सामान्यो व्याधबालकः। तथापि तस्य जीवने गुरुदक्षिणा-जीवितसर्वस्वसाधनयोर्मध्ये कश्चन सङ्घर्षः सम्भूय तत्कथां रसपरिस्पन्दबन्धुरां विदधे। तथा च श्रीमद्रामायणे सीताया जीवनसङ्घर्षो निरुपमविधानेन चित्रितः। तस्मादेव हि पात्रं तल्लोकोत्तरमजायत। रामयणमपि स्वात्मानं “सीतायाश्चरितं महत्” इति जुघोष। परं नैवंविधं प्रबुद्धचित्रणमूर्मिलाप्रसङ्गे रामायणकविनाऽकारि। नैतावता वाल्मीकिना तद्विषये महाननादरः प्रादर्शीति वक्तुं युक्तम्। उक्तं चैतत्कविनाऽधुनिकेन रवीन्द्रेण। न खलु विचारसहिष्णुरयं तर्कः। यतो हि काव्ये न कदापि सर्वाणि पात्राणि समं प्राधान्यमञ्चन्ति। यदि कस्मिंश्चित्काव्ये तानि सर्वाणि समप्राधान्यमर्हन्ति, नैव तन्महाकाव्यम्। सन्ति कवयः केचन, ये तावदूर्मिलाया उदात्तीकरणे बद्धव्रताः। सफलाश्च स्युरमी स्वीयेषु प्रयत्नेषु। ऊर्मिलाजीवने योऽयमूर्जस्वलः सङ्घर्ष आदिकविना न प्रपञ्चितः, तं निजप्रतिभाप्रभावेण समुचितसंनिवेशचित्रणेन चैते कवयः प्रदर्शयामासुः। इदमेव हि कारणं सफलतायाः। आस्ताम्। उदात्तीकृतमेकं पात्रम्। का कथा पात्रान्तराणाम्? क्व व्रजेन्माण्डवी? क्व च गच्छेच्छ्रुतकीर्तिः? उद्धृता स्यात्कैकेयी; न खलु सुमित्रा। किमपराद्धं लक्ष्मणजनन्या? एवं वादान्नैकविधान् कर्तुमलम्। अयमत्र निष्कर्षः—जनसामान्यचित्रणमिति, वस्तुनिष्ठनिरूपणमिति, निजानुभवप्रेरिताभिव्यक्तिरिति यद्यत्काव्यच्छद्मना विरच्यते, तत्तद्बहुधा गतरसं प्रतिनिविष्टबुद्धिफलितमिव च भाति। वक्रतास्पर्शशून्यानि काव्यानि चिरं न स्थास्यन्तीति दिक्॥

सत्यमेव यदपश्चिमप्रतिभावता क्षुद्रेऽपि वस्तुनि वैशिष्ट्यं किमपि निष्पादयितुं शक्यते। किं च तद्भूमतासम्पन्नं विधातुं न पार्यते। साहित्यरचनं नाम न केवलमनुभवस्य कारकं, अपि तु ज्ञापकं च। तस्माद्रसानुभवकारको वागर्थव्यवसायः कश्चन बौद्धिकव्यापार इति दुरपह्नव एव। अस्त्येव च तस्मिन्नेपथ्यं हार्दिकम्। तथा च साहित्यसर्जने बौद्धिक-हार्दिकभावसङ्कीर्णे मनोव्यापारश्च प्रधानः। अमी सर्वेऽप्यात्मेतरव्यापारा द्वन्द्वनिबद्धा इत्यतस्तेषु तारतम्यं दुर्निवार्यम्।

तस्माद्यद्यपि रसानन्दे कोऽपि भेदो नास्ति, रसप्रतीतिचोदके संनिवेशसङ्घटने भवन्ति नैके भेदाः। अयुक्तं खलु तत्त्वज्ञानस्य लोकम्पृणं समीकरणम्। यतो हि तज्जन्या अनुभूतिः शब्दार्थनिरपेक्षा सती कविव्यापारस्यावश्यकतामेव निराकुरुते। अतो भव्यताचित्रणं सुमहत्यामेव भित्तौ समर्थरीत्या कर्तुं शक्यम्। अपि कदापि पृषन्महाकाव्यस्य नायको भवितुमर्हति? यदि स्यात्तर्हि तस्मिन्नैकान् पृषदितरगुणानध्यस्तव्यम्। तदा तु पृषदो मूलस्वरूपं सर्वथा पिहितं भवेत्। यदुदात्तीकरणं पात्रस्य मूलप्रकृतिग्रसिष्णुः, तन्महते विडम्बनायेति न खलु वाच्यम्। यः कोऽपि स्यादध्यारोपः। सोऽवश्यं सम्भवनीय इति भासेत। अत्रानुसन्धेयम् अतिशय एव सर्वालङ्कारमूल इति महिमभट्टस्य वचनम्। क्वचिदपकर्षोऽपि कार्य इति तद्वचनस्यापरं मुखम्। सत्यमेतत्। उत्कर्षापकर्षौ विना कथं कवितासम्भवः? तस्मादतिशयोक्तिरेव काव्यमूलमित्याहुरालङ्कारिकाः प्राचीना अनेके। अत्र न्यूनोक्तिरपि यथोचितं लगति। समस्तमपि वस्तुजातं कविप्रतिभाक्षिसमक्षितं भवति लोकानुकीर्तनपरम्। अतो हि स्वभावोक्तिरप्यलङ्कारत्वमर्हति। अथ च परिचितापरिचितानामंशानां हृद्यसंयोग एव काव्ययशः साधयति[3]। अनेन संयोगेन सह पालनीयं किञ्चिदन्तरं वैचित्र्य(Uniqueness)-सम्भवनीयतयोः (Possibility) मध्ये।

महाकाव्ये महद्वस्तु भवेत्। वस्तुसदृशं भवेत्कथासंविधानम्। संविधानोचितं भवेत्पात्रचित्रणम्। पात्रवैशिष्ट्यानुसारी च भवेत्सङ्घर्षः। एवमाद्यन्तमपेक्षितं किञ्चन महत्त्वम्। महत्त्वस्यास्य परिणामात्मिका हि काचित्तीव्रता। अस्याः पुनः परिणामेन साधारणीकृता भवन्ति भावाः। साधारणीकरणेन च रसानुभूतिः सिद्ध्यति। जीवनपरिशोधकशक्तियुते महाकाव्ये सेयं तीव्रता दुर्निवार्या। इयमेव भव्यतायाः कारणम्। अविद्यापुष्टमहङ्कारं सहृदयस्य भव्यतानुभूतिर्हि निर्मूलयति, क्लैब्यं च दूरीकरोति। अत्रोदाहरणमर्हति श्रीमन्महाभारतस्थो गीतोपदेशावसरः। अतिविशिष्टशक्तिसम्पन्नो गाण्डीवी दायादकलसागरे नितरां निमज्जितः। शस्त्रास्त्रपाणिः स रणरङ्गे वैरिनाशनाय समुद्यतः। तदा नु धर्मकर्मसंमूढो बभूव; शक्तिमानपि निजसामर्थ्यं विनियोक्तुं बिभाय। अहो वैलक्षण्यं विधेः! अनेन प्रसङ्गेन महाभारते विनूतनं किमपि दशान्तरमाविष्कृतम्। अत्र चिन्तिते सति ज्ञायते यदस्य सङ्घर्षस्य कारणमर्जुनस्य सद्गुणगण एवेति। एवं स्थिते तावदसहायविक्रमे दिङ्मूढे पार्थे स्फूर्तिं कर्तव्यप्रज्ञां च प्रचोदयितुमपेक्षितः स्वयं श्रीकृष्णः। स हि भगवांल्लीलामानुषविग्रहः पुरुषोत्तमः। स पुनर्योगेश्वरः सुदीर्घमुपदेशं (५७४ श्लोकेषु यावत्) ददौ। सङ्घर्षतीव्रतारहितेऽपि सन्दर्भे न कोऽप्येतादृशमुपदेशं दद्यात्। तदुपदिष्टे सति सर्वेषामपहास्यपात्रं भवति नितान्तम्। “किमहं कल्याणनगर्यां वसानि, उत प्रयागे तीर्थराजे? अत्र कृतकर्मणा मया लभ्यते सहस्रं रूप्यकाणि। तत्र तु द्विसहस्रम्। किमनुष्ठेयम्?” इत्येवं चिन्तामग्नस्य विवेकविस्रम्भयुतानि वचांसि कानिचिदुपदेशत्वेन खल्वपेक्ष्यन्ते। न तत्रावश्या भगवद्गीता॥

Notes

[1] इदं विशेषतारहस्यम् आमूलचूलं जज्ञुरस्मच्चिरन्तनाः। तस्मादितिवृत्तेषु ते विशिष्टानेव व्यक्तीनङ्गीचक्रिरे। विषयेऽस्मिन्नितरां जात्यन्धाः सन्ति विमर्शकाः साम्प्रतिकाः। अतः प्राचीनेष्वनादरं वारं वारं दर्शयन्त्यमी वचोविग्ल्पानचणाः। तेषां मते प्रतनकवयः सामान्यलोकानां विषये महान्तमनादरं दर्शयन्तः, धार्मिक-राजकीयादिकारणैः कृष्टा देवांशसम्भूतानां राजानां च कथा रचयाञ्चक्रुः। अलीकभाषितमेतत्। यतो हि क्षुद्रेऽपि वस्तुनि वैशिष्ट्यापदनं विना काव्यं न सम्भवति। निर्विशिष्टं वस्तु सुकवयेऽपि नीरसमेव भाति नान्यथा।

[2] अत्र “लोकोत्तर”शब्दो नः समीक्षामर्हति। लोकोत्तरं नाम लोकबाह्यमिति नैव तात्पर्यम्। सोदाहरणं वच्मश्चेत्—दशरथानन्तरं राज्यं तज्ज्येष्ठपुत्रे रामाय देयम्। सोऽयं सामान्यो लोकनियमः, अनूचानसम्प्रदायश्च। परं कैकेय्याः कपटोपायहेतुना राज्याभिषेकं विना वनवासः खल्वापतितः श्रीरामे। तदवसरे कौसल्यासूनोर्वर्तनं नितरां लोकोत्तरम्। एवमेव भरतस्य राज्यत्यागोऽपि लोकोत्तरः।

[3] अत्र वैशिष्ट्य-सङ्घर्षयोर्मूलस्वरूपं मीमांस्यते। अपरिचितोंऽश आदर्शस्तरीय इति, परिचितोंऽशो नाम वास्तवस्तरीय इति च ज्ञेयम्। इदमुदाहरणम्—श्रीरामस्य सत्यवचन-धर्मनिष्ठा-महोदारतादयो विशेषगुणाः स्मितभाषण-पूर्वभाषण-गाम्भीर्यादिभिः सामान्यप्रायगुणैः सह सम्पृक्ताः। किं च वालिवध-शम्भूकवध-सीतापरित्यागादयः संनिवेशा यद्यपि सर्वेषां लोकानां धर्माधर्मसङ्घर्षप्रतीकभूता एव, तथापि श्रीरामवैशिष्ट्यस्य पूर्वभित्तौ महत्त्वपूर्णा अमी विलसन्ति। अत्र कारणं तु स्वीयोदारगुणनौकामुपयुज्य रामेण सङ्घर्षस्य तरणमेव।

To be continued. 

Author(s)

About:

Dr. Ganesh is a 'shatavadhani' and one of India’s foremost Sanskrit poets and scholars. He writes and lectures extensively on various subjects pertaining to India and Indian cultural heritage. He is a master of the ancient art of avadhana and is credited with reviving the art in Kannada. He is a recipient of the Badarayana-Vyasa Puraskar from the President of India for his contribution to the Sanskrit language.

Translator(s)

About:

Shashi Kiran B N holds a bachelor’s degree in Mechanical Engineering and a master's degree in Sanskrit. His interests include Indian aesthetics, Hindu scriptures, Sanskrit and Kannada literature, and philosophy. A literary aficionado, Shashi enjoys composing poetry set to classical meters in Sanskrit. He co-wrote a translation of Śatāvadhāni Dr. R Ganesh’s Kannada work Kavitegondu Kathe.