रसाभासो निरस्यते—१
मुरलिकामरुता मरुतामपि श्रुतिचयं शिशिरीकुरुते च यः। जगति कामरुतार्तजनावन- व्यसनितालसनोऽस्तु मुदे स नः॥१॥
आत्मानुभूतिमुकुरे परिदृश्यमानं भावप्रपञ्चसकलं निरपेक्ष्यदीप्त्या । सार्वत्रिकानुभवमात्रकषप्रमृष्टं मन्ये सुवर्णमयभूषणमित्यजस्रम्॥२॥
