वर्णनेतिवृत्तमीमांसा

This article is part 1 of 5 in the series Varnana-itivrutta

[लेखोऽयं शतावधानिन आर्यगणेशस्य कन्नडभाषानिबद्धशोधप्रबन्धस्य संस्कृतानुवादः (Ref: Ganesh, R. Hadanu-havaṇu. Mangalore: Prasaranga, Mangalore University, 2018. pp.150-176)]

वल्लकीपुस्तकाशक्यं शब्दार्थव्यञ्जनं परम्।
यत्र तत्र भवामीति स्मेरास्याऽवतु भारती॥

अथ किं नाम काव्यम्? भारतीयकाव्यपरम्परायां तु कवेः कर्म काव्यमित्याहुः। अत्र हि गद्य-पद्य-चम्पू-श्रव्य-दृश्यादिभेदान्नैके सन्ति विभागोपविभागाः। समस्तं वाङ्मयमिदं मूलतः शब्दार्थसाहित्यसिद्धमिति निश्चप्रचम्[1]। तामिमां शब्दार्थसम्पृक्तिं विषयीकृत्य सुनिपुणं मीमांसति काव्यमीमांसाऽपराभिधं साहित्यशास्त्रम्[2]। मनीषितल्लजो डि.वि.गुण्डप्पवर्यः साहित्ये दशविधाः सहितत्वघटकाः सन्तीत्यमंस्त[3]। तस्य मतमेवं सङ्ग्रहीतुमलम्—(१) रस-भावसहितत्वम्, (२) भाव-बुद्धिसहितत्वम्, (३) रूप-स्वरूपसहितत्वम्, (४) इह-परसहितत्वम्, (५) परिचित-अपरिचितसहितत्वम्।

आस्ताम्। शब्दार्थयोः कश्चन विशिष्टः संयोग एव साहित्यमिति परमार्थः। अत्रार्थः सदा वाच्यदूरः सन् व्यङ्ग्यात्मना स्वात्मानं प्रकटीकरोतीति कारणाद्रमणीयार्थप्रतिपादकः शब्द एव काव्यमिति लक्षणं सिद्ध्यति। यद्यपि तत्त्वतः शब्दार्थावभिन्नावेव, तथापि लाक्षणिकसौकर्यार्थं तयोः पार्थक्यमङ्गीकार्यम्। अत्रेदमवधेयम्—शब्दो नाम केवलं वर्णविशेषो न; स हि काव्यस्य सम्पूर्णाम् आकृतिं (Form) प्रतिनिधीकुरुते। एवं चार्थो नाम न केवलं शब्दार्थः, अपि तु कृत्स्नस्यापि काव्यस्याऽशयः (Content) इति तात्पर्यम्।

कविता नाम भावैकनिष्ठा मुक्तकप्राया कथानिरपेक्षा च काचिद्रचाना। परमितिवृत्तस्पर्शशून्या कवितेति वक्तुमयुक्तम्। ननु वर्णनैकविश्रान्ता कविता, अस्यां हि वस्तु निमित्तमात्रमिति चेदुच्यते—विशिष्टविधानेन परिभावितं “वस्तु” एव काव्यार्थः। यमेव “Content” इत्यभिज्ञा व्यपदिशन्ति। तथापि सर्वासु कवितासु वस्तु पूर्णमितिवृत्तात्मना परिणमतीति न चतुरस्रम्। यत इतिवृत्तं हि संविधानात्मकं घटनासमुच्चयनं, यच्च वस्तुनो विशिष्टं संनिवेशविन्यसनम् (Plot)[4]

उपरिनिर्दिष्टं काव्यलक्षणं कवितारूपं शब्दार्थस्वरूपं च मनसिकृत्य प्रकृतप्रबन्धो वर्णनम् इतिवृत्तं च यथाशक्ति सविमर्शं वर्णयति।

वर्णनस्येतिवृत्तस्य तत्त्वं वागर्थयोरिव।
वस्तूक्तिवक्रताधीना हृच्चिच्छ्रीः किल सत्कृतौ॥१॥

यथा कवितायां शब्दार्थयोः सामरस्यं भवति, तथा गद्य-पद्य-मिश्रात्मके काव्ये (वस्तुके) वर्णनेतिवृत्तयोः कश्चन पाको दृश्यते। कारिकेयम् उक्तिवक्रता-वस्तुवक्रताभेदेन वर्णनेतिवृत्तमीमांसां हृद्भाव-चिद्भावस्तरयोः करोति।

अलोकसामान्या काचिदभिव्यक्तिरेव वर्णना। अस्यां खलु कल्पकशक्तिः संमिश्रीभूय नैकानर्थालङ्कारानाविष्कुरुते। काव्येषु यद्यदुक्तिवैचित्र्यं दरीदृश्यते, तत्तदन्ततो वर्णनमेव। वर्णनमिदं पुनः शुष्कं बुद्धिव्यापारमुत्तीर्य हृदयसंवादं नितान्तमाश्रयति। अत एवेदं क्वचिदितिवृत्तनिरपेक्षमपि स्यात्। वर्णनस्यैतादृशीं स्वतन्त्रसिद्धिं परिशील्य प्रायेण भट्टतौत उट्टङ्कयाञ्चकार—“वर्णनानिपुणः कविः” इति। विदुषोऽस्यैव विवरणानुसारं वर्णनस्य जीवातुभूता प्रतिभा। या हि नवनवोन्मेषशालिनी प्रज्ञास्वरूपिणी। यद्यपि “प्रज्ञा त्रैकालिकी मता” इत्युक्तत्वाच्चिद्भावस्यैव प्राधान्यमपेक्षितं वर्णने, तथापि प्रधानतो हृदयव्यापारात्मकं वर्णनमिति सिद्धान्तः। बौद्धिकांशबहलं वर्णनं “चित्र”रूपेण परिणम्य दुष्करं जायते; कदाचिदेतत् प्रहेलिकाप्रायमपि भवेत्। स्थितावीदृश्याम् अष्टादशवर्णनानां स्वारस्यभूमयश्च ह्रस्वीभवन्ति। वक्ति भट्टतौतः—

“नानृषिः कविरित्युक्तमृषिश्च किल दर्शनात्।
विचित्रभावधर्मांशतत्त्वप्रख्या हि दर्शनम्॥

स तत्त्वदर्शनादेव शास्त्रेषु पठितः कविः।
दर्शनाद्वर्णनाच्चाथ रूढा लोके कविश्रुतिः॥

तथा हि दर्शने स्वच्छे नित्येऽप्यादिकवेर्मुनेः।
नोदिता कविता लोके यावज्जाता न वर्णना[5]” इति।

विना वर्णनं कवेः कवित्वस्य चाभिज्ञानं न सम्भवतीति मननीयमेतत्। काव्यस्य काव्यत्वसिद्धये वस्त्वितिवृत्ते वर्णनपरिपुष्टे स्याताम्। कविशब्दः “कवृ-वर्णे” इति धातुना निष्पन्न इति तथ्यमपि कवित्वस्य वर्णनप्राधान्यं द्योतयति। इतिवृत्तं तु प्रायः स्थूलरूपं बुद्धिग्राह्यं च। अत एवैतदभेदोपचारेण काव्यशरीरमिति गण्यते। इतिवृत्तं यद्यपि स्थूलं, तस्य रूपं सुलभतया स्फारीभवति। अत्र कारणं तावदस्य बौद्धिकस्वरूपमेव॥

इतिवृत्ते कथासंविधानं घटनाविन्यसनं च प्रामुख्यमञ्चतीति हेतुना केचन चिरन्तना इदं रूपकेषु केवलमजगणन्। सन्त्यत्र हेतवो नैके। तथापि काव्यतत्त्वमिदं सर्वेष्वपि कविकर्मप्रकारेषु सम्यगन्वेतुं शक्यते। एवं च प्रतनैः कदापि न विस्मृतप्रायमिदं वास्तवम्। महाकाव्यलक्षणकरणावसरे भामहः पञ्चसन्धीनुपयुनक्तीत्यनेन साक्ष्येण स्थिरीकृतः सिद्धान्त इति सर्वं सुन्दरम्। आस्तां, प्रकृतमनुसरामः। इतिवृत्तविवरणमेवमस्ति पञ्चमवेदे नाट्यशास्त्रे—

“इतिवृत्तं तु नाट्यस्य शरीरं परिकीर्तितम्।
पञ्चभिः सन्धिभिस्तस्य विभागः सम्प्रकल्पितः”॥ (१९.१)

अत्र महामाहेश्वरो ब्रवीति—“इतिवृत्तशब्दवाच्यं तद्वस्तु शरीरं, रसाः पुनरात्मा शरीराविर्भावकाः, अत एवार्थनिर्मापकत्वात्, अर्थतादात्म्यात्, अर्थरूपताध्यासात्, अर्थैकज्ञाननिवेशितत्वात्, अर्थोपरञ्जकत्वात्, अर्थनिमित्तत्वाद्वा इतिवृत्तार्थैकयोगक्षेमत्वं वागात्मनां शब्दानाम्”। अनेन स्पष्टम् इतिवृत्तस्य “अर्थस्वरूपम्,” “अर्थाश्रयत्वम्,” “अर्थाध्यासत्वम्” च। अभिनवगुप्त एव पुनः “वाचि यत्नस्तु कर्तव्यो नाट्यस्यैषा तनुः स्मृता” (१४.२) इत्येतस्या भरतोक्तेरन्तरर्थं प्रपञ्चयन् “इति पूर्वमुक्तम्, इह वृत्तं शरीरमिति दर्शितमित्यविरोधः। स तु कथं प्रकारवैचित्र्ये इत्याशङ्क्याह पञ्चसन्धिभिरिति” इति स्पष्टीचकार।

अथ चेतिवृत्तं बौद्धिकं चिद्भावसमिद्धमिति कथने गमकमिदम्—स्वरूपं तस्य प्रकारान्तरेणापि वर्णयितुं पार्यते। शक्यमत्र सङ्क्षेपणमुपबृहणं च। नैतदसमञ्जसं पुनः। अभिज्ञानशाकुन्तलरूपकस्य पूर्णमितिवृत्तं यथावकाशं व्यासपथेन वा समासमार्गेण वक्तुं शक्यते। न किलानेन मूलेतिवृत्तमाहात्म्यं किञ्चिद्धीयते वोपचीयते। परं नैषा कथा वर्णनस्य। तत्कथनार्थमाश्रिते सति मूलादन्ये वाग्विधाने, तदभिप्राय एव भिद्यते। परिभाविते सत्यस्मिन्, भोजराजेन वर्णितौ शब्दार्थरसावनुक्रमं वर्णनेतिवृत्तसम्बन्धिनौ भवितुमर्हत इति प्रायः प्रतीयेत।

अथोक्तिवक्रतां वस्तुवक्रतां च परिशीलयामः। यद्यपि कुन्तकेन स्वग्रन्थे वक्रोक्तिजीविते वक्रताप्रकारद्वयमिदं नैव न्यरूपि, तथापि पदवक्रता-प्रत्ययवक्रता-वाक्यवक्रतादयः पर्यन्तत उक्तिवैचित्र्यवलय एव परिलगन्ति। इयमेव वक्रोक्तिरिति गीयते। वस्तुवक्रता तावदितिवृत्तेऽन्तर्गतयोः प्रकरणवक्रता-प्रबन्धवक्रतयोः स्वस्थानमाप्नोति। समेषामेतेषां विवरणमग्रे प्रपञ्चयिष्यामः। अत्रायं सङ्क्षेपः—काव्यस्य हृद्भाव-चिद्भावौ शब्दार्थाश्रितयोरुक्तिवक्रतावस्तुवक्रताप्रकारयोः क्रमशो  वर्णनेतिवृत्तयोः पर्यवस्यतः॥

कार्यकारणसम्बन्धप्रबुद्धं वृत्तमूर्जितम्।
चमत्कारैकविश्रान्तं वर्णनं वर्णितं पुनः॥२॥

इतिवृत्तं बुद्धिविश्रान्तमित्यवोचाम। अत एवेदं कार्यकारणसम्बन्धानुसारं घटनानां परस्परसम्भावितसौष्ठवतः प्रवर्तते। किं चेतिवृत्ताकाशे वक्रतारुणेन विना सौन्दर्यसूर्योदयो न सम्भवति। सत्यमिदं ध्वनति वामनः—“दण्डनीतेर्नयापनयोः,” “इतिवृत्तकुटिलत्वं च ततः” (काव्यालङ्कारसूत्रवृत्तिः, १.३.९-१०) इत्यनयोः सूत्रयोः। स्पष्टीकृतं चेदं व्याख्याकृता गोपेन्द्रभूपालेन—“इतिहासादिरितिवृत्तम्। काव्यशरीरं तस्य कुटिलत्वम्।” अनेन काव्यशरीरभूतस्य कथाविस्तरस्य वैदग्ध्यावश्यकताविषये वामनस्याङ्गीकृतिरिष्यते। अत्र कुन्तकस्यापि सहमतिरस्ति। यतो जलक्रीडादिवर्णनानि कथोपयोगीनि भवेयुरिति स मनुते (वक्रोक्तिजीवितम्, ४.९)। अस्यां दिशि रघुवंशस्य सर्गं षोडशमपि समुदाजहार कुन्तकः। अनेन वर्णनामात्रविश्रान्तकथानकापेक्षया वक्रताविशिष्टकथानके, तत्परिपोषकवर्णने च तस्य पक्षपातोऽवगम्यते।

इतिवृत्तं हि काव्यशरीरमितीदं भरत-वामनादिभिः प्रवर्तितं रूपकं यदि वयमनुसृत्य पुष्कलीकुर्मः, शरीरस्यास्य सौन्दर्यम् अलङ्कार इति स्थूलतया वक्तुमलम्[6]। अलङ्कारस्त्वावद्वर्णनाश्रितः। परमलङ्काराणाम् अलङ्कारत्वसिद्धिस्तु कविकल्पनायाश्चमत्कारातिशयेन भवति नान्यथा। चमत्कारश्च पुनर्लोकोत्तराह्लादजनकत्वम्। इतिवृत्तावश्यकतानुसारम् औचित्यमर्यादानुरोधेन कल्पितः कश्चन रमणीयो वैदग्ध्यभङ्गीभणितिविशेष एवालङ्कारः। एतदतिरिच्य सर्वे चान्ये केवलमलङ्काराभासाः। तदुक्तमेव ननु ध्वनिकृता—

“रसभावादितात्पर्यमाश्रित्य विनिवेशनम्।
अलङ्कृतीनां सर्वासामलङ्कारत्वसाधनम्॥” (ध्वन्यालोकः, २.५)

वर्णनेतिवृत्ते परस्परानुरूपे भवत इति निष्कर्षः॥

अलङ्कारालङ्कार्यविषयः सम्प्रति विव्रियते—

इतिवृत्तमलङ्कार्यं विहितालङ्कृतिरतो हि वर्णनमाहुः।
स्तुतलोकनाट्यधर्म्याऽदृतमुभयं वक्रता-स्वभावोक्तिपरम्॥३॥

इतिवृत्तमलङ्कार्यम्, वर्णनं पुनरलङ्कारः। यदि वयं रूपकेषु पञ्चसन्ध्यात्मकम् इतिवृत्तविस्तरं तथा वर्णनं यन्नानाव्यभिचारिसात्त्विकभावनिरूपकं विलोकयामः, सत्यमिदं सावयवं विशदीभवति। अवसरेऽस्मिन्नाट्यधर्मी लोकधर्मी च गणनामर्हतः। किं तावदेतयोः स्वरूपम्? उच्यते। नैसर्गिकी लोकनिकटा कार्यकारणबद्धा च लोकधर्मी। नाट्यधर्मी लोकोत्तरा कल्पनाशिल्पिता परिष्कृतिसंस्कृता च[7]। क्वचिदुभयत्रापि सादृश्यभूमयो भवेयुरिति न कदापि विस्मर्तव्यम्। अत्र पुनर्लोकधर्म्याः स्वभावोक्तिसदृशवैशिष्ट्यं नाट्यधर्म्याश्च वक्रोक्तिसंनिभवैशिष्ट्यं प्रतिकलमाकलनीयम्। वस्तुतस्तु लोकधर्मी नाट्यधर्मी द्वे अपि लोकाद्भिन्ने एव। न खलु लोकधर्मीति कथनेन लोकस्य साक्षाद्दर्शनमिष्यते। केवलं लोकवत्-प्रदर्शनमत्र समीहितम्। अतो हि लोकधर्म्यनुसारं “अवस्थानुकृतिर्नाट्यम्” इति धनञ्जयवचनं परं प्राशस्त्यमर्हति। अनुकरणपरा लोकधर्मी, अनुकीर्तनपरा च नाट्यधर्मी। तदुक्तं भगवता भरतेन—“त्रैलोक्यस्य सर्वस्य नाट्यं भावानुकीर्तनम्”। तस्मादुभयत्रापि लोकेऽननुभूतं किञ्चन सौन्दर्यमनुभूयते। किमत्रोदाहरणम्? उच्यते। अभिज्ञानशाकुन्तलनाटके दुर्वाससः शापः, वनदेवताभिराभरणप्रदानम्—इत्यादयो लोकधर्मीघटिताः प्रासङ्गिकवृत्तान्ताः। यद्यपि लोकेतराः, अवस्थानुकृतिवलयविलीना अमीति हेतुना रम्या विश्वसनीयाश्च जायन्ते। एवं हि संसिद्धा नाट्यधर्मी। अन्यच्च तत्रत्यानि वर्णनानि तत्तदवसरेषु नितरामनुकीर्तनपराण्येव। इदमत्र तात्पर्यं यदितिवृत्तं स्वभावरूपमलङ्कार्यम्[8], वर्णनं तु वक्रमलङ्कारात्मकं च॥

Notes

[1] यथाह भामहः—“शब्दार्थौ सहितौ काव्यम्” (काव्यालङ्कारः, १.१६)

[2] Ref: “What is Sāhitya?” Krishnamoorthy, K. Sanskrit Learning Through the Ages. Mysore: The Oriental Research Institute, 1970. pp.55-61

[3]Sahitateyinda Sāhitya” (Kannada). Gundappa, D V. Ḍiviji-Kṛtiśreṇi (Vol. 1). Bangalore: Department of Kannada and Culture, 2013. pp. 342-346

[4] वस्तुतः श्रव्यकाव्यान्तर्गतं संविधानकं वृत्तमिति, दृश्यकाव्यान्तर्गतं तदेवेतिवृत्तमिति शास्त्रपरिष्कारः—“काव्यमात्रस्यानभिनेयस्य तावद्वृत्तमात्रं शरीरं, नटनीयस्य त्वभिनेयरूपस्य इति एवम्प्रकारतया यदुपस्कृतं वृत्तं, अत एवेतिवृत्तशब्दवाच्यं तद्वस्तुशरीरम् ... ” (अभिनवभारती, १९.१)। तथापि वृत्तशब्द इतिवृत्तार्थे नितरामप्रचुरः, छन्दोबन्धार्थ एव प्रचुर इति कारणादत्र श्रव्यकाव्यविषयेऽपि “इतिवृत्त”पदं प्रयुक्तम्।

[5] अत्र विचित्रभावधर्मांशतत्त्वप्रख्याख्यं दर्शनं “अर्थ”त्वेन (अर्थो नाम रसादिव्यङ्ग्यार्थः), वर्णनं च “शब्द”त्वेन स्वीकार्यम्। अनेन परिष्कारेण काव्यस्य कवि-सहृदयसम्बन्धस्य च समग्रस्वरूपं स्फुटमवगम्यते।

[6] सौन्दर्यमिदं न केवलं शरीरमात्रविश्रान्तमिति चेद्रसादिरपि भवेदलङ्कारः। परन्तु वादेऽस्मिन्नैका अनुपपत्तयः सन्ति। रसादिः काव्यात्मेत्यत्र नास्ति संशीतिलेशः। किमसौ गुणी वा निर्गुणी? सौन्दर्यं हि किञ्चनामूल्यं मौल्यम्। किमेतद्वाचकं भवितुमर्हति कर्हिचित्?—इत्येवमजस्रं विपुलीक्रियते संशयराशिः। चर्चेयमास्ताम्। सम्प्रति वयमलङ्कारः कश्चन वाग्विकल्प इत्यङ्गीकृत्य पुरः सरामः।

[7] लोकधर्मी—Casual Mannerisms, नाट्यधर्मी—Stylized Mannerisms इत्याङ्ग्लेयवाण्यां वक्तुमुचितम्।

[8] इदमिह मीमांस्यम्। स्वभाव-स्वभावोक्त्योः को भेदः? स्वभावोक्तिः स्वभावात्केवलात्कथं व्यत्येति? कुन्तकस्तु स्वभावोक्तिमलङ्कार्यात्मना स्वीकरोति। तन्मते स्वभावोक्तिर्नालङ्कारः। न तथेति वयं ब्रूमः। वस्तुतः स्वभाव एवालङ्कार्यः। स्वभावोक्तिरवश्यमलङ्कार एव। अलङ्कारः परमार्थतस्तावदुक्तिवैचित्र्यविशेषः। अतः संनिवेशस्वभावाधारितः कश्चिदुक्तिविशेषोऽप्यलङ्कार एव। सा हि स्वभावोक्तिः। परन्तु तादृश्यलङ्कारे सुतरामपेक्षितः प्रतिभाविलासः। अर्थात्, तत्कथने वर्णने च काचिदलोकसामान्यसूक्ष्मता चकास्यात्। निदर्शनतयात्रैवं वक्तुं युज्यते—पादः स्वभावः, पादविक्षेपस्तु स्वभावोक्तिः, लास्यं तु वक्रोक्तिः। अत्र तावदलङ्कार्यः पादः; न खलु पादविक्षेपः। न हि सर्वे पादविक्षेपाः सौन्दर्यमञ्चन्ति। केवलं केषाञ्चन विशष्टजनानां पादविक्षेप एव सुन्दरः। तादृशं विशिष्टजनत्वमेव कविप्रतिभेति निगद्यते।

To be continued. 

   Next>>

Author(s)

About:

Dr. Ganesh is a 'shatavadhani' and one of India’s foremost Sanskrit poets and scholars. He writes and lectures extensively on various subjects pertaining to India and Indian cultural heritage. He is a master of the ancient art of avadhana and is credited with reviving the art in Kannada. He is a recipient of the Badarayana-Vyasa Puraskar from the President of India for his contribution to the Sanskrit language.

Translator(s)

About:

Shashi Kiran B N holds a bachelor’s degree in Mechanical Engineering and a master's degree in Sanskrit. His interests include Indian aesthetics, Hindu scriptures, Sanskrit and Kannada literature, and philosophy. A literary aficionado, Shashi enjoys composing poetry set to classical meters in Sanskrit. He co-wrote a translation of Śatāvadhāni Dr. R Ganesh’s Kannada work Kavitegondu Kathe.