ऋतं सत्यं तथा धर्मः — अर्थच्छायाः

This article is part 2 of 3 in the series ऋतं सत्यं तथा धर्मः

ऋततत्त्वे त्रिचतुरर्थच्छायाविच्छित्तयः सन्तीव भान्ति—

  • जगति विद्यमानः कश्चन क्रमो काचन व्यवस्था वा।
  • अवश्यम्भावी कर्म-फलसम्बन्धः, ऋणि-ऋणसम्बन्धश्च। यतो हि कारणे सति कार्यं भवितव्यमेव; यथा मूले सत्यङ्कुरास्तित्वम्। सति कर्मशेषे शुभाशुभप्राप्तिसम्भावनेव च।
  • स्वभावविकासः—सर्वेषु जीविषु सर्वेष्वपि च भूतेषु कश्चन गुणसञ्चयो गर्भीकृतः। स एव तस्य नैजो धर्मः। अनादिरसौ नैजधर्मस्तु जीवस्य जन्मान्तरसरण्यां प्राप्तपरिणाम-विपरिणामो जागर्ति। अस्य वृद्धिः पादपस्येव नैसर्गिकी। वृक्षस्यैकस्य तदुत्पन्नस्य चान्यस्य गात्रे वा विटपरूपे वा पत्रसङ्ख्यास्वपि वा वैसदृश्याणि स्युः। किं च तयोः काष्ठमज्जानाम् अन्तारचनासु, फ्लपुष्पाणां रुचिरागेषु दृश्यते किलैकरूप्यम्। एवमेव हि नराणां नैजम्। नैकेषु गौणांशेषु पार्थक्यं भजेत्, परं मुख्यांशे तन्न व्यभिचरति। नरस्य जीवनक्रमो वा धर्मस्तस्य हितकारी भवेद्यदि क्रमोऽसौ तस्य जीवस्य नैजानुसारी भवेदिति प्रथमः कल्पः। स्वभावविरुद्धो यः कोऽपि क्रमो वा नियमो न कदाचन प्रयोगसाध्यः। अत एव नैव सः प्रयोजनकरः। अनुसृतकायावयवरूपः कवच इव धर्मस्तु सर्वथा हितकृद्भवति। तथैव धर्मिणो योग्यतानुसारं क्लृप्तो धर्मनियमः सुकरतया प्रयात्यनुष्ठेयताम्। एवम् ऋततत्त्वानुसारीणि खलु धर्मशास्त्राणि।
  • पुण्यकर्म—इज्याराधनादीनि तथा तत्साधनभूतानि द्रव्याणि पवित्राणि सर्वाण्यपि ऋतशब्देन व्यपदिष्टानीति परम्पराप्रसिद्धमेव।

“ऋत”शब्दस्य सन्त्यन्येऽपि चार्था यथा—

(१)  यज्ञः, (२) उञ्छवृत्तिः (वनेषु वा केदारेषु स्वयं पतितानां धान्यानां सङ्ग्रहेण स्वाहारसिद्धिः), (३) जलम्, (४) सूर्यः, (५) विष्णुः, (६) रुद्रः, (७) ऋषिप्रभेदः। परस्परनिष्पन्नाः खल्वर्था अमी। किं तु ऋतशब्दस्य चिरन्तनार्थः स्वाभाविकसङ्गतिरथवा सत्यबीजमिति, तथा च स्वाभाविकसङ्गत्याः परिणामः कर्मफलनियमो वेति प्रतिभाति।

यद्यपि दैनन्दिनेषु सन्दर्भेषु नः सामान्यवाचि “सत्य”पदप्रयोगापेक्षया “ऋत”शब्दव्यवहारः क्वाचित्कतया भाति, तथापि “असत्य”पर्यायत्वेन “अनृत”मिति पदं परं प्रचुरम्। ऋतेतरमनृतं ननु। श्रुतिषु ऋतं सत्यं चेति पदे परस्परसंवादरूपेण—सति भिन्नार्थकत्वेऽपि परिपूरकत्वेन—युगपत्प्रयुक्ते। यथा—

       “ऋतं वदिष्यामि सत्यं वदिष्यामि।”

            “ऋतं तपः सत्यं तपः।”

            “ऋतं सत्यं परं ब्रह्म।”

            “ऋतं त्वा सत्येन परिषिञ्चामि।”

तर्हि ऋतसत्ययोर्मध्ये विद्यमानोऽर्थभेदः कः कीदृशो वा? अत्र भगवान् भाष्यकारः श्रीशङ्कराचार्य एवमभिप्रयति—

      “ऋतं यथाशास्त्रं यथाकर्तव्यं बुद्धौ सुपरिनिश्चितमर्थं ... सत्यमिति स एव वाक्कायाभ्यां सम्पाद्यमानः ...।”

आचार्यसायणस्य व्याख्यानमीदृशं श्रूयते—

“ऋतं मनसा यथार्थवस्तुचिन्तनम्। सत्यं वाचा यथार्थभाषणम्।”

“सत्यमबाध्यम्। सत्यत्वं च द्विविधं व्यावहारिकं पारमार्थिकं च। हिरण्यगर्भरूपं व्यावहारिकं सत्यम्। तन्निराकरणेन पारमार्थिकं सत्यम्। प्रतिपादयितुं ऋतं सत्यमिति विशेष्यते। अत्यन्तं सत्यमित्यर्थः।”

पुनश्चान्यत्र सायणार्य एवं प्रस्तौति—

“विवक्षितस्य विद्यमानार्थस्यादौ मनसा पर्यालोचना ऋतं वदनम्। पश्चाद्वचसोच्चारणं सत्यवदनमिति तयोर्विवेकः।”

“ऋत”शब्दः प्रायेण सत्यशब्दादपि प्राचीनः। भगवत्पादशङ्करस्य काल एव “ऋत”पदापेक्षया “सत्य”पदप्रयोग एव प्रचुर इति, “असत्य”शब्दापेक्षया “अनृत”शब्दप्रयोग एव विपुल इति तर्कयितुं कारणमेवं प्रतिभाति—शारीरकभाष्ये तावदाचार्यशङ्करः

      “सत्यानृते मिथुनीकृत्य”

इति वाक्यं प्रयुङ्क्ते। अत्रेदमवधेयं यद्यावन्मात्रं भिद्यते ऋतं सत्यात्, तावन्मात्रमनृतमसत्यात्। पूर्वोक्ते भाष्यवाक्ये भगवत्पादाः “सत्य”शब्दप्रतियोगित्वेन नासत्यशब्दं प्रयुञ्जाना “अनृत”पदमेव प्रयुञ्जते। अत्रोपनिषदेवं स्यात्—ऋतमिति सत्यस्य प्रथमावस्था। सत्यमिति ऋतस्य द्वितीयावस्था। अतो हि “अनृत”मिति शब्दे न केवलं सत्यस्याभावः परं सत्यमूलस्याप्यभाव इति—तन्नाम नितरामसत्यमिति—ध्वन्यते।

सत्यं नाम ऋतस्य व्यवहारार्हता। अनृतं तु सत्यस्य संपूर्णशून्यता।

पुनश्च भगवत्पादशङ्करैः कठोपनिषद्भाष्ये “ऋतं पिबन्तौ सुकृतस्य लोके” इति मन्त्रभागव्याख्यावसरे “ऋतं सत्यं, अवश्यम्भावित्वात्कर्मफलं पिबन्तौ” इति व्यलेखि।

सायणाचार्यस्तु “ऋतेन मित्रावरुणौ” इति ऋग्वेदमन्त्रस्य विवृतौ “ऋतेनावश्यम्भावितया सत्येन फलेन ... ऋतमित्युदकनाम सत्यं वा यज्ञं वा इति यास्कः” इति पठति। पुनश्च “ऋतेन या वृतौ ऋधावृतस्य” इति मन्त्रस्य टीकायां “ऋतेन सत्यवचनेन यजमानुग्रहकारणम्। ऋतावृधौ । ऋतमवश्यम्भावितया सत्यं कर्मफलम्। तस्य वर्धकौ।” इति भणति। अन्यच्च “गोपामृतस्य दीदिविम्” इति मन्त्रस्य विवरणे “ऋतस्य सत्यस्यावश्यम्भाविनः कर्मफलस्य। दीदिविं पौनःपुन्येन भृतं वा द्योतकम्।” इति कथयति।

एवं “ऋत”स्य मूलार्थे न केवलं “सत्य”मिति व्यपदेशः परं कर्मफलवैषयिकः ऋणबन्धनविधिरिति ध्वन्यते। स्वाभाविकः सम्भवस्तथा च तेन हेतुना स्वाभाविकरूपेण फल्यमिति—तन्नाम नैजवस्तु तथा तद्वस्तुनः कार्यं, नैजकृत्यं च तद्भूतं फलमिति—शृङ्खलिकारूपमेव ऋतमिति तात्पर्यम्। अस्माच्छृङ्खलाबन्धाद्विमोचनं दुर्निवार्यमिति हेतुना ऋतं नाम निरुल्लङ्घ्यो नियमः। अतो हि तद्व्रतम्। अत एव सोऽयं धर्मः। एवं परस्परपरिणामपरम्परायां ऋतमेव धर्म इति सिद्धान्तः।

अप्यस्ति प्रकरणेऽस्मिन् विवेचनीया शब्दत्रयी। (१) ऋतुः, (२) ऋजुः, (३) ऋणम्। एषां निर्वचनमेवम्—

(१) “ऋतु”शब्दः “ॠ-गतिप्रापणयोः” इति धातुना निष्पन्नः। यथाकालं यथाक्लृप्तं यश्चलति स ऋतुः।

(२) “ऋजु”शब्दः “ऋज-गतिस्थानार्जनोपार्जनेषु” इति धातुना निष्पन्नः। सहजगुणानुसारं वर्तनमित्यस्य तात्पर्यम्। इदमेव ऋजुतेति, आर्जवमिति चाभिधीयते। तन्नाम करणत्रये निष्कापट्यं निर्वक्रता च।

(३) “ऋण”शब्दोऽपि “ऋत”शब्द इव “ॠ-गतिप्रापणयोः” इति धातुना निष्पन्नः। ऋणशब्दं माधवीयाधातुवृत्तिः “कालानन्तरदेयविनिमयोपलक्षणार्थम्” इति विवृणोति। मानवेषु परस्परवर्तनेन यद्यन्नैसर्गिकरूपेण फलाफलसम्बन्धित्वाद्भवति तदृणम्। जीव-लोकयोरन्योन्यसम्पर्कात्स्वाभाविक इव य उदेति परिणामपरम्परा सा ऋणमिति कथ्यते।

ऋजुतायाः समानर्थकत्वेन ऋतशब्दः प्रयुज्यते। बहिःप्रभावरहिते सुतरामकृत्रिमे मनसि यद्वस्तु समादृत्य भावनं यत्समुदेति तत्सकलमपि ऋतम्। ईदृशस्य ऋतस्यानुगुणा चर्या ऋतुवृत्तिः। इयमेव ऋजुसरणिरित्यपि गीयते। सर्वमिदं स्वाभाविकतया सम्पन्नम्; अकृतकं, सरलं, नैजं च।

मनसि ऋतमिति विद्यमानं मुखे सत्यत्वेन निस्सार्यमाणं किमपि वैभिन्न्यमाप्नोति वा? यदि न तथा तर्हि कस्मादिव संज्ञाद्वैविध्यगौरवम्?

संज्ञयोरुभयोरङ्गीकृतित्वाद्वेदे तयोरर्थभेदोऽप्यनुमत इति गम्यते। परं तु स भेदः किमर्हति सार्थक्यम्? मनसा वचः किमु भिद्यते? हृदि संस्थितं तत्त्वं किं वदने विपर्यस्यते?

प्रायेणास्मन्मनसि विद्यमानः प्रतिबोधो निजवचसा न विरुद्ध्यते। बहिरङ्गं यद्भाषितं तदन्तरङ्गस्य प्रतिबोधस्य यथावत्प्रतिबिम्बत्वेनैव भाव्यम्। इदमेव हि यथार्थमाहुः। अनेनैव हि धर्मः। परं त्वस्य विपरीता अपि सन्दर्भाः सम्भवन्ति नरजीविते। दशाधिकेषु सन्दर्भेषु सत्सु निजमनसो याथार्थ्यं न्यूनातिरेकं विना प्रायेण सप्ताधिकेष्वेव निरूपयितुं शक्यम्। शिष्टेषु सन्दर्भेषु प्रत्यूहैः सम्भाव्यमेव। तदा निजमनोगतं वाचा रूपयितुं प्राक् परीक्ष्य परिष्कार्यमिति लोकहितदृष्ट्या किल कर्तव्यं भवति। अत्र हेतुश्चतुर्धा—

(१) अन्यप्रमाणपरामर्शावश्यकता,

(२) भाषापाटवस्य न्यूनातिरेकता,

(३) लोकपरिणामचिन्तनकर्तव्यता,

(४) बहिःप्रमाणापेक्षता।

अस्मद्भाषितं सर्वदा लोकव्यवहारहितकृद्भवेत्। इदं तु मूलसूत्रम्। अत एव वक्तरि काचिज्जागरूकता, काचन शोधनबुद्धिः, कापि स्नेहप्रवृत्तिः, सहानुभूतिः काचिदपि वाञ्छिताः।

(१) यः कोऽपि नरो निजमनसि यदालोचनमाविर्भूतमादौ तदेव यथार्थं परिपूर्णं चेति मनुयात्। यतो हि तस्यान्तःकरणे दोषद्वितयसम्भवो न निराकार्यः—(अ) तस्य ज्ञानेन्द्रियाण्यपाटवानि रोगग्रस्तानि वा स्युः। नयनामयसन्त्रस्तस्य क्षीरमपि हारिद्रनीरायते। इदृशा भ्रान्तिप्रमादा मानवबुद्धिसहजा एव। दोषस्यास्य परिमार्जनाय सर्वैरपि स्वानुभवं परानुभवैः सह तुलयित्वा विम्रष्टुं ननु युक्तम्। (आ) सर्वेष्वपि काश्चन पूर्ववासनाः केचन पूर्वाभिनिवेशाश्च हृदयान्तरङ्गे निलीय वर्तन्ते। एते हि रागद्वेषाः।  इमे तावदन्तः स्थित्वैव निजदर्शनं कलुषयन्ति। निजबुद्धिगतिं विपथे नयन्ति। अनेनैव नश्चित्तसञ्चारो विनास्मदवधानं वक्रतामियात्। मानसिकप्रमादोऽपि न वैरल्याय। एवमीदृशां वैपरीत्यानां निवारणाय स्वानुभवेन सह परवचःसत्यं तुलयित्वा परिशीलनं परमावश्यकम्। एवमुभयदृष्ट्यापि स्वानुभवं परानुभवेन सहोपमीय शोधनं कार्यम्। अनेन किल शोधनेन प्रथमोदितो निजाभिप्रायः किञ्चिदिव परिष्कारमर्हेत्।

(२) स्वभावेनैव परिमिता ननु वाचो बलम्। अस्मन्मनसि जातानां भावजातानां यथावद्रूपेण परेभ्यः प्रापणाय समुचिता पदसामग्री सन्दर्भेषु बहुषु नास्माकं वशंवदा भवति। चित्तचरितस्य नयसूक्ष्माणां निशितपरामर्शनेन नूनमिदमवगम्यते यद्भाषितं नाम किमपि रुक्षयानमिति। परं तु लोकरूढां वाचं विहाय नान्यदस्ति निजान्तरङ्गाभिव्यक्तिसाधनम्। अस्मद्वागभिव्यक्तिः श्रोतॄणां मनसि निजेङ्गितापेक्षया कामपि नतोन्नतिमवगतिपथे नयतीति दृष्टचरमेव। अत्र हेतवः प्रायेण मनोबुद्धीनामालस्यं, नैसर्गिकी विस्मृतिः, भाषापाण्डित्यमितम्पचता, वचनरचनाचातुरीदुर्विपाकश्चेत्यादयः। ईदृशान्युच्चावचानि  सम्भाषणावसरे परमधिकतया सम्भवन्ति। अतो हि ऋतस्य सत्यङ्करणक्रमे यथावत्प्रतिबिम्बनं दुश्शकमिव प्रतिभाति। वाग्रूपे ननु सत्ये मनोगतर्तस्य स्थूलांशा एव प्रतीय सूक्ष्मांशसर्वस्वं तावन्न स्फुटतां भजेत्।

(३) वागस्मदीया जगतीहिताय भवेन्न कदाचनान्यथा। ऋतं वदिष्यामीति लोकसन्त्रासनं न धर्माय। कस्मिंश्चिदथ कुले घटितं स्यान्नाम किमप्यवचनीयं कृत्यम्। तत्परिज्ञानानुक्षण एव सत्यप्रचारो विधेय इत्यस्माभिः क्रियते चेज्जगति कोणाघातपुरस्सरं प्रजल्पनं तत्किं हिताय वा ऋताय? अस्मदिष्टजनवर्गे कस्मिंश्चिद्भर्तरि तस्य भार्यायाः सङ्गतिमथवा तस्यां पुनर्जायायां पत्युर्वार्तां क्वचिदहितरूपां निवेदयितुमापतति यदि सन्दर्भस्तर्हि तयोर्दम्पत्योरुचितकारी सुहृत्किं नु वा कुर्यात्? पुरोभागितया किं नु स कथयति निर्मर्यादं निजमनोगतम्? नैव। नूनं नागरकवृत्त्या परुषेतरक्रमेण शिष्टाचारानुरोधेन च वक्तव्यं वक्ति। स तु यथासाध्यं श्रोतृमनःकासारकर्दमीकरणं परिहरति। कस्मिन्नपि कदाचिद्दुःखवार्तानिवेदनभारः सञ्जायते यदि स तु कदम्बकोरकन्यायेन मन्दमन्दमिव तां दुर्वार्तां प्रकटयन्नन्ततः श्रोतुर्मनसि स्वयं तत्प्रत्यभिज्ञानाय साहाय्यं व्याहरति[1]। एवं मनःस्फुरितानां विचारजातानां कथनकाले सदैव काचित्सन्दर्भौचिती समनुसन्धेया। प्रत्यहं सर्वोऽपि वक्ता निजवचसां बाह्याभ्यन्तरसमन्वयचिकीर्षुर्भवेत्। न परित्याज्यमान्तरङ्गिकं न वा प्रकोपनीयं बाहिरङ्गिकम्। अन्तःप्रज्ञया प्रच्युतो न भवेद्बहिरपि शुश्रूषुगौरवं न जह्यात्। ऋत-लोकहित्योर्मध्ये सम्भाव्यमन्योन्यविरोधमपनीय कल्पयेदनिशमानुकूल्यम्। इदृशमन्तरङ्ग-बहिरङ्गसमन्वयसंसिद्धं हि ऋतं सत्यात्मना परिणमति।

(४) सम्पूर्णदर्शनार्थं परेषामप्यभिमतानि सङ्ग्राह्याणि समालोच्यानि च। अन्येषामपि कथनीयानि प्रमाणतया यथार्हं सम्भवन्तीति नास्ति विप्रतिपत्तिः। यद्यपि तानि स्वाभिप्रायप्रतिकूलानि भवन्ति तथापि समालोच्यानि खलु। यतस्तत्रापि विद्यत एव प्रामाण्यभावः।

अहङ्काराभिभूतेषु जनेषु न मनागपि परेषां विषये प्रामाण्यबुद्धिर्जागर्ति। न ते परेषु प्रज्ञापाटवं पुरस्कुर्वन्ति, हितचिन्तनं सभाजयन्ति, विचारशीलतां समामनन्ति च। किं बहुना शिष्टाचारतयापि ते पराभिप्रायकणिकामपि न सहन्ते। ईदृशी परप्रामाण्योपेक्षा प्रत्यूहायते ऋताभिज्ञानसरणौ। अतो हि यत्नेनेयं परिहार्या।

टिप्पन्यः

[1] महाकवेर्भासस्य नाम्नि प्रथिते प्रतिमानाटके (३.१) दशरथस्योपरतिं भरताय सारथिरीदृशेनैव नयेन क्रमशः कथयतीति साहित्यरसिकानां सुविदितम्। अस्यां दिशि प्रकृतलेखकस्य “संस्कृति”संज्ञितायां कन्नडकृतौ “सत्यनिरूपणे नयविशेषः” (सत्यनिरूपणेयल्लि नयविशेष), “सत्यं च धर्मः” (सत्य मत्तु धर्म) इति प्रकरणे पर्यालोच्ये।

To be continued.

This is a serialized Sanskrit translation of D V Gundappa’s Kannada monograph “Rta Satya Dharma” by Shashi Kiran B N.

Author(s)

About:

Devanahalli Venkataramanayya Gundappa (1887-1975) was a great visionary and polymath. He was a journalist, poet, art connoisseur, philosopher, political analyst, institution builder, social commentator, social worker, and activist.

Translator(s)

About:

Shashi Kiran B N holds a bachelor’s degree in Mechanical Engineering and a master's degree in Sanskrit. His interests include Indian aesthetics, Hindu scriptures, Sanskrit and Kannada literature, and philosophy. A literary aficionado, Shashi enjoys composing poetry set to classical meters in Sanskrit. He co-wrote a translation of Śatāvadhāni Dr. R Ganesh’s Kannada work Kavitegondu Kathe.

Prekshaa Publications

Prekṣaṇīyam is an anthology of essays on Indian classical dance and theatre authored by multifaceted scholar and creative genius, Śatāvadhāni Dr. R Ganesh. As a master of śāstra, a performing artiste (of the ancient art of Avadhānam), and a cultured rasika, he brings a unique, holistic perspective...

Yaugandharam

इदं किञ्चिद्यामलं काव्यं द्वयोः खण्डकाव्ययोः सङ्कलनरूपम्। रामानुरागानलं हि सीतापरित्यागाल्लक्ष्मणवियोगाच्च श्रीरामेणानुभूतं हृदयसङ्क्षोभं वर्णयति । वात्सल्यगोपालकं तु कदाचिद्भानूपरागसमये घटितं यशोदाश्रीकृष्णयोर्मेलनं वर्णयति । इदम्प्रथमतया संस्कृतसाहित्ये सम्पूर्णं काव्यं...

Vanitakavitotsavah

इदं खण्डकाव्यमान्तं मालिनीछन्दसोपनिबद्धं विलसति। मेनकाविश्वामित्रयोः समागमः, तत्फलतया शकुन्तलाया जननम्, मातापितृभ्यां त्यक्तस्य शिशोः कण्वमहर्षिणा परिपालनं चेति काव्यस्यास्येतिवृत्तसङ्क्षेपः।

Vaiphalyaphalam

इदं खण्डकाव्यमान्तं मालिनीछन्दसोपनिबद्धं विलसति। मेनकाविश्वामित्रयोः समागमः, तत्फलतया शकुन्तलाया जननम्, मातापितृभ्यां त्यक्तस्य शिशोः कण्वमहर्षिणा परिपालनं चेति काव्यस्यास्येतिवृत्तसङ्क्षेपः।

Nipunapraghunakam

इयं रचना दशसु रूपकेष्वन्यतमस्य भाणस्य निदर्शनतामुपैति। एकाङ्करूपकेऽस्मिन् शेखरकनामा चित्रोद्यमलेखकः केनापि हेतुना वियोगम् अनुभवतोश्चित्रलेखामिलिन्दकयोः समागमं सिसाधयिषुः कथामाकाशभाषणरूपेण निर्वहति।

Bharavatarastavah

अस्मिन् स्तोत्रकाव्ये भगवन्तं शिवं कविरभिष्टौति। वसन्ततिलकयोपनिबद्धस्य काव्यस्यास्य कविकृतम् उल्लाघनाभिधं व्याख्यानं च वर्तते।

Karnataka’s celebrated polymath, D V Gundappa brings together in the third volume, some character sketches of great literary savants responsible for Kannada renaissance during the first half of the twentieth century. These remarkable...

Karnataka’s celebrated polymath, D V Gundappa brings together in the second volume, episodes from the lives of remarkable exponents of classical music and dance, traditional storytellers, thespians, and connoisseurs; as well as his...

Karnataka’s celebrated polymath, D V Gundappa brings together in the first volume, episodes from the lives of great writers, poets, literary aficionados, exemplars of public life, literary scholars, noble-hearted common folk, advocates...

Evolution of Mahabharata and Other Writings on the Epic is the English translation of S R Ramaswamy's 1972 Kannada classic 'Mahabharatada Belavanige' along with seven of his essays on the great epic. It tells the riveting...

Shiva-Rama-Krishna is an English adaptation of Śatāvadhāni Dr. R Ganesh's popular lecture series on the three great...

Bharatilochana

ಮಹಾಮಾಹೇಶ್ವರ ಅಭಿನವಗುಪ್ತ ಜಗತ್ತಿನ ವಿದ್ಯಾವಲಯದಲ್ಲಿ ಮರೆಯಲಾಗದ ಹೆಸರು. ಮುಖ್ಯವಾಗಿ ಶೈವದರ್ಶನ ಮತ್ತು ಸೌಂದರ್ಯಮೀಮಾಂಸೆಗಳ ಪರಮಾಚಾರ್ಯನಾಗಿ  ಸಾವಿರ ವರ್ಷಗಳಿಂದ ಇವನು ಜ್ಞಾನಪ್ರಪಂಚವನ್ನು ಪ್ರಭಾವಿಸುತ್ತಲೇ ಇದ್ದಾನೆ. ಭರತಮುನಿಯ ನಾಟ್ಯಶಾಸ್ತ್ರವನ್ನು ಅರ್ಥಮಾಡಿಕೊಳ್ಳಲು ಇವನೊಬ್ಬನೇ ನಮಗಿರುವ ಆಲಂಬನ. ಇದೇ ರೀತಿ ರಸಧ್ವನಿಸಿದ್ಧಾಂತವನ್ನು...

Vagarthavismayasvadah

“वागर्थविस्मयास्वादः” प्रमुखतया साहित्यशास्त्रतत्त्वानि विमृशति । अत्र सौन्दर्यर्यशास्त्रीयमूलतत्त्वानि यथा रस-ध्वनि-वक्रता-औचित्यादीनि सुनिपुणं परामृष्टानि प्रतिनवे चिकित्सकप्रज्ञाप्रकाशे। तदन्तर एव संस्कृतवाङ्मयस्य सामर्थ्यसमाविष्कारोऽपि विहितः। क्वचिदिव च्छन्दोमीमांसा च...

The Best of Hiriyanna

The Best of Hiriyanna is a collection of forty-eight essays by Prof. M. Hiriyanna that sheds new light on Sanskrit Literature, Indian...

Stories Behind Verses

Stories Behind Verses is a remarkable collection of over a hundred anecdotes, each of which captures a story behind the composition of a Sanskrit verse. Collected over several years from...