काव्यप्रकारवैविध्यसाधने अलङ्काराणां योगदानम्
विदितमेव खलु काव्यं दृश्यं श्रव्यं चेत्यादौ द्वेधा विभक्तं; पश्चाद्गद्य-पद्य-चम्पूभेदत्वेन त्रेधा चेत्यपि । तथा च मुक्तक-युग्मक-सान्दानितक-कलापक-कुलक-अष्टक-शतकादिपद्यसङ्ख्यानुसारं विभागा वर्तन्त एव । अपि च गद्ये पद्यगन्धि-उत्कलिका-चूर्णिकाप्रायादयः सन्ति नैके विभागाः । महाकाव्यं, खण्डकाव्यं, आख्यायिका, कथा इत्यादयः श्रव्यकाव्यप्रभेदास्तथा नाटक-प्रकरण-भाणादिदशररूपकत्वेन च नाटिका-त्रोटक-सट्टकाद्यष्टादशाधिकोपरूपकत्वेन दृश्यकाव्यप्रकारा अपि राजन्ते । एवमेव नूतनसंप्रदायानुसारं लघुकथा (short story), दीर्घकथा (novel), प्रवासकथनं (travelogue), ललितप्रबन्धः (essay), जल्पकथानकं (comic writing) इत्या