संस्कृतसाहित्यचर्यासपर्या

IV

इदानीं पाण्डित्यपारम्यमात्रमेदुरं दर्शनध्वनिदूरं प्रदर्शनपर्याप्तवाच्यवैदुष्यं विद्वत्काव्यविषये किञ्चिदालोचयामः। तदिदं बहुधा श्रद्धाजडं, रूपगर्वितं, यातयामञ्च कविकर्म परिणामात् प्रयत्नं, प्रतिभानात् पाण्डित्यं, परिपाकात् प्रावीण्यञ्च बहुमन्यमानानां दुर्विलसितमेव समजनि। अनेनैव हेतुना हि युगेऽस्मिन् कल्पनावतां कवीनां स्थाने वैदुष्यदुर्विदग्धानां प्रत्यादेश आसीत्।

[contextly_sidebar id="gitNMfbHZ2QNMTaRUVhC1ibNRkzznNpN"]

ऋतु-रुचीनां, नद-नदीनां, गिरि-दरीणां, मृग-पक्षिणां, वन-जनानां, ज्योतिषां च निसर्गसौन्दर्यवर्णनावसरे निर्विशङ्कं विशृङ्खलञ्च कविसमयमात्रबुद्धिः प्रावर्धत। पदार्थज्ञानापेक्षया शब्दार्थज्ञानमेव मानयाञ्चक्रे। भावार्थं बौद्धार्थाय विचिक्रिये। चित्तवृत्तिव्यावर्णनस्थाने रसनिर्मितिभ्रान्त्या देहवृत्तिमेव निर्लज्जं निष्प्रर्त्यूहमचीकमत। जीवप्रपञ्चाज्जडप्रपञ्चं, रक्तिप्रपञ्चादुक्तिप्रपञ्चमेव परतरं गणयद्भिः केवलं स्वानुभवशून्येन मनसा कोशकौशलं, सूत्रसौष्ठवं, समयसाधिष्ठं, वैकट्यवरिष्ठञ्च किमपि क्लिष्टकर्मिष्ठमथ मालतीस्रग्धिया म्लानास्निग्धकैतकमालिकैव गुम्फितेति ब्रूमश्चेन्न वयं नैष्ठुर्यकदर्थिताः स्याम। सत्यमेव सन्त्यत्र भारवि-बिल्हण-भोज-बाण-भर्तृहरि-भवभूतिमुखाः पथप्रदर्शकाः क्वचित्, अश्वघोष-अमरुक-भल्लट-क्षेमेन्द्र-कल्हण-जयदेव-मूक-नीलकण्ठ-महेन्द्रवर्म-विष्णुगुप्त-श्यामिलक-लीलाशुक-योगेश्वर-वसुकल्प-वेङ्कटाध्वरि-विज्जिका-गङ्गाम्बिका-रामभद्राम्बा-दामोदरगुप्त-बल्लालाद्याः विनूतनायनप्रस्थानपणवायमानाः क्वचित्, सुबन्धु-श्रीहर्ष-रत्नाकर-सोमदेव- समन्तभद्र-मुरारिमिश्र-राजशेखर-वेदान्तदेशिकप्रमुखा विचित्रचित्रचर्याचुञ्चवः क्वचित्;  यैर्निश्चयेन संस्कृतसारस्वतप्रासादः किमप्याससाद प्राकारपालीषु मान्यं नावीन्यम्। तथापि नूनमभिजातकवीनामार्षकवीनाञ्च संनिधावेते  भूमत्वं न भजन्तीति मत्वैव निरूपितमिदमर्थजातम्। न वयं पुरोभागा, नापि रन्ध्रान्वेषणतोषिणश्च।

केवलमुदाहरणत्वेन पश्यामश्चेदेकमलङ्कारलोकमेव स्वीकुर्मः। वाल्मीकिमुनेः कालिदासस्य वाऽलङ्कारविनियोगं विलोकयामश्चेत्तत्र प्रधान्यमधिवसत्युपमा या सर्वालक्ङ्कृतिमातृमूर्तिरिव चकास्तीति सर्व एव जानन्ति। अत्र प्रकृतिं, मानवप्रकृतिं, भौमं वैयोमञ्च निसर्गवैचित्र्यं, विविधकला-शास्त्रशालीनताञ्च मनसि निधाय कविना मुनिकविना च कथं प्रत्यग्रकमनीयकविता कल्पितेति सहृदया एव प्रमाणम्। एवमनयोरुपमाप्रपञ्चे परमेष्ठिप्रपञ्चस्य किमपि संक्षिप्तपरिपूर्णरूपमेव प्रकटितमिति वच्मश्चेन्नातिशयोक्तिः। परवर्तिनस्तु वैदग्ध्यदुर्विदग्धाः कविमानिनः सादृश्यमूलामुपमामेव स्फोरयितुं विविधानथ विनियुञ्जतेऽलङ्कारान् भ्रान्तिमत्-ससन्देह-प्रतीप-तुल्ययोगितादीन्। न वयं मनागप्यनेन विधिना विरुद्धाः। प्रत्युत कविरयमपि निर्विरामं निजकाव्येषु काव्यालङ्कारानीदृशानेव निरतिशयप्रीत्या विनियुनक्ति। अपि चालङ्कृतीनां पारम्यप्रतिपादकोऽसौ वार्तमानिकलेखकेषु तद्वैमुख्यं विलोक्य नितान्तमिव खिन्नो नुन्नश्च। किञ्च विवादस्थानमत्र तु विविधालङ्कारयोगबाहुल्येनापि कस्मादिव सादृश्यलोकस्य प्रत्यग्रहार्दिकवैविध्यं नोपलक्षितमिति। तदित्थं : वदनं वा नयनं, पाणी वा चरणौ कमलेन सह सदैव सादृश्यं भजन्ते। तद्विना प्रायेण मार्गान्तरमपि नास्ति। किञ्च कष्टानां, सुखानां, गिरीणां, झरीणां, गात्राणां, पात्राणां, वल्लीनां, पल्लीनां वा नास्तीदमेवेति सामयिकं सादृश्यम्। अत्र सर्वत्रापि समुज्ज्वलां स्वोपज्ञतां कल्पयितुं शक्यमेव सुतराम्। परन्तु नैते पण्डितकविंमन्याः कदाचन कमनीयं प्रकारान्तरं भजन्ते। तरुणीवर्णनं नाम यातयामा गतरसाः पर्युषिता एव प्रायेण सादृश्यधर्माणः स्वीक्रियन्ते। अन्यच्चैतेषां विनियोगेन, विकटाक्षरबन्धेन, दुष्कर-दुरूह्यपदपद्धत्या च किमपि कदर्थकं पद्यं यत्प्रादुरास्ते तत्पठनेन कविरस्य विचित्रविलक्षणः प्रेक्षावानित्येवमेवावगम्यते न तु तेनैवोद्दिष्टस्य वर्ण्यविषयस्य भावः स्वभावोऽपि वा। कति पण्डितकवयोऽस्मिन् युगे चित्तवृत्तिसाकल्यं वर्णयितुं प्रभवन्त्यमरुक इव, लोकस्वभावसर्वस्वं सूचयितुं पारयन्ति भल्लट इव, वैराग्यवैभवं भावयितुं शक्नुवन्ति भर्तृहरिरिव? आस्तां वर्ण्यविषयाणां वर्णनक्रमाणाञ्च मीमांसा; तदिदानीं केवलं पदानामेव निर्माणं निरीक्षामहे। सन्त्येव निश्चयेन पद्मवाचिनः प्रकामं पर्यायशब्दाः कोशेषु विविधेषु। परन्तु पदेष्वेतेषु कतिचिद्विहाय शिष्टानि सर्वाण्यपि नूनं शब्दशास्त्रमात्रसिद्धानि, नार्थशास्त्रप्रतिपन्नानि। अत्रार्थशास्त्रं नाम न केवलं कौटल्यप्रज्ञाफलमिति, किञ्च तच्छास्त्रस्यापि मूलत्वेन महीयमानं समस्तं लोकवृत्तमिति तात्पर्यम्। यदाह स्वयमेव तत्रभवान् भगवान् विष्णुगुप्तः “मनुष्याणां वृत्तिरर्थः, मनुष्यवती भूमिरित्यर्थः” इति स्वागमभूमिकायामेव।

अतः खलु पूर्वमेवास्माभिरुपलक्षितं यद्युगेऽस्मिन् बौद्धार्थाच्छब्दार्थः, पदार्थाद्बौद्धार्थ एव प्रधानत्वेन स्वीकृतश्चानेन हेतुना हि “लोकानुकीर्तनं काव्यं/नाट्यं” इति विश्रुते भारतीये मते लोकं विहाय केवलमनुकीर्तनमेव गृहीतं येन वराकैरेभिरजानद्भिः स्वयं लोकश्चानुकीर्तनञ्च परित्यक्ते। हन्त! प्रत्युत, वञ्चितास्त एव लोकेन चानुकीर्तनेन यथा “हतो धर्मो हन्ति प्रजाः” इति न्यायः कथयति। अत्र लोको नाम काव्यनिर्माणसामग्रीरूपेण विद्यमानं विभावानुभावसर्वस्वस्फूर्तिस्थानम्। अनुकीर्तनं तु काव्यनिर्मितिकलाकौशलं यत्पुनः समधिगतविभावादीनां वक्रवाग्रूपेण व्यवस्थापनम्। अत एव त्यक्ते त्वेके सत्यपरमपि त्यक्तमित्यवधेयम्। इदं हि दिव्यं दर्शनं भगवत्युपनिषत् प्रागेवाह :

अन्धं तमः प्रविशन्ति ये अविद्यामुपासते।
ततो भूय इव ते तमो य उ विद्यायां रताः॥

विद्यां चाविद्यां च यस्तद्वेदोभयं सह।
अविद्यया मृत्युं तीर्त्वा विद्ययाऽमृतमश्नुते॥ (ईशावास्यम् ९, ११)

आर्षं हीदं विज्ञानं भास-कालिदास-शूद्रकादिभिरात्मसात्कृतं तु माघ-मुरारि- वादिराज-विद्यानाथादिभिः सहस्राधिकैरिति खेदास्पदमेव कटुसत्यम्। व्यास-वाल्मीकिमुख्यानामार्षकवीनां कालिदास-शूद्रकादीनामभिजातकवीनाञ्च दर्शनं न बहुभिरर्वाचीनैः कविबन्धुभिर्मनसि कृतमिति नीलकण्ठदीक्षित एवं  विषीदति :

सत्यर्थे सत्सु शब्देषु सति चाक्षरडम्बरे।
शोभते यं विना नोक्तिस्स पन्था इति घुष्यते॥

अन्धास्ते कवयो येषां पन्थाः क्षुण्णः परैर्भवेत्।
परेषु च यदाक्रान्तः पन्थास्ते कविकुञ्जराः॥ (गङ्गावतरणम् १-१०,१७)

कृते युगे व्यञ्जनयावतीर्णं त्रेतायुगे सैव गुणीबभूव।
आसीत्तृतीये तु युगेऽर्थचित्रं युगे तुरीये यमकप्रपञ्चः॥

मत्वा पदग्रन्थनमेव काव्यं मन्दास्स्वयं तावति चेष्टमानाः।
मज्जन्ति बाला इव पाणिपादप्रस्पन्दमात्रं प्लवनं विदन्तः॥ (शिवलीलार्णवः १-३८,४०)

इदमेव तत्पूर्ववर्तिना मङ्खेनापि विपिनरुदितमिव कथितम् :

तत्तत्समग्रबहुशास्त्रविमर्शसिद्ध-
वैदग्ध्यदिग्धमतयो बहवः कवन्ताम्।
यत्किञ्चिदस्ति तु महाकविवाग्रहस्यं
स्वप्नेऽपि तस्य किल ते न दिशं स्पृशन्ति॥

यातास्ते रससारसङ्ग्रहविधिं निष्पीड्य निष्पीड्य ये
वाक्तत्त्वेक्षुलतां पुरा कतिपये तत्त्वस्पृशश्चक्रिरे।
जायन्तेऽद्य यथायथं तु कवयस्ते तत्र संतन्वते
येऽनुप्रासकठोरचित्रयमकश्लेषादिशल्कोच्चयम्॥ (श्रीकण्ठचरितम् २-३५,४२)

महाविमर्शनाचार्य आनन्दवर्धनः परमसत्यमेकं बहोः कालात्पूर्वमेवाह :

“......अस्मिन्नतिविचित्रकविपरम्परावाहिनि संसारे कालिदासप्रभृतयो द्वित्राः पञ्चषा वा महाकवय इति गण्यन्ते।” (ध्वन्यालोकः १-६ वृत्तिः)

केवलं विद्यास्थानान्तरे विपन्नं किमपि व्वैकट्यं दृष्टान्त इव दद्मश्चेत् प्रसिद्धे सति षोडशपदार्थिसंज्ञिते गौतमदर्शने सप्तपदार्थीति व्यपदिष्टे कणादतन्त्रे च गच्छता कालेन नवीनन्यायरूपतो यत्संशोधनमाविष्कृतं तत्तु केवलं लक्षणपरिक्षामात्रव्यसनितया लक्ष्यलोकविस्तरणे वा भौतादीनां जगतां जगत्कर्मणां धर्माणां च वैचित्र्यविवरणे नितान्तमौदासीन्यमावहत् सुतरामनुभवाद्दूरदूरमेव जगाम। एषैव कथा (व्यथा चापीति वक्तुमलं) किल कतिचिद्विद्यानां, कतिपयशास्त्राणामपि चेति सङ्ख्यावन्तो विजानन्ति। एतावता हि वयं खण्डिकामिमां समाप्य पुरो गन्तु पारयेम।

यद्यपि विद्वदौषधायितं, ग्रन्थग्रन्थिगडुलं, सुधियामुत्सवं काव्यं सृजन्तः पण्डितकवयः काव्याभासैरेव बहुधा ह्यतर्पिषुः, तथापि तेषां मूर्तिमन्मेधसां, व्यक्तिमन्महसां, गोष्पदीकृतशास्त्राणां, चुलुकीकृतकलानाञ्च प्रौढरचनाः सर्वदा सर्वथा व्युत्पादिका इति नात्र संशीतिलेशः। तेषां किल निस्तुलानि पुस्तकानि यदि हस्तगतानि मस्तकसात्क्रियन्ते चेद्येन केनापि स निश्चयेन प्रस्तुतिं याति पण्डितमण्डलीषु कुण्डलीन्द्र इव मेधामेदिनीधरणायेत्यलमति विस्तरेण। पङ्क्तिद्वितयमात्रावकाशे कथमिव काशते वैदुषीति साक्षात्कर्तुं  विपश्चिदपश्चिमानेतानन्तरा त्रिषु लोकेषु न कश्चिदपि निश्चीयत इति तु त्रैकालिकं सत्यम्। छन्दोऽलङ्कृति-शब्द-कोश-सुषमासम्पन्नतात्र कृतार्थतां गता। अत एव कविबुभूषुभिः सश्रद्धं यथासाध्यं कतिपयापि विद्वत्कवयः समालोडनीया इति मन्महे वयम्।

V

वार्तमानिकसाहित्यसन्दर्भे कवयितॄणां पातित्यपराकाष्ठा त्वेवमाभाति मे। नेमी निरतिशयप्रतिभया नापि निस्सीमवैशारद्या कन्दलिता वाक्सुन्दराः। एवं सति प्रतिभा-पाण्डित्यपिण्डीभूतपिचण्डिलचण्डिमा तु मातु क्व? इत्थं शक्तिव्युत्पत्तिमितम्पचेषु सत्सु कथमिवाभ्यासः परिणमतु फलेग्रहितया? न वयं नव्यानुपालब्धुमिहागताः। यतो हि दिष्ट्यास्माकं सन्ति सम्प्रत्यपि वश्यवाचः कतिचन सरस्वतीसार्थवाहाः। तथापि कविबाहुल्यमालोक्य किल क्रियते किञ्चिन्निगमनम्। पाठं पाठमहं शठीकरचनाः खिन्नो विपन्नोऽस्मि च। यतो हि वर्तमानलेखनलोके दरीदृश्यत एवानुभवाभिव्यक्तिद्वितयस्यापि दारिद्र्यम्। तथापि गात्रे नास्ति भूयांल्लोप इति हृष्यामि प्रत्युत रुष्यामि वा? आस्तां, ननु नान्दीवादिनो वयं; हर्षमेव पुरस्कृत्य किञ्चिदग्रे सिसीर्षवः।  किन्तु वक्तव्यमेकमस्मिन्नस्ति सांप्रतिकसंस्कृतसाहितीगात्रगौरवे। पूर्वं प्रायेण कस्यापि काव्यरिरचिषोः प्रयत्नस्तु पठितृ-लिपिकृदादीनां निरन्तरं करावलम्बनेन विना न मनागपि साफल्यमञ्चति स्म। अन्यच्च प्राक् सफलकाव्यानां गड्डुरिकाप्रवाहन्यायेन सुतरामन्धमुग्धानुकरणं वा, दैवानुग्रह-राजानुग्रहलिप्सया काव्याभासानां निर्माणं वा स्वोपज्ञताविनाशाय, स्वतन्त्रतानिरासाय च लोके भवति स्म। अद्यतनकाले तु मुद्रापणविधानानां अन्तर्जालव्यवस्थानाञ्च वाल्लभ्यमभ्यस्यता तेनैव लेखकेन लोकानुकम्पया विनापि तादृश्या स्वीयानि काव्यानि क्षिप्रं सहृदयसरसाक्षिसमक्षमुपनेतुमस्ति सौलभ्यम्। हेतुवादयुगेऽस्मिन्, प्रजातन्त्रप्रगेऽस्मिन् दैवत-प्रभुत्वप्रीणनमपि स्वातन्त्र्य-स्वोपज्ञतादीनां प्रतिकोटित्वेन प्रकटयति चेद्धन्त! हता रसिकता। स्वेष्टसिद्धिमनुरुद्ध्यैव सिद्ध्यन्तराणां स्थितिर्वा गतिरिति रससिद्धानां सर्वोत्तमः खलु समयः! एवं स्थितेऽपि सन्दर्भेऽस्मिन्न कस्मादिव दृढदीक्षया लक्षीक्रियते सत्काव्यसिसृक्षा? प्रायेण सर्वलभ्यसौलभ्यमेव सर्वाङ्गसुन्दरीं कृतिनिर्मितिमद्य प्रतिरुणद्धि किम्?

प्रायशः प्रेक्षा ममेवं प्रतिबोधयत्यत्र : देश-कालनिरपेक्षं, मत-जातिनिरपेक्षं मानवस्वभावः कदाचन राग-द्वेषवशीकृतो, भय-शोक-मोहमयो नितरां भवत्यर्थकामकृपण एव। नात्र सन्त्यपवादभूताः कवि-कलावित्-कोविदा अपि। एतेषु यः कोऽपि सारदृश्वा पारदृश्वा च प्रत्यक्प्रवणः समर्हति महाकवित्वम्। ईदृशमेव तत्रभवान् भट्टतौतो व्यपदिशति ऋषित्वेन। भगवद्गीताप्यत एव

“मनुष्याणां सहस्रेषु कश्चिद्यतति सिद्धये। यततामपि सिद्धानां कश्चिन्मां वेत्त्यसंशयः।” (७-३) इति व्याचचक्षे। बहवः कविनामधारिणः स्वस्वकाव्यानां निर्माणकालेऽपि सरसताटस्थ्यं नानुभवन्ति। केचन एव कवयः स्वकृतीनां रचनावधौ निर्भरं सरसताटस्थ्यमनुभवन्तो भवन्ति ब्रह्मास्वादसहोदरस्य समाविष्काराय समस्तसहृदयानां मनस्सु। अत्राप्यत्यन्तं विरलतमा एव न केवलं निजकाव्यकर्मसमये, तदतिरिक्तेषु सर्वेषु कालेषु सर्वास्ववस्थासु च तस्मिन्नेव निर्विशिष्ट-निर्विकल्प-निस्सामान्य-रसताटस्थ्ये ह्युन्मज्जन्ति निमज्जन्ति च। तदियं जीवन्मुक्तावस्थैव। ते तु कवयो ब्रह्मभूता एव। एते न केवलं काव्यं कुर्वन्ति, प्रत्युत काव्यमेव भवन्ति। अत्र तु न मनागपि कविजीवन-काव्यजीवनयोर्भेदः प्रतिभाति। वयमिदानीं न कविनामकान्न वा ब्रह्मभूतानेव (वेदादिषूक्तप्रकारान्) कवीन् विचिन्तयामः। प्रथमेऽस्मिन्वर्गे तु मनोऽस्माकं सर्वथा जिह्रेति वक्तुं किमपि। द्वितीयेऽस्मिन्वर्गे तावत्सत्यामपि विवक्षायां मन एव विलीयते। अतो हि वयं साम्प्रते मध्यमे वर्ग एव बद्धादरास्स्मः। तत्तावदस्मदुद्देशाय सुतरामलमिति धन्या वयम्।

राष्ट्रेऽस्मिन् पाश्चात्यानां (विशिष्याङ्लेयानां) प्रभावत एव भारतीयसमाजे साहित्ये च समजन्याधुनिकी काचिद्भावनेति सम्प्रति गृहीतं सत्यम्। नात्र विद्यते कश्चन विवादोऽप्यस्माकम्। केवलमस्याः खलु प्रतिनवभावनाया गुण-दोषविवेचनावसरे मतिरस्माकं भिद्यत इति स्यात्। परन्तु राष्ट्राद्यन्तं, सर्वासु च भाषासु प्रचलितेऽस्मिन्नवोन्मेषे; वार्तमानिके संस्कृतसाहितीजगति कदा कथं केन वाऽयमाधुनिकपरिस्पन्दः प्रादुरभूदिति सूच्यग्रस्थापनपूर्वकं निर्देष्टुं नास्माभिः पार्यते। प्रायेण सर्वासु भाषासु युगपदेव नवपरिस्पन्दोऽसौ समुदधितष्ठाविति सङ्ख्यावतां समीकरणम्। परमत्र स्पष्टमेव बुद्ध्यते यद्देशभाषासु नवलहरीयं क्षिप्रमेव कवलीचकार सर्वानपि कवि-पण्डितांस्ततः पुङ्खानुपुङ्खं वैविद्ध्यपूर्णं गुण-गात्रगण्यं वाङ्मयञ्च सर्जयाञ्चकारेति।

संस्कृते तु प्रगतिक्रम एष न तावान्विलोक्यत इत्यपि सत्यमेव। कारणानि बहून्यस्य विद्यन्त एव। तानि मुख्यतया बाह्यानि चाभ्यन्तराणीति द्वेधा विभक्तुमलम्। बाह्येषु प्रायशः संस्कृतविषये लोकानां लोकपालानाञ्च नितरां पोषणकार्पण्यमेव प्राधान्यं वहतीत्यनेन संक्षेपः। आभ्यन्तरेषु संस्कृतज्ञानां कवि-पण्डितानामेव प्रमादालस्यप्रज्ञाराहित्यानीति सङ्ग्रहेण वक्तुमलम्। समग्रे देशे वर्तमानस्य नूतनसन्दर्भस्य परमार्थग्रहणे भ्रमः, स्वसाध्यकर्मणां प्रत्यभिज्ञाने विलम्बः, स्वोपज्ञतायां प्रभूतात्मग्लानिरिति त्रेधा परिणामानपि निरूपयितुं शक्नुमः। सर्वमिदमानन्दवर्धनेन पूर्वमेव सूत्ररूपेणाभिहितम्। यथा

प्रतायन्तां वाचो निमितविविधार्थामृतरसा
न सादः कर्तव्यः कविभिरनवद्ये स्वविषये।
परस्वादानेच्छाविरतमनसो वस्तु सुकवेः
सरस्वत्येवैषा घटयति यथेष्ठं भगवती॥ (ध्वन्यालोकः ४-१७)

सत्यमेवास्मत्संस्कृतकवि-पण्डिताः केचन कालेऽस्मिन् पाश्चात्यप्रभावभीकाः सम्प्रदायमूकाः, पर्युषितवाकाश्च यथायथं प्राचीनपावनपद्धतिरिति पूर्वोक्तं विद्वत्कविरचनाभासानेव निभालयन्तः स्वात्मानं धन्यममन्यन्त। नूनमेते रूपाभासैकनिष्ठाः। अन्ये तु केचिदस्मदार्षाभिजातपरम्परासत्त्वं प्रत्यभिज्ञातुं खल्वक्षमाः पाश्चात्यसाहित्यस्य गुणावगुणगवेषणे सतृणाभ्यवहारिणः केवलं व्युत्पत्तिच्युतिरेव प्रतिभेति, नैरङ्कुश्यमेव नावीन्यमिति, वार्तैव वक्रोक्तिरिति दौर्बोद्ध्यमेव ध्वनिरिति, स्वाभिनिवेश एवौचित्यमिति, वैरस्यमेव स्वारस्यमिति च श्रेयोधर्मदूरान् प्रेयोमयलाभानेव बहुमन्यमानाः, स्वाग्रहैरेव प्रतारिताः, अन्यानपि प्रतारयन्तः काव्याभासकन्थानविश्रान्तं रचयन्तः सन्ति। एवंधर्माणोऽपि रूपाभासमात्रनिष्ठाः शठा इत्यपि वक्तुमलम्। उभयत्र समानतन्त्रत्वेन प्राच्याभासश्रद्धाजाड्यं प्रतीच्याभासश्रद्धाजाड्यं चैव भूयो दृश्यते। देशभाषास्वपि गतिर्नातीव भिन्ना। तथापि तत्र महाप्रतिभावतां बाहुल्यहेतुना स्वागतार्हं साहित्यमनुत्तमं समुदियाय। संस्कृते तु सङ्ख्यैषा  न्यूनतरेति तावन्मात्रेण भिद्ध्यते। दुःखावहमिदं यत्संस्कृते देशभाषास्वपि च न कदाचिद्गम्भीरया दृशा पाश्चात्यसाहितीलोकस्य प्रभावात् के के गुणाः के वा च दोषा अस्मत्साहित्यजगति समभवन्; प्रतीच्यां केन केन कारणेन वा कारणाभासेन विविधान्यान्दोलनानि समाज-साहित्यसम्बन्धीनि प्राचलन्, अस्मिन् विषये सर्वतोमुखवैज्ञानिकचिन्तनेन निराग्रहमनसा च पश्यामश्चेत् तत्रत्या परिस्थितिः किमत्रत्यया च परिस्थित्या सह भिद्ध्यत उत सिद्ध्यते, अस्मद्भाषाणां सर्वासां भाषिकी रचना या शाब्दिकी चार्थिकी च  कथमिव पाश्चात्यभाषाभिस्सह सहमतं विमतं वा च भजति, अस्मद्देशभाषाणां परस्परञ्च संस्कृतेन सह सम्बन्धः किं पाश्चात्यवाचां तादृशसम्बन्धैः परिशील्य तुलयितुमलं, अस्मत्काव्यालङ्कारक्रमः शाब्दिकश्चार्थिको वा कथं पाश्चात्यसाहित्यानामुक्तिवैचित्र्येण सह स्निग्धेन वा परुषेण विधिना लगति, उभयत्र च्छन्दोविलसितानि कथमिव सुललितं वा विसंष्ठुलं गमकं भजन्ते, वाचोयुक्तीनां वचोविच्छित्तीनां वा केन किल क्रमेण सन्तुलनमलं,  उभयसाहित्यपरम्पराणां कविसमय-गुण-रीति-वृत्तयः सौन्दर्यस्पन्दाः कथं कथमिव सादृश्यं वैसदृश्यञ्च समुदञ्चन्ति, अस्मत्साहित्यस्य विदिधप्रकाराः  (मुक्तक-पञ्चक-षट्कादीनि, खण्डकाव्य-महाकाव्य-चम्पू-कथाख्यायिका- रूपकोपरूपकादीनि च) कथमिव पाश्चात्यानां प्रकारैस्सह (एपिक्-लिरिक्- प्ले-ड्रामा-ट्याजिडि-कामिडि-षार्ट् स्टोरि-नावेल्-एस्से-ट्रावेलाग्-बयाग्रफि) पतनोच्छ्रयं यान्ति चेत्यादयः परश्शतं विचारार्हाः प्रश्नाः सर्वतोमुखप्रज्ञया च विवेचिताः। सत्यमेव तत्र तत्र क्वचित्क्वचित् पूर्वसूरिभिश्चिन्तितप्रायापि सरणिरेषा न खल्वपेक्षितसामग्र्येण, निरीक्षितसाकल्येन विधिना व्यतानि।

हन्त! प्रत्नतानाममात्रेण केचन, नूत्नतानाममात्रेण च केचन व्यामोहिताः प्राचीन-नावीन्ययोरान्तर्यमेव मनसाप्युपैक्षिषत। परमार्थतः कविर्वस्तूनां व्यक्तीनां तत्सन्दर्भाणाञ्च तथ्यमात्रस्तरीयया प्रत्नता-नूत्नतापेक्षया  तत्तदनुभववशाद् या त्वनुभूतिर्जायते तत्स्पन्देन कन्दलितः कयापि दिव्यया दृशा निरीक्षते। अनयैव तत्त्वतः प्रतिनवाभिरामकाव्यसृष्टिबीजावापो भवति। सत्यमेवास्मिन् बीजावापे वास्तवलोकस्यापि प्राचीन-नावीन्यरीतयः कामपि विच्छित्तिं यच्छन्ति क्वचित्। किञ्च दर्शनमान्तरमेव प्रधानं, न तु बाह्यम्। यतो हि कवेः कर्म विभावानुभावसामग्रीसन्तुलने, न तु कार्यकारणव्यवहारे।

अत एवानन्दवर्धन-कुन्तकाद्या एवमभिप्रयन्ति :

दृष्टपूर्वा अपि ह्यर्थाः काव्ये रसपरिग्रहात्।
सर्वे नवा इवाभान्ति मधुमास इव द्रुमाः॥ (ध्वन्यालोकः ४-४)
निरन्तररसोद्गारगर्भसन्दर्भनिर्भराः।
गिरः कवीनां स्थास्यन्ति न कथामात्रमाश्रिताः॥ (वक्रोक्तिजीवितम् पृ.२५२)

परमिदमवधेयं यद्यदा रसपरिणीतविलोकनेन वीक्षते कविस्तदा व्युत्पन्नस्य तस्य वाचि वर्णनावसरे सुतरामभिनवा स्वरूपतात्पर्यपर्यवसितरूपा कापि वक्रोक्तिविच्छित्तिर्निस्सरति निर्विरामम्। तदिदमन्वय-व्यतिरेकाभ्यामपि सम्यगुपलक्षितुमलम्। निसर्गे च सत्यमिदमेव जीविनां विकासक्रमेण वयं वेत्तुं पारयाम। यथा प्राणि-पक्षिणां, तरु-लतानाञ्च देश-कालपरिच्छेदानुसारं धर्म-कर्मव्यवस्थानुसारं केनाप्यान्तरेण बलेन देहरचनायां, जीवयात्रायाञ्च नूनमूहातीतव्यत्ययाः सम्भवन्ति। एते किल प्रत्ययाश्च भवन्ति तेषां स्थैर्याय धैर्याय च।

अन्यदिदमपि परं दुःखं यदद्यतनाः कतिचन संस्कृतकवयः साक्षादपि न समधीत्य पाश्चात्यसाहित्यजगतीं, तद्गन्धलवगन्धिलान् देशभाषाकवीन् कविब्रुवान् वा कांश्चन जन्मान्धपङ्गव इव समनुकुर्वन्तो निराकुर्वन्ति स्वात्मानमेवेति। नैतत्कदाचन समुचितमिति कलयन्ति कल्याणकाव्यभाजः।

[This formed the content of the author's Presidential Address in the symposium on 'Modern Sanskrit Writing' held at Shringeri.]

Continued in the next part. 

Author(s)

About:

Dr. Ganesh is a 'shatavadhani' and one of India’s foremost Sanskrit poets and scholars. He writes and lectures extensively on various subjects pertaining to India and Indian cultural heritage. He is a master of the ancient art of avadhana and is credited with reviving the art in Kannada. He is a recipient of the Badarayana-Vyasa Puraskar from the President of India for his contribution to the Sanskrit language.

Prekshaa Publications

Prekṣaṇīyam is an anthology of essays on Indian classical dance and theatre authored by multifaceted scholar and creative genius, Śatāvadhāni Dr. R Ganesh. As a master of śāstra, a performing artiste (of the ancient art of Avadhānam), and a cultured rasika, he brings a unique, holistic perspective...

Yaugandharam

इदं किञ्चिद्यामलं काव्यं द्वयोः खण्डकाव्ययोः सङ्कलनरूपम्। रामानुरागानलं हि सीतापरित्यागाल्लक्ष्मणवियोगाच्च श्रीरामेणानुभूतं हृदयसङ्क्षोभं वर्णयति । वात्सल्यगोपालकं तु कदाचिद्भानूपरागसमये घटितं यशोदाश्रीकृष्णयोर्मेलनं वर्णयति । इदम्प्रथमतया संस्कृतसाहित्ये सम्पूर्णं काव्यं...

Vanitakavitotsavah

इदं खण्डकाव्यमान्तं मालिनीछन्दसोपनिबद्धं विलसति। मेनकाविश्वामित्रयोः समागमः, तत्फलतया शकुन्तलाया जननम्, मातापितृभ्यां त्यक्तस्य शिशोः कण्वमहर्षिणा परिपालनं चेति काव्यस्यास्येतिवृत्तसङ्क्षेपः।

Vaiphalyaphalam

इदं खण्डकाव्यमान्तं मालिनीछन्दसोपनिबद्धं विलसति। मेनकाविश्वामित्रयोः समागमः, तत्फलतया शकुन्तलाया जननम्, मातापितृभ्यां त्यक्तस्य शिशोः कण्वमहर्षिणा परिपालनं चेति काव्यस्यास्येतिवृत्तसङ्क्षेपः।

Nipunapraghunakam

इयं रचना दशसु रूपकेष्वन्यतमस्य भाणस्य निदर्शनतामुपैति। एकाङ्करूपकेऽस्मिन् शेखरकनामा चित्रोद्यमलेखकः केनापि हेतुना वियोगम् अनुभवतोश्चित्रलेखामिलिन्दकयोः समागमं सिसाधयिषुः कथामाकाशभाषणरूपेण निर्वहति।

Bharavatarastavah

अस्मिन् स्तोत्रकाव्ये भगवन्तं शिवं कविरभिष्टौति। वसन्ततिलकयोपनिबद्धस्य काव्यस्यास्य कविकृतम् उल्लाघनाभिधं व्याख्यानं च वर्तते।

Karnataka’s celebrated polymath, D V Gundappa brings together in the third volume, some character sketches of great literary savants responsible for Kannada renaissance during the first half of the twentieth century. These remarkable...

Karnataka’s celebrated polymath, D V Gundappa brings together in the second volume, episodes from the lives of remarkable exponents of classical music and dance, traditional storytellers, thespians, and connoisseurs; as well as his...

Karnataka’s celebrated polymath, D V Gundappa brings together in the first volume, episodes from the lives of great writers, poets, literary aficionados, exemplars of public life, literary scholars, noble-hearted common folk, advocates...

Evolution of Mahabharata and Other Writings on the Epic is the English translation of S R Ramaswamy's 1972 Kannada classic 'Mahabharatada Belavanige' along with seven of his essays on the great epic. It tells the riveting...

Shiva-Rama-Krishna is an English adaptation of Śatāvadhāni Dr. R Ganesh's popular lecture series on the three great...

Bharatilochana

ಮಹಾಮಾಹೇಶ್ವರ ಅಭಿನವಗುಪ್ತ ಜಗತ್ತಿನ ವಿದ್ಯಾವಲಯದಲ್ಲಿ ಮರೆಯಲಾಗದ ಹೆಸರು. ಮುಖ್ಯವಾಗಿ ಶೈವದರ್ಶನ ಮತ್ತು ಸೌಂದರ್ಯಮೀಮಾಂಸೆಗಳ ಪರಮಾಚಾರ್ಯನಾಗಿ  ಸಾವಿರ ವರ್ಷಗಳಿಂದ ಇವನು ಜ್ಞಾನಪ್ರಪಂಚವನ್ನು ಪ್ರಭಾವಿಸುತ್ತಲೇ ಇದ್ದಾನೆ. ಭರತಮುನಿಯ ನಾಟ್ಯಶಾಸ್ತ್ರವನ್ನು ಅರ್ಥಮಾಡಿಕೊಳ್ಳಲು ಇವನೊಬ್ಬನೇ ನಮಗಿರುವ ಆಲಂಬನ. ಇದೇ ರೀತಿ ರಸಧ್ವನಿಸಿದ್ಧಾಂತವನ್ನು...

Vagarthavismayasvadah

“वागर्थविस्मयास्वादः” प्रमुखतया साहित्यशास्त्रतत्त्वानि विमृशति । अत्र सौन्दर्यर्यशास्त्रीयमूलतत्त्वानि यथा रस-ध्वनि-वक्रता-औचित्यादीनि सुनिपुणं परामृष्टानि प्रतिनवे चिकित्सकप्रज्ञाप्रकाशे। तदन्तर एव संस्कृतवाङ्मयस्य सामर्थ्यसमाविष्कारोऽपि विहितः। क्वचिदिव च्छन्दोमीमांसा च...

The Best of Hiriyanna

The Best of Hiriyanna is a collection of forty-eight essays by Prof. M. Hiriyanna that sheds new light on Sanskrit Literature, Indian...

Stories Behind Verses

Stories Behind Verses is a remarkable collection of over a hundred anecdotes, each of which captures a story behind the composition of a Sanskrit verse. Collected over several years from...