९ ऋत-सत्ययोरर्थभेदस्तैत्तिरीयब्राह्मणस्य वचनेनानेन स्पष्टीभवति। “ऋतं त्वा सत्येन परिषिञ्चामीति नायं परिषिञ्चति। सत्यं त्वर्तेन परिषिञ्चामीति प्रातः। अग्निर्वा ऋतम्। असावादित्यः सत्यम्। अग्निमेव तदादित्येन सायं परिषिञ्चति। अग्निनादित्यं प्रातः सः।” अत्र रजनीदिवसावेकस्यैव कालतत्त्वस्य द्वे मुखे। तावेकाकारेण गृहीत्वा सेवयेदिति तात्पर्यम्। तत्र सायन्तनसवने ध्येयं दैवतमग्निः। अयमेव ऋतस्वरूपी। प्रातःसवने ध्येयं दैवतं त्वादित्यः। अयं तु सत्यस्वरूपी।...
 
0
४ ऋततत्त्वे त्रिचतुरर्थच्छायाविच्छित्तयः सन्तीव भान्ति— जगति विद्यमानः कश्चन क्रमो काचन व्यवस्था वा। अवश्यम्भावी कर्म-फलसम्बन्धः, ऋणि-ऋणसम्बन्धश्च। यतो हि कारणे सति कार्यं भवितव्यमेव; यथा मूले सत्यङ्कुरास्तित्वम्। सति कर्मशेषे शुभाशुभप्राप्तिसम्भावनेव च। स्वभावविकासः—सर्वेषु जीविषु सर्वेष्वपि च भूतेषु कश्चन गुणसञ्चयो गर्भीकृतः। स एव तस्य नैजो धर्मः। अनादिरसौ नैजधर्मस्तु जीवस्य जन्मान्तरसरण्यां प्राप्तपरिणाम-विपरिणामो जागर्ति। अस्य वृद्धिः...
 
0
१ सामान्यतया वदामः किल वयं लोके “इयमस्माकं प्रकृतिः,” “तत्तस्य नैजम्,” “इदं मे नैजम्” इत्यादीनि वचांसि। कोऽसौ प्रकृतिः? किं नाम नैजम्? आ जनेर्मानवेषु समन्विता भवन्ति केचन पदार्थाः, काश्चन शक्तयो गुणप्रवृत्तयश्च। मानवेन कथं वेदं वस्तुजातं समासादितम्? येन केनापि विधिनेति वक्तव्यम्—जन्मान्तरेण जातं, वरत्वेन लब्धं, पूर्वकर्मफलरूपेण संप्राप्तं वा। यत्किमपि भवतु नाम। निष्कर्षस्तावदयं यन्मनुष्यस्य जन्मावसर एव तत्तस्य सहजातम्। इदमेव हि तस्य नैजम्।...
 
0