Arts

दत्तपदा / दत्तपदी - 1

अथाधिक्रियते दत्तपदाख्यः[1] प्रकारः । अयमपि पद्यप्रकारोऽवधानप्रपञ्चे चिरात् समास्थितः सम्मानितश्च । एष पुनरस्य संक्षिप्तः परिचयः । इह प्रष्टा पद्यरचनार्थं वस्तु वृत्तं च निर्दिशन् चत्वारि पद्यान्यपि प्रददाति यानि क्रमेण चतुर्षु पादेषु विन्यस्यता कविना पद्यं प्रणेयं भवति । अत्र प्रष्ट्रा तादृशानि पदानि देयानि यानि निर्दिष्टे विषये भाषायां च दुर्घटानि भवेयुः । अतोऽत्र प्रायेण प्रष्टारो भाषान्तरीयाणि पदानि प्रदाय परिपीडयन्त्यवधानिनम् । तादृशेषु पदेषु दत्तेष्वेव अयं समाह्वः स्वाम् अभिख्यां पुष्णाति । दत्तानि पदानि तेष्वेवार्थे

समस्याख्यानम् - 4

समस्या – सञ्चुकोच कमलं दिनोदये

कमलानां दिनोदये विकासो दिनान्ते सङ्कोचश्च लोकप्रसिद्धः । इह तद्विरुद्धमभिहितम् इत्यसङ्गतिः ।

परिहारः –

          सुन्दरीयमभिरूपदीर्घिकां स्नातुमुत्सुकतयाविशत्तदा ।

          तन्मुखेन्दुमहसावहेलितं सञ्चुकोच कमलं दिनोदये ॥ (रा. गणेशः)

समस्याख्यानम् - 3

समस्या – अन्धः पठति पत्रिकाम् ।

सुबोधैवेयं समस्या ।

परिहारः –

अहं च सर्वकर्तास्मि मत्समो नास्ति भूतले ।

इति नित्यप्रवृत्त्या गर्वान्धः पठति पत्रिकाम् ॥ (अवधानभारती, 39)

इहान्धशब्दस्य गर्वान्ध इति परिणामनेन परिहृताभूत् समस्या । मदमत्तस्य पत्रिकापठनं न खल्वनुपपन्नम् । तथापि आद्यास्त्रयः पादाः वृथैव पूरिताः सन्ति । यदीहावधानी तस्य पत्रिकापठने कमपि हेतुं न्यवेशयिष्यत् तर्हि परिहारोऽयं रम्योऽभविष्यत् । प्रकारश्चात्र समासाश्रितः शब्दच्छलः ।

समस्याख्यानम् - 1

समस्याख्यानम् अवधानस्य प्रमुखेष्वङ्गेष्वन्यतममनन्यञ्च । अनर्था असङ्गतार्था वा काचन पद्यपङ्क्तिः कविसम्मुखे प्रक्षिप्यते या च तेन प्रत्यग्रप्रतिभया अर्थसङ्गतिर्यथा स्यात् तथा पूरणीया । अयं च काव्यप्रकारः चिरात् प्रथतेतरां वाङ्मयप्रपञ्चे । सोऽयं प्रकारो न केवलं संस्कृते, प्रत्युत बह्वीषु भारतीयभाषासु प्राप्तप्रतिष्ठो विराजति । विशेषतः चित्रकाव्यप्रकारेषु अमुष्य अग्रपूजा सर्वसम्मता । वात्स्यायनेन चतुःषष्ट्यां कलासु काव्यसमस्यापूरणम् अपि सन्दृब्धं विद्यते । भूयःसु च सङ्ग्रहग्रन्थेषु एतत्प्रकारकाणि पद्यानि उल्लिखितान्यलं विलोकितुम् । यथा, सुभाषितरत्नभाण्डागारे चित्रप्रकरणे समस्याख्यानाख्यो विभाग

निषिद्धाक्षरी - 2

विवर्गाक्षरी

विगतानि वर्गाक्षराणि यस्यामिति व्युत्पत्त्या यस्यां कवितायां कस्यचन वर्गविशेषस्य अक्षराणि यत्नेन वारितानि भवन्ति सा विवर्गाक्षरीति गीतमविगीतैर्विचक्षणैः । अनेनापि प्रकारेण निषिद्धाक्षरीविभागः शक्यो वर्तयितुम् । अत्र वर्गनिषेधो द्वेधा भवितुमर्हति यथा –

  1. कृत्स्ने पद्ये कस्यचन वर्गस्य निषेधः
  2. एकैकस्मिन् पादे एकैकस्य वर्गस्य निषेधः

तदेतदुभयमपि एकैकेनोदाहरणेन स्फुटीक्रियते –

1. विषयः – शिवः । निषिद्धवर्गः – पवर्गः । अवधानी – शतावधानी डा. आर्. गणेशः ।