रघुवंशसमीक्षा

रसिकशेखरो हि राजशेखरः काव्यमीमांसायाम् एवमुवाद—

एकस्य तिष्ठति कवेर्गृह एव काव्य-

मन्यस्य गच्छति सुहृद्भवनानि यावत्।

न्यस्याविदग्धवदनेषु पदानि शश्वत्

कस्यापि सञ्चरति विश्वकुतूहलीव॥ (चतुर्थेऽध्याये)

ऋते कालिदासात्तदिदं पद्यं स्तोकमिव च्युतार्थकतां यायात्। यतः किलेदं कालिदासं तथा वर्णयति यथा नान्यं कमपि। अजपालस्तु बालपक्वः कश्चन मितम्पचमतिः कालीदेव्यनुग्रहेण महाकविरभूदिति खलु जनश्रुतिः। अविदग्धा एव जनाः कथयानया कालिदासमात्मसात्कर्तुमीषुः। कवयस्तर्हि किमकार्षुः। उच्यते सायणार्येण—

पदवीं कालिदासस्य ललितां मृदुलैः पदैः।

न शक्नुवन्त्यहो गन्तुं पश्यन्तोऽपि कवीश्वराः॥ (सुभाषितसुधानिधौ)

एतावानस्य महिमा कविकुलतिलकस्य। तदास्ताम्। सम्प्रति रघुवंशमहाकाव्यं यथाप्रज्ञं विमृश्यते॥

रघुवंशस्य वैशिष्ट्यम्

श्रूयते हि किञ्चन प्राचीनं वचनम् “क इह रघुकारे न रमते” इति। इदं सदुक्तिकर्णामृतनामनि सुभाषितसङ्ग्रहे पठ्यते। सति मेघदूते, सति कुमारसम्भवे, सत्यभिज्ञानशाकुन्तले किमिति रघुवंशनामग्राहं गृहीतः कालिदास इति प्रश्नः समुदियात्। अत्रेदं समाधानम् उत्पश्यामो यद्रघुवंशं कालिदासस्य परिणतप्रज्ञायाः फलम्। तेन च काव्येन कविकुलगुरुः प्रसिद्धेः परां कोटिमाटीकत। रघुवंशस्य बहुविधं वैशिष्ट्यं विलसति। इदमेव कालिदासवाङ्मये बंहिष्ठं काव्यम्; अस्मिन्नेव प्रकृतिसुभगाः सूक्ष्मपरिशीलनशीलिता उपमालङ्काराः सन्ति सङ्ख्यातिगाः, यैरेव प्रायेण “उपमा कालिदासस्य” इति वचनं सहेतुकमाविरभूत्; इदमेव कविकुलगुरोः सर्वतोमुखं पाण्डित्यं परिचाययति; अस्मिन्नेव श्रुतिपेशलानि नूतनानि च्छन्दांसि रथोद्धता-द्रुतविलम्बितप्रमुखानि प्राथम्येन प्रयुक्तानि; अस्मिन्नेव पद्यं तद्वर्तते येन कविरयं “दीपशिखा कालिदासः” इति प्रशस्तिं भेजे; इदमेव च समग्रां भारतीयां संस्कृतिं प्रतिनिधत्ते चेत्यलमतिविस्तरेण॥

गुप्तराजैः पालिते स्वर्णयुगे भारतं राष्ट्रं सर्वाङ्गीणया सम्पदा शुशुभ इति पुरातत्त्वविदो वदन्ति। तस्मिन्नेव युगे लब्धजन्मा कालिदासस्तत्रत्यां सर्वामपि विच्छित्तिं निजकाव्येषु निचिक्षेप। तस्माद्यदि वयं कालिदासनिर्मिताः कृतीः सश्रद्धमधीयीमहि, त्रिविक्रमोन्नतः कलशोदधिगम्भीरश्च महिमा भारतवर्षस्य निर्विचिकित्समेव नः सम्भवेदपरोक्षः॥

रघुवंशं किञ्चन महाकाव्यमित्यवोचाम। महाकाव्ये तावत् सामान्यत एक एव नायको भवतीत्यालङ्कारिकाः। किन्तु रघुवंशमिति नाम्नैव स्फारीभवति यदस्मिन्ननेकेषां नायकानां कथाः कथिता इति। कथमत्र समन्वय इति पृच्छायां वदति विश्वनाथः साहित्यदर्पणे महाकाव्यलक्षणं व्याचक्षाणः—

सर्गबन्धो महाकाव्यं तत्रैको नायकः सुरः॥

सद्वंशः क्षत्त्रियो वापि धीरोदात्तगुणान्वितः।

एकवंशभवा भूपाः कुलजा बहवोऽपि वा॥ (६.३१५,३१६)

तस्माद्रघुवंशव्यतिरिक्तं महाकाव्यलक्षणं नूनमसमर्पकं मन्वानाः काव्यलक्षणविधातारस्तत् पर्यस्कार्षुरित्यवसीयते। उदारः कल्पः॥  

रघुवंशमहाकाव्ये तावदेकोनविंशतिसङ्ख्याकाः सर्गाः सन्ति। दिलीपमारभ्य अग्निवर्णपर्यन्तमनेकेषां राज्ञां वृत्तान्ता इह वर्णिताः। अत्रत्या कथा तु प्रधानतः कालिदासेन श्रीमद्रामायणादुदधारि। अत्र दशमसर्गम् आरभ्य पञ्चदशं सर्गं यावद्भगवतः श्रीरामस्य चरितं चित्रितम्। दशमसर्गात् पूर्ववर्तिषु सर्गेषु रामपूर्वजानां कथा उपवर्णिताः। पञ्चादशादुत्तरेषु च सर्गेषु रामावरजानां वृत्तान्ताः कथिताः॥

काव्यारम्भ एव प्रतिपिपादयिषितस्य वस्तुनः प्रगल्भतां तद्वर्णने च निजामनधिकारितां तथा पूर्वसूरिविषयां स्वाधमर्णतां वक्ति विनयधनः कविः। तद्यथा—

क्व सूर्यप्रभवो वंशः क्व चाल्पविषया मतिः।

तितीर्षुर्दुस्तरं मोहादुडुपेनास्मि सागरम्॥

मन्दः कवियशःप्रार्थी गमिष्याम्युपहास्यताम्।

प्रांशुलभ्ये फले लोभादुद्बाहुरिव वामनः॥

अथ वा कृतवाग्द्वारे वंशेऽस्मिन् पूर्वसूरिभिः।

मणौ वज्रसमुत्कीर्णे सूत्रस्येवास्ति मे गतिः॥ (१.२–४) 

एतावता ह्यात्मानमवसादयति कालिदास इति न खलु चिन्तनीयम्। यतः स काव्यमर्मज्ञैः सहृदयैः स्वकृतिविमर्शः क्रियतामिति विना भीरुतामभ्यर्थयते। रघुवंशमिदं काव्यं तेन जातरूपसरूपमुच्यते। यथा—

तं सन्तः श्रोतुमर्हन्ति सदसद्व्यक्तिहेतवः।

हेम्नः संलक्ष्यते ह्यग्नौ विशुद्धिः श्यामिकापि वा॥ (१.१०) 

काव्योपनिषदमौचितीं ध्यायन् कालिदासः सुतरां भगवता वल्मीकभुवा यत्र हस्तक्षेपो न कृतस्तत्रैव स्वप्रतिभां प्रसारयामास। तस्य कथनक्रमे कश्चन वागर्थविस्मयः शुम्भति। समासव्यासयोरुभयोरपि मर्म जानता कविकुलगुरुणा दिलीप-रघु-अज-प्रमुखानां महीपानां कथासु व्यासत्वं, तथा वंशानुक्रमसञ्ज्ञितेऽष्टादशे सर्गे समासत्वमुपाश्रितम्। इत्थमेव या कथा श्रीमद्रामायणे पञ्चसु काण्डेषु वर्णिता सा रघुवंशस्य द्वादशे सर्ग एकस्मिन्नेव सङ्क्षिप्ता, यश्च पुष्पकविमानयानप्रसङ्गो नातिदीर्घः प्राचेतसेन समुपस्थापितः स एव कालिदासेन त्रयोदशे सर्गे सविस्तरं व्यावर्णितः॥

महाकाव्यं नाम तत्तादृशमेव यदनेकवर्णनाभिः समुपेतमिति काव्यशास्त्रसमयः। तमेनं समयं चक्षुषी निमील्य नितरामनुधावद्भिः कवभिः स्वकृतिषु वर्णनापरम्पराः सरीसृज्यन्ते। परमत्र साहित्यप्रणेतृभिरौचित्यलग्नमानसैस्तथा रसैकलक्ष्यैः सर्वथा भवितव्यमिति युक्ताभिधायी तत्र भवानानन्दवर्धनः प्राह—

सन्धिसन्ध्यङ्गघटनं रसाभिव्यक्त्यपेक्षया।

न तु केवलया शास्त्रस्थितिसम्पादनेच्छया॥ (ध्वन्यालोकः, ३.१२)

रघुवंशे तावन्नैकापि वर्णना पात्रस्य वा घटनायाः समुचितविभावत्वेन जातुचिदपि न पर्यवस्यतीति सम्प्रतिपद्यामहे वयम्। उक्तं चेदं कुन्तकेन वक्रोक्तिजीवितस्य चतुर्थोन्मेषे रघुवंशगतं दशरथमृगयाप्रकरणं तथा कुशजलक्रीडाप्रकरणं विमृशता। तद्यथा—

स्वल्पोऽपि वाच्यविशेषः सविशेषविस्फारितः समुद्घाटितरसकवाटद्वारसरसोक्तिविसरविकासिन्या प्रकरणविच्छित्त्या वितन्यमानः कमपि वक्रिमाणमासादयति। यथा रघुवंशे मृगयाप्रकरणे। अत्र हि तरङ्गिणीतीरलेखास्वाखेटवाटोद्यतेन प्रमाद्यता दशरथेन राज्ञा स्थविरान्धतपस्विबालवधो व्यधीयतेति एकवाक्यशक्यप्रतिपादनोऽप्ययमर्थः पुनः परमार्थसरससरस्वतीसर्वस्यायमानप्रतिभाविधानकुशलेन कविना तादृश्या प्रकरणविच्छित्त्या विस्फारितश्चेतनचमत्कारकारणतामधितिष्ठति॥ (४.७–८)

प्रबन्धेषु जलकेलिकुसुमापचयप्रभृति प्रकरणं प्रक्रान्तसंविधानकानुबन्धि निबध्यमानं निधानमिव कमनीयसम्पदः सम्पद्यते। यथा रघुवंशे ... जलक्रीडास्पर्शानन्तरलक्षितत्वादखिलमदविकलललना-विलासमूलाध्यास्यमानोत्सवाकुलस्य कुमुदकन्याकन्दुकक्रीडालक्षणमुत्सवान्तरमुत्तरकथोपकार्युपपद्यते तद्विदामाह्लादमावहति च॥ (४.९)

इतिवृत्तनावीन्यं प्रबन्धध्वनिश्च

पुरुषार्थचतुष्टयप्रतिपादकं महाकाव्यं हि रघुवंशम्। अत्र किञ्चिदनितरसाधारणम् इतिवृत्तनावीन्यं दृश्यते। दिलीपवृत्तान्ते, कौत्सप्रसङ्गे, इन्दुमतीस्वयंवरवृत्तान्ते, अयोध्यानगराधिदेवीविलापे, अतिथिराजनीतिप्रसङ्गे, अग्निवर्णलाम्पट्यवृत्तान्ते च नावीन्यमन्यादृशं राजति। अङ्गुलिमेया एव संस्कृतकवयः सन्ति स्वोपज्ञतया परमयेदृश्या संवलिताः। अतः स्थाने खलु कालिदासस्य प्रथिता प्रशस्तिः। एवमेव रघुवंशे किञ्चिद्विलक्षणं नाट्यायमानत्वं परिलक्ष्यते यदन्येषु महाकाव्येषु दुष्प्रापम्। तथा च कालिदासेन सृष्टानि पात्राणि सर्वाणि प्रातिस्विकवैशिष्ट्येन सहृदयानां मनस्सु चिररात्रमवतिष्ठन्ते। दिलीपस्य त्यागशीलता सत्त्वसमृद्धिश्च, रघोः प्रकृतिमहितं शौर्यं वदान्यत्वं च, अजस्य निर्व्याजं प्रेम, दशरथस्य पुनरसमीक्ष्यकारिता पुत्रप्रीतिश्च, रामस्य निसर्गवत्सलता विष्वगुदात्तता च, कुशस्य चारित्र्यशुद्धिः, अतिथेः सुव्यक्तं राजनीतिनैपुण्यम्, अग्निवर्णस्य निर्निबन्धं लाम्पट्यं चेत्येतदखिलं वज्रलेपायते भावुकमनोभित्तिषु। इमानि च पात्राणि यथास्वं गुणकर्मसम्पदा यान् प्रसङ्गान्नितरां सजीवानिव कुर्वन्ति, तान्निखिलानपि प्रत्यग्राः प्रकरणवक्रताः प्रसाधयन्ति। इमाश्च प्रकरणवक्रताः काव्यस्य प्रबन्धध्वनिं परिपुष्णन्तीति हेम्नः परमामोदः॥

ननु क एष प्रबन्धध्वनी रघुवंशस्य। उच्यते। यस्मिन्नन्ववाये पवित्रोर्जस्वलचरिताः पार्थिवा दिलीपरघुरामप्रभृतयो जनिं लेभिरे तस्मिन्नेव पुनरग्निवर्णमुखाः कुनृपा अपि शक्यसम्भवाः। एवं दुर्निवारं विधिविलसितम्। नीचैर्गच्छत्युपरि च दशा चक्रनेमिक्रमेण। कालः पचति भूतानि। तस्मात् सर्वमिदं विचार्य सुचिरं शान्त्यै मनो दीयताम्। इयं शान्तिः सुखविमुखा न, प्रत्युत धर्माविरुद्धकामसमुल्लासिता। तदिदं जीवनदर्शनं दिलीपनृपसम्बद्धेन श्लोकद्वयेन सञ्जग्राह कालिदासः। तद्यथा—

जुगोपात्मानमत्रस्तो भेजे धर्ममनातुरः।

अगृध्नुराददे सोर्थमसक्तः सुखमन्वभूत्॥

ज्ञाने मौनं क्षमा शक्तौ त्यागे श्लाघाविपर्ययः।

गुणा गुणानुबन्धित्वात्तस्य सप्रसवा इव॥ (१.२१,२२)

एवञ्च कालिदासः काव्यादावेव रघुवंशनायकानां गुणलक्षणचर्यादिकं विशदं निरूप्य (१.५–८) काव्यान्तं यावत्तद्यथावत् संविधत्ते। अयं प्रतिज्ञानिर्वाह इत्युच्यते। तथैव कमपि दीर्घं वंशं वर्णयितुकामेन कविना तद्भव एकैकोऽपि राजा न सामस्त्येन विशदयितुं शक्यः। अत एव रघुकारः पार्थिवजीवनगतानि कानिचिदेव चेतश्चमत्कारकाणि प्रकरणानि सञ्चित्य समुच्चित्य च प्रस्तौतीत्यहो प्रतिभाप्राभवं कविकुलगुरोः।

सम्प्रति रघुवंशस्य कानिचन ध्वनिकान्तिसमिद्धानि प्रकरणानि मीमांसामहे॥

दिलीपप्रकरणम्

आत्मजन्मसमुत्सुको दिलीपः सपत्नीकः सन् गुरोराश्रमपदं जगाम। भगवान् वसिष्ठः सन्तानावष्टम्भकं कारणं कथयामास—शक्रमुपस्थाय पृथिवीं प्रति यास्यता दिलीपेन सुदक्षिणाम् ऋतुस्नातां स्मरता मध्येमार्गं दिव्यधेनुः सुरभिर्न प्रदक्षिणीकृत्य वन्दिता। अवज्ञयानया च कुपिता सुरभिस्तं शशापेति। प्रजननक्रियानिमित्तेन यः पूज्यपूजाव्यतिक्रमः कृतः स एव सन्तानविरोधी पर्यणंसीत्। दिलीपस्य तावदाशयः समुदार एव। अतः स न वाच्यः। परमुदाराशयचोदितकर्मनिरतैरपि न कदाचिदस्माभिः पूज्यपूजाव्यतिक्रमः कार्यः। तथा विहिते सति कर्मविपाकफलमवश्यं भवत्यनुभोक्तव्यम्। एवञ्च वियद्गङ्गामज्जनपरायणे नदति दिग्गजे न सुरभिशापवाक्यानि दिलीपेन तत्सारथिना वा श्रुतानि। यद्यश्रोष्यत्तर्हि दिलीपः सर्वथा शापप्रतियातनाय प्रायतिष्यत। लीलादुर्ललिताद्भुतव्यसनिना विधिना परम् असाम्प्रतमाचरितम्॥

नन्दिनीप्रकरणम्

नन्दिनी तु सत्त्वपरीचिक्षिषया दिलीपं गौरीगुरोर्गह्वरं प्रति निनाय। तत्र च मायाकल्पितपञ्चवक्त्रनखरैर्व्यापाद्यमानां तनुं स्वीयां नेत्रगतां नृपस्य कृतवत्यह्नाय मूढात्मनः। सिंहकृतं प्रलोभनशतं बधिरवदाकर्ण्य स्वात्मसमर्पणपुरःसरं मुक्तां धेनुं प्रार्थयमानस्य दिलीपस्य निरुपमः स्थेमा। अनेन हि स्वार्थत्यागेन विना दुःसम्भवा परमार्थसिद्धिरिति सूच्यते। अथ च गुहान्तःसम्पन्नः सर्वोऽपि वृत्तान्तः प्रायेण दिलीपान्तरङ्गघटितं चित्तवृत्तिविपर्ययं पिशुनयति॥  

कौत्सप्रकरणम्

नातिदीर्घादनेहसः पूर्वं यः खल्वियाज विश्वजिता तं मृत्स्नापात्रमात्रावशिष्टविभवं रघुं गुरुदक्षिणार्थी कौत्स उपससर्पेति रमणीयेयं प्रकरणवक्रता। राजराजेन सह योद्धुं निश्चितवति राजनि कनकवृष्ट्या कोशागारः पूर्णतां गतः। निःस्पृहे साधनोपायशालिनि सति दातरि, तथा गृध्नुतारहिते सत्सङ्कल्पवति सति प्रतिग्रहीतरि देयं लीलयेव सेत्स्यतीति ध्वनितोऽर्थः। अर्थिकामादधिकप्रदातारं रघुं गुरुप्रदेयाधिकनिःस्पृहं कौत्सं च दर्शं दर्शं साकेतनिवासिनः सर्वे परमामवापुर्मुदमिति कामनीयकस्य परा काष्ठा॥

अजविलापप्रकरणम्

इन्दुमती नु पतिंवरा रघोरात्मजमजं निजनाथं वव्रे। तदा च परिणयकौतुकमालिकां तत्कण्ठे समर्पयामास। कुसुमसुकुमारं तयोरनपायि दाम्पत्यम्। एवं सति नभोमार्गेण सञ्चरमाणस्य नारदस्य वीणामलम्भूष्णुः स्रक् ततः प्रच्युता सतीन्दुमत्यां पपात जहार च तत्प्राणान्। संयोगसाधनमेव दैवदुर्विपाकाद्वियोगसाधनं च सम्भवेदिति मथितोऽर्थः॥

सीतापरित्यागप्रकरणम्

दशकण्ठनीतां सीतां पुनरानेतुं यः किल जानकीजानिः शतयोजनविस्तृतमकूपारं दुस्तरं ततार, यया सह सानुरागं भाषमाणः पुष्पकविमानस्थो गगनमार्गेण स्वनगरीं प्रतिनिववृते, स प्रभुस्तामेव धरणीगर्भं विशन्तीं प्रतिरोद्धुं न शशाक। तथैव निषादविद्धाण्डजदर्शनेन व्यथितो यः कविः पुलिन्दं शशाप स एव पत्या परित्यक्तां सीतामवलोक्य भरताग्रजन्मने चुक्रोध। निजकाव्यनायकेन केनापि हेतुना कृतोऽपराधः—अस्यामवस्थायां सीतासम्मुखं तस्मिन्नीषदमर्षं प्रकटय्य, मनसा च तस्मिन्नकम्पामनुकम्पां वहमानः, स्वयं च भूमितनयासङ्गोपनगौरवं स्वीचकार भगवानादिकविः। वाल्मीकिवर्तनमिषेण निजान्तरङ्गभावः किमु प्रकटितः कवितल्लजेन॥

अग्निवर्णप्रकरणम्

“राजा प्रकृतिरञ्जनात्” इति चिन्तयामासुः सर्वे रघुवंशभवा भूपाः। “अहमेव मतो महीपतेः” इति सर्वाः प्रजाश्च व्यचिन्तयन्। एवं सत्यग्निवर्णः कामलीलापरायणः प्रकृतिकाङ्क्षितं दर्शनं मन्त्रिणां गौरवाद्गवाक्षावलम्बिना केवलेन चरणेन ददौ। न जातु कामः कामानामुपभोग्येन शाम्यति हविषा कृष्णवर्त्मेव भूय एवाभिवर्धत इति परमार्थः॥ 

इत्थं रघुवंशस्य समष्टिरूपं विमर्शं परिसमाप्य सम्प्रति व्यष्टिरूपं विमर्शमारभामहे। अत्र पद्यानां प्रकरणानामपि चयनम् अशोकवनिकान्यायमनुधावति, तेषां स्वारस्यं तु स्थालीपुलाकन्यायमनुसरतीति बोध्यम्॥

बहुव्रीहिसमासग्रथनम्

कालिदासो हि साभिप्रायाणि विशेषणानि भूयस्तरामौचित्यसंस्कृतानि प्रयुङ्क्ते। इमानि च रचयितुं स बहुव्रीहिसमासं बहुकृत्व उपयुनक्ति। बहुव्रीहिस्तु समासः स्वयमन्यपदप्रधान इति कारणात्तस्मिन्निरपवादमिव ध्वनिप्रसक्तिः समस्ति, यतः किल समासान्तर्गतपदेभ्यो भिन्न एवार्थस्तेन बोध्यते। तद्योगेन च लाघवं लघु साधयितुं शक्यते। एवं सति तेनोपनिबद्धानां पद्यानां शोभा समभिवर्धत इत्यत्र किं चित्रम्। अस्य तावदुदाहरणानि परःसहस्रं लभ्यन्ते। दिङ्मात्रमत्र निर्दिश्यते यथा—

आफलोदयकर्मणाम् (१.५), आतिथ्यक्रियाशान्तरथक्षोभपरिश्रमम् (१.५८), जायाप्रतिग्राहितगन्धमाल्याम् (२.१), अन्तिकन्यस्तबलिप्रदीपाम् (२.२४), उपान्तसंमीलितलोचनः (३.२६), सुरद्विपास्फालनकर्कशाङ्गुलौ (३.५५), सुवर्णपुङ्खद्युतिरञ्जिताङ्गुलिम् (३.६४), आकुमारकथोद्घातम् (४.२०), मत्तेभरदनोत्कीर्णव्यक्तविक्रमलक्षणम् (४.५९), शार्ङ्गकूजितविज्ञेयप्रतियोधे (४.६२), निःशेषविश्राणितकोशजातम् (५.१), तीर्थप्रतिपादितर्द्धिः (५.१५), शय्योत्तरच्छदविमर्दकृशाङ्गरागम् (५.६५), प्रस्पन्दमानपरुषेतरतारम् (५.६८), पुरोपकण्ठोपवनाश्रयाणाम् (६.९), आलोलपत्त्राभिहतद्विरेफम् (६.१३), प्रासादवातायनसंश्रितानाम् (६.२४), सुराङ्गनाप्रार्थितयौवनश्रीः (६.२७), अष्टादशद्वीपनिखातयूपः (६.३८), शरत्प्रमृष्टाम्बुधरोपरोधः (६.४४), नाभिप्रविष्टाभरणप्रभेण (७.९), प्रम्लानबीजाङ्कुरकर्णपूरम् (७.२७), श्येननखाग्रकोटिव्यासक्तकेशानि (७.४६), केयूरकोटिक्षततालुदेशा (७.५०), प्रतियोजयितव्यवल्लकीसमवस्थाम् (८.४१), विरताभ्यन्तरषट्पदस्वनम् (८.५५), गतिविभ्रमसादनीरवा (८.५८), मनुदण्डधरान्वयम् (९.३), जवतीव्रहया (९.१०), सुरसमाजसमाक्रमणोचितः (९.२२), सुरभिगन्धपराजितकेसरम् (९.३६), भ्रमरसङ्क्रमितेक्षणवृत्तयः (९.५२), मुस्ताप्ररोहकवलावयवानुकीर्णम् (९.५९), तत्फणामण्डलोदर्चिर्मणिद्योतितविग्रहम् (१०.७), कुशलसंप्रश्नव्यञ्जितप्रीतये (१०.३४), वेलासमासन्नशैलरन्ध्रानुनादिना (१०.३५), पौरदृष्टिकृतमार्गतोरणौ (११.५), तीव्रवेगधुतमार्गवृक्षया (११.१३), श्रोणिलम्बिपुरुषान्त्रमेखलाम् (११.१७), शिष्यवर्गपरिकल्पितार्हणम् (११.२३), विद्रुतक्रतुमृगानुसारिणम् (११.४४), सैन्यरेणुमुषितार्कदीधितिः (११.५१), निर्विष्टविषयस्नेहः (१२.१), पक्षीन्द्रप्रयासक्षणविघ्नितः (१२.५३), दिग्विजृम्भितकाकुत्स्थपौलस्त्यजयघोषणः (१२.७२), मारुतिसमानीतमहौषधिहतव्यथः (१२.८७), प्रियाशोकशल्यनिष्कर्षणौषधम् (१२.९७), नाभिप्ररूढाम्बुरुहासनेन (१३.६), त्रिमार्गगावीचिविमर्दशीतः (१३.२०), विदूरान्तरभावतन्वी (१३.४८), अनिग्रहत्रासविनीतसत्त्वम् (१३.५०), सेवाविचक्षणहरीश्वरदत्तहस्तः (१३.६९), रूढेन्द्रजित्प्रहरणव्रणकर्कशेन (१३.७३), लङ्केश्वरप्रणतिभङ्गदृढव्रतम् (१३.८७), ज्येष्ठानुवृत्तिजटिलम् (१३.८७), सीतास्वहस्तोपहताग्र्यपूजान् (१४.१९), नितान्तरूक्षाभिनिवेशम् (१४.४३), अन्तर्गतबाष्पकण्ठः (१४.५३), मृगाध्यासितवेदिपार्श्वम् (१४.८०), कविप्रथमपद्धतिम् (१५.३३), भर्तृप्रणिहितेक्षणाम् (१५.८४), कालान्तरश्यामसुधेषु (१६.१८), विन्यस्तसायन्तनमल्लिकेषु (१६.५०), ज्याघातरेखाकिणलाञ्छनेन (१६.८४), न्यस्तप्रणिधिदीधितेः (१७.४८), नभस्तलश्यामतनुम् (१८.६), प्रभानिर्जितपुष्परागम् (१८.३२), स्त्रीविधेयनवयौवनः (१९.४), लुलितस्रगाकुलम् (१९.२५), कण्ठसक्तमृदुबाहुबन्धनम् (१९.२९), अर्पितस्तिमितदीपदृष्टयः (१९.४२)॥

आश्रमवर्णनम्

कालिदास एव भारतराष्ट्रस्य प्रथमो नागरककविरिति ठाकूरपदोपाह्वो रवीन्द्रनाथः कविरभिप्रैति। नगरे कृतवास्तव्यः सन्नपि कविरयम् आश्रमजीवनवर्णनं तथा रुचिरया रीत्या चकार यथा स्वयं वनौकसः सन्तोऽपि व्यासवाल्मीकिमुखा महर्षयो न चक्रिरे। तदिदं प्रथमसर्ग एव साक्षात्कर्तुमलम् (१.४९–५३)। तत्रत्यं पद्यद्वयमुदाह्रियते यथा—

आकीर्णमृषिपत्नीनामुटजद्वाररोधिभिः।

अपत्यैरिव नीवारभोगधेयोचितैर्मृगैः॥

सेकान्ते मुनिकन्याभिस्तत्क्षणोज्झितवृक्षकम्।

विश्वासाय विहङ्गानामालवालाम्बुपायिनाम्॥ (१.५०,५१)

ऋषीणामपत्यनिर्विशेषाः खलु मृगाः स्वभुक्तिं कामयमाना उटजद्वारं तस्तम्भुरिति, प्रकृतिवत्सलास्तापसकन्यकाः पक्षिणां भयं निवारयितुमालवालेषु सत्वरं सलिलं प्रपूर्य ततो निववृतिर इति च महदिदं पौष्कल्यं प्रेयोरसस्य। इतः स्फूर्तिं प्राप्य तत्र भवान् कुमारदासः स्वकाव्ये जानकीहरणे तावदाश्रमवर्णनमनयैव रीत्या विदधे॥ 

प्रकृतिप्रीतिः

महाकविः कालिदासः सर्वथाप्यद्वैतसिद्धान्ते बद्धादरः। तस्मान्निखिलासु तद्रचनासु सर्वात्मभावः स्फुटमवलोक्यते। अयं भावो न केवलं स्त्रीपुम्भेदमतीत्य वर्तते, अपि तु सर्वस्मिन्नपि स्थावरजङ्गमात्मके जगति समत्वं प्रकटयति। अनेन भावेन संवलिताः प्रायेण सर्वे रघुवंशराजा दृश्यन्ते। अनया रीत्या तेषां प्रकृतिप्रीतिरपि स्फारीभवतीति सुधियामतिरोहितम्। अत्र द्वे उदाहरणे भवतः—

हैयङ्गवीनमादाय घोषवृद्धानुपस्थितान्।

नामधेयानि पृच्छन्तौ वन्यानां मार्गशाखिनाम्॥ (१.४५)

सपत्नीकाय राज्ञे सद्योघृतं निवेदयितॄणां वृद्धानां निसर्गनिर्णिक्ता हृदयसम्पत् सचेतसां चेतांस्यतितरां धिनोति। इत्थमेव सन्तानराहित्यान्नितरां खिन्नौ अपि दम्पती प्रीत्या कौतूहलेन च मार्गशाखिनां वन्यानां नामानि पप्रच्छतुरिति महदिदं पद्यस्य रामणीयकम्॥ 

क्रियानिमित्तेष्वपि वत्सलत्वा-

दभग्नकामा मुनिभिः कुशेषु।

तदङ्कशय्याच्युतनाभिनाला

कच्चिन्मृगीणामनघा प्रसूतिः॥ (५.७)

स्वानुष्ठानमवगणय्य सद्यःप्रसूतान्मृगशावकानङ्के दश दिनानि यावद्धरतां मुनीनामत्युदात्तम् अन्तःकरणं कं वा न रसिकं पूतं विदधाति। तथा च सर्वस्वदानस्य विश्वजित आहर्ता रघुः सद्यःसमावृत्तं युवानं तदाश्रमगतानां मृगीणामनघां प्रसूतिमनुयुनक्तीति विज्ञाय रोमाञ्चकञ्चुकितं कायमस्माकं भवति॥

रघुमहाराजवर्णनम्

अमुष्मिन् वंशे जातानां राज्ञां प्रधानलक्षणत्वेन ये गुणाः काव्यारम्भे कथितास्ते सर्वेऽपि यथातथं रघौ सङ्गच्छन्ते। यथा दिव्यधेनुपरिचर्याफलत्वेन प्राप्तजनुषस्तस्य आजन्मशुद्धत्वम्, शतक्रतुना सह युद्ध्वा स्वपितुः सैन्धवमेधफलसम्पादनाद् आफलोदयकर्मत्वम्, दिग्विजयत्वाद् आसमुद्रक्षितीशत्वम्, विश्वजिन्निर्वर्तनाद्यथाविधिहुताग्नित्वम्, कौत्समुनिपरिचर्याहेतोर्यथाकामार्चितार्थित्वम् इत्यादिः। एवञ्च लघिधातोर्गमनार्थत्वं मनसिकृत्य दिलीपः स्वसुतं रघुनामानं चकारेत्यतस्तस्य गतिशीलत्वं गम्यते (३.२१)। तथैव च सर्वे गत्यर्थकधातवो ज्ञानार्थका इत्यनेन व्याकरणशास्त्रसमयेन तस्य ज्ञानित्वमवबुध्यते। इत्थं च प्राज्ञप्राग्रहरो दिलीपः पुंसवन-जातकर्म-नामकरण-अक्षराभ्यास-उपनयन-पाणिग्रहणा-दिभिः सर्वैरपि वैदिकविधानै रघुं सञ्चस्कारेति ज्ञायते (३.१०,१८, २१,२८,२९,३३)। एवं सर्वगुणोपेतस्य महापुरुषस्य नाम्ना काव्यमिदं व्यपदिष्टमिति सर्वमनवद्यम्॥ 

भारतवर्णनम्

कालिदासस्तावदस्माकं राष्ट्रकविरिति गीयते। नैतन्मृषोदर्कं वचः। यस्माद् आसेतुशीताचलं भारतवर्षस्य वर्णनं चारु चक्रे कविकुलगुरुणा। अनेन तस्य विस्पष्टं भौगोलिकज्ञानमवगम्यते। रघुवंशे हि दिग्विजयवर्णनावसरे चतुर्थे सर्गे तथा इन्दुमतीस्वयंवरावसरे षष्ठे सर्गे तथा विमानयानप्रसङ्गे त्रयोदशे सर्गे च तदिदं विशदं निभाल्यते। एवञ्च वर्णनमत्रत्यं न याथाकथाचम्, प्रत्युत वस्तुस्थितिबोधकम्। अत्र पुनरनेके सांस्कृतिकविशेषाः परिलक्ष्यन्ते। यथा पुरुहूतध्वजस्य प्रस्तावः (४.३), महेन्द्रपर्वते नागवल्लीदलसाधनेन योधैः पीतस्य नारिकेलासवस्योल्लेखः (४.४२), प्राचीनभारते राजानः प्रायेण धर्मविजयिनः प्रादुर्बभूवुर्न तु लोभविजयिनो वासुरविजयिन इत्यस्य भूम्नः सत्यस्य प्रस्तावः (४.४३), फलितक्रमुकमिषेण दक्षिणदिश उल्लेखः (४.४४), मगध-अङ्ग-अवन्ती-माहिष्मती-शूरसेन-कलिङ्ग-उरग-उत्तरकोसलमुखानां प्रदेशविशेषाणां प्रस्तावः (६.२१,२७,३२,४३,४५,५३,५९,७१), द्वीपान्तरानीतस्य लवङ्गस्य प्रस्तावः (६.५७), ताम्बूलवल्लीपरिणद्धपूगानाम् एलालतालिङ्गितचन्दनानां मलयस्थलीनामुल्लेखः (६.६४), सिप्रा-रेवा-यमुना-गङ्गाद्यानां नदीनामुल्लेखश्च (६.३५,४३,४८)॥

सुप्रभातवर्णनम्

सूतात्मजाः सवयसः प्रथितप्रबोधम् अजं वाग्भिरुदारवाचः प्राबोधयन् (५.४५–७४)। भगवती ब्राह्मी स्वयमिमानि पद्यानि रचितवतीति कर्णाकर्णिकया श्रूयते। अनेन तावदमीषामौत्तम्यं व्यज्यते। एभिः पद्यैः संस्कृतसाहित्यपरम्परायां सुप्रभातसम्प्रदायः साक्षादुदघाटि। अत्र प्रयुक्तं वसन्ततिलकाभिधं मालिन्यभिधं छन्दश्च परवर्तिनि काले सुप्रभातपद्यानामनिवार्यमभूत्। यदा हि नाम भगवांस्त्रयीतनुरुदेति तदा हतप्रभः स्वयम् अस्तमुपयाति चन्द्रः, शतपत्रान्तःसंलग्ना इन्दिन्दिरास्तु बहिराजिगमिषन्ति, सूर्यांशुभिः पुण्डरीकाणि प्रबुद्धानि विधीयन्ते, गन्धबन्धुः कुसुमसौरभं सर्वत्र प्रसारयति, ताम्रोदरेषु तरुपल्लवेषु विशदं हिमाम्भः पतति, वाचालशृङ्खलकर्षिणः स्तम्बेरमाः शय्यां जहति, अश्वाः पुरोनिहितं लवणं वक्त्रोष्मणा मलिनयन्ति, अपचित्यर्थमर्पिताः कुसुममालाः सुतरां विरलभक्तयः परिम्लानाश्च भवन्ति, पञ्जरस्थश्च मञ्जुवाक्कीरः सूतात्मजैः प्रयुक्तां गिरमनुवदति। अत्र प्रकृति-मानवप्रकृति-संस्कृतिसम्बद्धानि वैशिष्ट्यानि सुतरां मनोहराणि कालिदासेन प्रस्तुतानि। अथ च सर्वाण्यपीमानि रघुणा सह सौन्दर्यसम्पृक्तिं भजन्ते। सहृदयमनोविनोदाय पद्यद्वयमुल्लिख्यते—

तद्वल्गुना युगपदुन्मिषितेन तावत्

      सद्यः परस्परतुलामधिरोहतां द्वे।

प्रस्पन्दमानपरुषेतरतारमन्त-

      श्चक्षुस्तव प्रचलितभ्रमरं च पद्मम्॥ (५.६८)

कमलकीलिताः षट्पदाः प्रभाते खलु बहिरागच्छन्ति। ततः पूर्वं कुञ्चितानि पद्मदलानि तावदुद्घाटयितुं प्रयतन्ते। तस्मादेव प्रचलितभ्रमरत्वं पद्मस्य साधु सङ्गच्छते। इदं किञ्चिदारक्तवर्णेन पुनरन्तःश्यामलेन चलत्तारकेण सह नयनेन साम्यं बिभर्ति। अन्तश्चक्षुषः स्पन्दनशीलत्वमाधुनिका जङ्घालं नयनवलनमित्याचक्षते (rapid eye movement)॥

दीर्घेष्वमी नियमिताः पटमण्डपेषु

      निद्रां विहाय वनजाक्ष वनायुदेश्याः।

वक्त्रोष्मणा मलिनयन्ति पुरोगतानि

      लेह्यानि सैन्धवशिलाशकलानि वाहाः॥ (५.७३)

पारसीका अश्वाः प्रशस्ततमा इति सर्वेषामश्वशास्त्रविदामभ्युपगमः। “पूर्वाह्णकाले चाश्वानां प्रायशो लवणं हितम्। शूलानाहविबन्धघ्नं लवणं सैन्धवं वरम्” इत्युक्तं सिद्धयोगसङ्ग्रह इति मल्लिनाथः। लेह्यानि श्लेष्मनिवारणार्थमास्वाद्यानीति वल्लभदेवः। कालिदासेन हि वाजिमर्म निपुणं जानतैव पद्यमिदं व्यरचीत्यत्र न विदो विवदन्ते॥    

वीररसपरिपोषः

कालिदासः शृङ्गाराभिनिवेशी कविरिति प्रायोवादः। यथा स ललितमृदुलानां वृत्तान्तानां निर्वाहे पटीयांस्तथा न भयङ्कराभीलानाम् इत्येतद्दुरपह्नवमेव। अथापि केषुचन प्रसङ्गेषु वीररसस्तेन निपुणं निरूप्यते। तादृशाः प्रसङ्गाः सन्ति केचिद्रघुवंशे। रघुशक्रयोः सङ्ग्रामस्तृतीयसर्गगतः, बहुभिः सह बाहुजैरजस्य संयुगः सप्तमसर्गगतः, रामरावणयोः संस्फोटो द्वादशसर्गगतश्च प्रमुखतयोल्लेखमर्हन्ति। अत्र तु केवलमजकृतं साम्परायिकं निरूप्यते। भोजकन्यामुद्वहन्तमजं दृप्तो राजन्यगणः पथि रुरोध। ततस्तुमुलयुद्धं प्रावर्तत। तदा तावदिन्दुमत्याः परिरक्षणाय पित्र्यं सचिवमादिश्य स्वयमजः पार्थिववाहिनीं प्रत्यग्रहीत्। तुल्यप्रतिद्वन्द्वितया प्रवर्तमाने प्रधने कथङ्कारं विगतासवः पृथिवीशा बभूवुः, कीदृशी च रणभूमिः परिलक्ष्यते स्मेति जुगुप्सागर्भया सकृदुत्प्रेक्षालङ्कृतया पद्यद्वय्या वर्णयति कालिदासः—

आधोरणानां गजसन्निपाते

      शिरांसि चक्रैर्निशितैः क्षुराग्रैः।

हतान्यपि श्येननखाग्रकोटि-

      व्यासक्तकेशानि चिरेण पेतुः॥ (७.४६)

शिलीमुखोत्कृत्तशिरःफलाढ्या

      च्युतैः शिरस्त्रैश्चषकोत्तरेव।

रणक्षितिः शोणितमद्यकुल्या

      रराज मृत्योरिव पानभूमिः॥ (७.४९)

यौगपद्येन रघुराघवयोर्वर्णनम्

वीराग्रणीः सन्नपि रघुः स्वतनूजविवाहकौतुकादुत्तरं विनाशधर्मसु विषयेषु निःस्पृहः समजनि। अजश्च भोगतृष्णादूरः पितुराज्ञेति राज्यमग्रहीत्। एवम् अभ्युदयमार्गेण सूनुस्तथा निःश्रेयसमार्गेण पिता च क्रमशः क्रममाणौ पक्त्रिमां सिद्धिं भेजतुः। तौ यतिपार्थिवलिङ्गधारिणौ भुवम् अपवर्गमहोदयार्थयोरिव धर्मयोरंशाविव गतौ जनैः सप्रमोदातिशयं ददृशाते। तदिदं प्रकरणं रमणीयतया न्यरूपि कालिदासेन। अत्र च तेन रसबन्धुराणि बहूनि पद्यानि प्राणायिषत, येषु यौगपद्येन रघुराघवयोः प्रस्तावः कृतः। किमपि लक्षणातिगं वैचित्र्यमिह विलसति, यतः खल्वनुभूतायां कस्याञ्चन भङ्गीभणितौ कोऽलङ्कार इति निर्णयः सुदुःशकः। [यद्यप्यत्र उदात्त-सहोक्तिमुखा अलङ्काराः केचन क्वचिल्लक्ष्यन्ते। अथापि दुर्घट एव निर्दुष्टो लक्षणान्वयः।] अनन्ता हि वाग्विकल्पाः। कस्तान् कार्त्स्न्येन वक्ष्यति। यथा हि पुरतः शोभमानस्य कस्यचिदज्ञातमूलस्य कुसुमस्य नयनासेचनकं रूपं नासिकासेचनकं सौरभं च स्फुटमनुभूयते परं तन्नाम न ज्ञायते, तथैव प्रकरणमिदमपि सङ्गच्छते॥

अत्रत्यानि कानिचन पद्यान्युदाह्रियन्ते— 

नृपतिः प्रकृतीरवेक्षितुं

      व्यवहारासनमाददे युवा।

परिचेतुमुपांशु धारणां

      कुशपूतं प्रवयास्तु विष्टरम्॥

अनयत् प्रभुशक्तिसम्पदा

      वशमेको नृपतीननन्तरान्।

अपरः प्रणिधानयोग्यया

      मरुतः पञ्च शरीरगोचरान्॥

अकरोदचिरेश्वरः क्षितौ

      द्विषदारम्भफलानि भस्मसात्।

इतरो दहने स्वकर्मणां

      ववृते ज्ञानमयेन वह्निना॥

पणबन्धमुखान् गुणानजः

      षडुपायुङ्क्त समीक्ष्य तत्फलम्।

रघुरप्यजयद्गुणत्रयं

      प्रकृतिस्थं समलोष्टकाञ्चनः॥ (८.१८–२१)

एभी राज्यशास्त्रे योगशास्त्रे च कालिदासः समभूदासेवितीति विशदं विज्ञायते। यतः स्थाने खलु धर्मासन-धारणयोः, प्रभुशक्ति-प्रणिधानयोः, द्विषदारम्भदहन-स्वकर्मप्लोषणयोः, गुणषट्क-गुणत्रितययोश्च प्रस्तावः कृतः। अत्र च वसिष्ठ-श्रीकृष्ण-कौटिल्यादीनां पङ्क्तिपावनानां वचांसि निपुणमुल्लिखन् महामहोपाध्यायो मल्लिनाथः कविकुलगुरुवचनजातं प्रमाणयतीति महानयं प्रकर्षो हर्षस्य विद्वद्रसिकानाम्॥

अजविलापप्रकरणम्

इन्दुमती करणोज्झितेन वपुषा निपतन्ती पतिमप्यपातयत्। ननु तैलनिषेकबिन्दुना सह दीपार्चिरपि मेदिनीमुपैति। एवं सत्यजः सहजामपि धीरतामपहाय बाष्पगद्गदं विललाप। अत्र तावदजस्य विलापस्तथा वर्णितो यथा कुलिशकठिनचेता अपि नरः सुतराम् अश्रुपर्याकुलनयनः सञ्जायते। यदाह भवभूतिः—“अपि ग्रावा रोदित्यपि दलति वज्रस्य हृदयम्”। करुणरसभरां नृपस्य वाचं हृदयविदारणदारुणां निशम्य। पशुपतिरथवा पशुः स्वयं चेदविकलतामनुविन्दते कथञ्चित्। अत्रत्यमेकैकमपि पद्यम् अनर्घभास्वरमिव रत्नं बाभाति। तद्यथा—

अथवा मम भाग्यविप्लवा-

      दशनिः कल्पित एष वेधसा।

यदनेन तरुर्न पाटितः

      क्षपिता तद्विटपाश्रिता लता॥ (८.४७)

ध्रुवमस्मि शठः शुचिस्मिते

      विदितः कैतववत्सलस्तव।

परलोकमसन्निवृत्तये

      यदनापृच्छ्य गतासि मामितः॥ (८.४९)

नवपल्लवसंस्तरेऽपि ते

      मृदु दूयेत यदङ्गमर्पितम्।

तदिदं विषहिष्यते कथं

      वद वामोरु चिताधिरोहणम्॥ (८.५७)

गृहिणी सचिवः सखी मिथः

      प्रियशिष्या ललिते कलाविधौ।

करुणा विमुखेन मृत्युना

      हरता त्वां वद किं न मे हृतम्॥ (८.६७)

“अनापृच्छ्य गतासि”, “वद वामोरु”, “त्वां हरता मृत्युना मे किं न हृतं वद” इत्यादिभिः पदैरजः सुतरां गतप्राणया साकमिन्दुमत्या साक्षाद्वदन्निव लक्ष्यते। अनेन च प्रेमातिशयः समभिव्यज्यते॥

सुरसमूहकृतः पुरुषोत्तमस्तवः

कालिदासेन ह्यद्वैतसिद्धान्तानुसारं त्रिमूर्तिस्तुतिः स्वकृतिषु विहिता। कुमारसम्भवस्य द्वितीयसर्गे ब्रह्मणः स्तुतिः षष्ठसर्गे च महेश्वरस्तुतिः संलक्ष्यते। नारायणस्तुतिस्तु रघुवंशस्य दशमसर्गे दृश्यते। अत्र सर्वत्रापि तत्तद्देवतारूपान्तर्निहितं केवलात्मतत्त्वं सच्चिदानन्दस्वरूपं कविकुलगुरुः स्तुतिविषयीकरोतीति निश्चप्रचम्। सदृशं चैतदुदारसत्त्वस्य महाकवेः। सम्प्रति नारायणस्तुतिगतानि विरोधाभासालङ्कार-भूषितानि कानिचिदुदाह्रियन्ते पद्यानि। परमात्मा हि “नेति नेति” इत्यनया रीत्या साक्षात्कर्तव्यः। जगदिदं मनसाप्यचिन्त्यरचनारूपमिति भगवत्पादः शङ्करः प्राह (ब्रह्मसूत्रभाष्यम्, १.१.२)। एवं सति तदधिष्ठानस्य ब्रह्मणः स्वरूपं किं वाचा वर्णयितुमलम्। अतस्तस्य विरोधाभासत्वं सुस्थमेव। देवाः पौलस्त्योपप्लुता निदाघार्ताश्छायावृक्षमिवाध्वगाः पद्मनाभम् अभिजग्मुः। तं च भोगिभोगासनासीनं तत्फणामण्डलोदर्चिर्मणिद्योतितविग्रहं प्रबुद्धपुण्डरीकाक्षं विलोक्य सनमस्कारमेवं तुष्टुवुः— 

अमेयो मितलोकस्त्वमनर्थी प्रार्थनावहः।

अजितो जिष्णुरत्यन्तमव्यक्तो व्यक्तकारणम्॥

हृदयस्थमनासन्नमकामं त्वां तपस्विनम्।

दयालुमनघस्पृष्टं पुराणमजरं विदुः॥

सर्वज्ञस्त्वमविज्ञातः सर्वयोनिस्त्वमात्मभूः।

सर्वप्रभुरनीशस्त्वमेकस्त्वं सर्वरूपभाक्॥ (१०.१८–२०) 

द्वादशः सर्गः

भगवता वाल्मीकिना यानि प्रकरणानि पञ्चसु काण्डेषु वर्णितानि तानि कालिदासेन द्वादशे सर्ग एकस्मिन्नेव समग्राहिषत। सुप्रथिता हि रामायणी कथा। तद्वृत्तान्तपौनरुक्त्यं नाम रसिकानां शिरःशूलाय कल्पते। तस्मादमुं कथनक्रमम् अप्रसन्नं मन्वानेन कविकुलगुरुणा क्रमान्तरमाश्रितं, येन च नीरसत्वकर्दमदूरा सरसत्वजीवनविपुला कथाकल्लोलिनी निरवग्रहं प्रसरति। सम्प्रति तावदयोध्यारण्य-किष्किन्धासुन्दरयुद्धनामकेभ्यः काण्डेभ्यः पञ्च पद्यान्युद्ध्रियन्ते।

अयोध्याकाण्डाद्यथा—

तं कर्णमूलमागत्य रामे श्रीर्न्यस्यतामिति।

कैकेयीशङ्कयेवाह पलितच्छद्मना जरा॥ (१२.२)

अमूर्ताभिधायिना शब्देन यत्र मूर्तमभिधीयते वस्तु तत्र ह्युपचारवक्रता राजतीति कुन्तकः। अत्र तु दशरथस्य प्रवयसः कर्णमूलमागत्य जरा किञ्चिदुक्तवतीत्यत उपचारवक्रता स्वयंसिद्धा। उपचारवक्रतागर्भे सर्वस्यापि ध्वनिप्रपञ्चस्यान्तर्भावादस्य पद्यस्य वैशिष्ट्यम् अपरिमितम्। “कैकेयीशङ्कया” इत्यनेन पदेन भरतस्य मातुः स्वरूपं निष्कृष्टम् आविष्कृतम्॥

अरण्यकाण्डाद्यथा—

पर्णशालामथ क्षिप्रं विकृष्टासिः प्रविश्य सः।

वैरूप्यपौनरुक्त्येन भीषणां तामयोजयत्॥ (१२.४०)

मदनातुरा रावणावरजा निदाघार्ता व्यालीव मलयद्रुमं राघवमभिपेदे। यदा शूर्पणखा सा नाम्नः सदृशं रूपं प्रत्यपद्यत, तदा लक्ष्मणः कोशोद्धृतखङ्गः सन् तत्कर्णनासं चिच्छेद। अत्रत्यः “वैरूप्यपौनरुक्त्येन” इत्यसौ शब्दः सर्वथा वाक्यवक्रतापोषकः शोभते। स्वभावत एव विकृतां शूर्पणखां नासादिच्छेदेन पुनरतिमात्रं विकृतामकरोल्लक्ष्मण इत्यर्थः॥

किष्किन्धाकाण्डाद्यथा—

स हत्वा वालिनं वीरस्तत्पदे चिरकाङ्क्षिते।

धातोः स्थान इवादेशं सुग्रीवं संन्यवेशयत्॥ (१२.५८)

पद्यमिदं रामकृतं वालिहननं तत्स्थाने सुग्रीवप्रतिष्ठापनं च शब्दशास्त्रचमत्कृतिपुरःसरं प्रस्तौति। कस्यचन शब्दस्य स्थाने विधीयमानं शब्दान्तरमादेश इत्यभिधीयते। अत्र हि धातुरूपो वाली तथादेशरूपः सुग्रीवो ज्ञेयः। इहस्थामौचितीं मल्लिनाथ एवं कथयति—यथा “अस्तेर्भूः” इत्यस्तिधातोः स्थान आदेशो भूधातुरस्तिकार्यमशेषं समभिधत्ते तद्वदिति भावः॥

सुन्दरकाण्डाद्यथा—

प्रवृत्तावुपलब्धायां तस्याः सम्पातिदर्शनात्।

मारुतिः सागरं तीर्णः संसारमिव निर्ममः॥ (१०.६०)

सम्पातिमुखात् सीतावार्तां विज्ञाय मारुतिः सागरं ततार। तच्च यथा निर्ममः संसारं तरति तथा चकारेति महदिदं नावीन्यमुपमायाः। अनेन हनूमतः प्रकृतिनिर्ममत्वं सूच्यते। संसारतरणं नाम निर्ममस्य लीलामात्रम्। एवं मारुतिना सागरोल्लङ्घनं सलीलमनुष्ठितमिति व्यज्यते॥

युद्धकाण्डाद्यथा—

कामं जीवति मे नाथ इति सा विजहौ शुचम्।

प्राङ्मत्वा सत्यमस्यान्तं जीवितास्मीति लज्जिता॥ (१०.७५)

कपटोपायधुरन्धरः पङ्क्तिकण्ठः सजिह्मं रामशिरश्छेददर्शनोद्भ्रान्तचेतनां सीतामकरोत्। तदनु क्रियामेनां मायां कथयन्त्या त्रिजटया सप्राणा कृता जानकी। अस्यां स्थितौ जीवन्तं नाथं विज्ञाय विगतशोकापि रामपत्नी “पूर्वमस्यान्तं बुद्ध्वापि किमिति न प्राणानत्याक्षम्” इति मन्दाक्षमन्दहृदया बभूवेति वर्णयतः कालिदासस्य प्रीतिज्ञानमनुत्तमम्। यदि सत्यमेव रामावसानमभविष्यत्, सीतापि गतप्राणाभविष्यत्। “दुःखादपि दुःसहो लज्जाभरः” इति मल्लिनाथः॥

पुष्पकविमानयानप्रकरणम्

दण्डकाप्रत्यागमनाभिधे त्रयोदशसर्गे पुष्पकविमानेन स्वनगरीं यियासुः श्रीरामः सीतां प्रति तदन्वेषणप्रापणरक्षणादिघटनाः कथयति। तदङ्गत्वेन च सृतिगोचराणि स्थलानि वनगिरिनदीभाञ्जि निरूपयति। आत्मनिर्मितेन सेतुना विभक्तं फेनिलमम्बुराशिमारभ्य तरङ्गहस्तैः स्वमालिङ्गन्तीमिव सरयूनदीं यावत् सविस्तरं वर्णयति। तदा हि विद्युद्वलयभूषितां सीतां निभालयन्, भिन्नकोशान् कन्दलीनिवहान् दर्शं दर्शं च तस्या विवाहधूमारुणलोचनश्रियं स्मरन् लङ्घितमार्गविलोकनाय तां चोदयति। तद्यथा—

कुरुष्व तावत्करभोरु पश्चा-

      न्मार्गे मृगप्रेक्षिणि दृष्टिपातम्।

एषा विदूरीभवतः समुद्रात्

      सकानना निष्पतितेव भूमिः॥ (१३.१८)

भूमिः समुद्राद्विदूरीभवतः सकानना निष्पततीव भातीत्यपर्युषितबन्धुरा सेयमुत्प्रेक्षा। असौ पुनरभिज्ञानशाकुन्तलगतं पद्यद्वयं स्मारयतीव। मृगमनुधावन् पौरवः समतीत्य हरितो हरींश्च वर्तमानानश्वांस्तथा रथवेगं वर्णयति “यदालोके सूक्ष्मम्” इत्यादिना स्वभावोक्ति-विरोधाभास-उत्प्रेक्षालङ्कृतेन पद्येन। तथैव गगनमार्गेण भूमिमागच्छन् “शैलानामवरोहतीव” इत्यादिकं स्वभावोक्ति-काव्यलिङ्ग-उत्प्रेक्षालङ्कृतं पद्यं गदति।[1] वीतविमानयानानुभवेन कविना तद्वल्गु वर्ण्यत इति चित्रीयते नश्चेतः। तदवश्यमभिवन्दनीया भगवती प्रतिभा॥

अग्रे च सीतानूपुरदर्शनं ब्रूते—

सैषा स्थली यत्र विचिन्वता त्वां

      भ्रष्टं मया नूपुरमेकमुर्व्याम्।

अदृश्यत त्वच्चरणारविन्द-

      विश्लेषदुःखादिव बद्धमौनम्॥ (१३.२३)

अपृथग्यत्ननिर्वर्त्या हेतूत्प्रेक्षा हि पद्यमिदमलङ्कुरुते। नूपुरेण दुःखमन्वभावीति कथयता कविनोपचारवक्रता रसपरिष्कृता कृता॥

मध्येमार्गं पञ्चवटीं वर्णयति। तद्यथा—

एषा त्वया पेशलमध्ययापि

      घटाम्बुसंवर्धितबालचूता।

आनन्दयत्युन्मुखकृष्णसारा

      दृष्टा चिरात् पञ्चवटी मनो मे॥ (१३.३४)

अत्र नैकानि सन्ति साभिप्रायविशेषणानीति कारणात् परिकरालङ्कारेण पद्यमिदमलमकारि। अनेन च सीतायाः प्रकृतिप्रीतिः सम्यगभिव्यज्यते॥

अग्रे यमुनातरङ्गैः समुद्भिन्नप्रवाहां गङ्गां प्रयागस्थितां वर्णयति—

क्वचिच्च कृष्णोरगभूषणेव

      भस्माङ्गरागा तनुरीश्वरस्य।

पश्यानवद्याङ्गि विभाति गङ्गा

      भिन्नप्रवाहा यमुनातरङ्गैः॥ (१३.५७)

गङ्गा हि धवलसलिला। यमुना तु कृष्णकाया। तयोः सङ्गमे श्वेतिमश्यामलिम्नोः काचिद् अपूर्वा सम्पृक्तिः परिलक्ष्यते। तदिदं रागविलक्षणत्वं विरागिपरिवृढस्य परमेश्वरस्य प्रस्तावेन प्रतिष्ठापितम्। ईशानमूर्धानमलङ्कुर्वाणा सुरनदी तत्तनुरिव बभास इति महदिदं वैलक्षण्यमुपमायाः॥

अत्रान्ते तावदपांसुलानां धुरि कीर्तनीयायाः सीतायाः सह भरतेन निर्लेपकर्मधर्मणा समागमम् उदात्तरमणीयया रीत्या कथयति कालिदासः। तद्यथा—

लङ्केश्वरप्रणतिभङ्गदृढव्रतं य-

      द्वन्द्यं युगं चरणयोर्जनकात्मजायाः।

ज्येष्ठानुवृत्तिजटिलं च शिरोऽस्य साधो-

      रन्योन्यपावनमभूद्युगपत्समेत्य॥ (१३.७८)

सीतापरित्यागप्रकरणम्

द्वादशसर्गस्यान्ते “जातवेदोविशुद्धाम्” इति पदेनैकेन जानकीम् अग्निदिव्यशुद्धां प्रस्तूय, त्रयोदशसर्गे सीताविषयकं तद्भर्तुः प्रेम सविस्तरं व्यावर्ण्य च कविकुलगुरुः स्वभार्यापरित्यागपरुषाय रामाय मा क्रुधन्नतिमात्रं सहृदया इति प्रायेण वक्ति। अथ च निर्बन्धपृष्टेन भद्रेण कथितां पौरकृतसीतानिन्दाम् आकर्ण्य वैदेहिबन्धोर्हृदयं विदद्र इतीदं वर्णनं सुतरामरुन्तुदम्। स्पशपृच्छापरायणः पृथिवीपालस्तदनुपदं जानकीजानिः सन् निर्वेलां शुचमनुबभूव। अथापि “यशोधनानां हि यशो गरीयः” इति निरुदारम् अश्रद्धेयं च व्यभाषि रघुकृतेति साञ्जलिबन्धं भणामः। यतः किल सीता लक्ष्मणेन वनं प्रति नीयमाना प्रियङ्करं च प्रियं मन्वाना दुर्निमित्तदर्शनानुपदं सावरजस्य राज्ञः शिवं करणैरबाह्ययैराशंसन्ती मर्माणि नः कृन्तति॥

गुर्वाज्ञां परिपालयंल्लक्ष्मणः सीतां गहने विहास्यन् उद्यतवीचिहस्तया गङ्गया न्यवार्यतेति चार्वीमुत्प्रेक्षां सन्ददर्भ कविः। तद्यथा—

गुरोर्नियोगाद्वनितां वनान्ते

      साध्वीं सुमित्रातनयो विहास्यन्।

अवार्यतेवोत्थितवीचिहस्तै-

      र्जह्नोर्दुहित्रा स्थितया पुरस्तात्॥ (१४.५१)

अनेन “अकार्यं मा कुरु” इत्यवार्यत लक्ष्मण इति गम्यते। अत्र गङ्गायाः सीतापक्षपातः स्पुटं निशाम्यते। एवं सति पत्युरादेशं निशम्य वसुधायां पतयालवे जनकदुहित्रे तज्जनन्येव न प्रवेशं ददाविति विलक्षणमुवाद कालिदासः। तद्यथा—

इक्ष्वाकुवंशप्रभवः कथं त्वां

      त्यजेदकस्मात् पतिरार्यवृत्तः।

इति क्षितिः संशयितेव तस्यै

      ददौ प्रवेशं जननी न तावत्॥ (१४.५५)

अनेन हि प्रायः प्रकृतौ केचन सीतापक्षपातिनः केचिच्च रामपक्षपातिनः सम्भवन्तीति बभाण महाकविः। भगवान् वाल्मीकिः परमकारुणिकस्तु जानकीमनुनेतुं राममुपालभ्य, तां स्वाश्रममानीय, तदात्मजौ विधिवदुपनीय, ताभ्यां रामायणं पाठयित्वा, पुनरन्ते सीतायाः संपरिग्रहं वव्रे। एवम् आदिकविप्रदर्शितेन पथास्माभिः सर्तव्यमिति गूढं जगाद कालिदासः। स च पर्यन्ते भर्तृप्रणिहितेक्षणां क्षमातनयां प्रस्तुवन्नितरां ध्वनिपरम्पराः ससर्ज (१५.८४)। सर्वभावरुचिस्फीता सीतानयनतूलिका रचयामास किं चित्रमिति वक्तुं क ईशते॥

अयोध्यानगराधिदेवीविलापप्रकरणम्

कदाचिदर्धरात्रे स्तिमितप्रदीपे प्रोषितभर्तृकावेषा वनिता कापि कुशस्य शय्यागृहं प्रविवेश। तदनु कुशेन पूर्वार्धविसृष्टतल्पेन पृष्टा वीतनाथाम् अयोध्याधिदेवतां स्वां पर्यचाययत्। ततश्च पूर्वावस्थापेक्षया साद्यस्कां निजां हीनदशां कथयामास। अत्र विषमालङ्कारभूषितैः पद्यैः कञ्चिदपूर्वं शृङ्गारबीभत्सयोः परीपाकं सिषाधयिषति कालिदासः। तद्यथा—

निशासु भास्वत्कलनूपुराणां

      यः सञ्चरोऽभूदभिसारिकाणाम्।

नदन्मुखोल्काविचितामिषाभिः

      स वाह्यते राजपथः शिवाभिः॥ (१६.१२)

आस्फालितं यत्प्रमदाकराग्रै-

      र्मृदङ्गधीरध्वनिमन्वगच्छत्।

वन्यैरिदानीं महिषैस्तदम्भः

      शृङ्गाहतं क्रोशति दीर्घिकाणाम्॥ (१६.१३)

सोपानमार्गेषु च तेषु रामा

      निक्षिप्तवत्स्यश्चरणान्सरागान्।

सद्योहतन्यङ्कुभिरस्रदिग्धं

      व्याघ्रैः पदं तेषु निधीयते मे॥ (१६.१५)

स्तम्भेषु योषित्प्रतियातनाना-

      मुत्क्रान्तवर्णक्रमधूसराणाम्।

स्तनोत्तरीयाणि भवन्ति सङ्गा-

      न्निर्मोकपट्टाः फणिभिर्विमुक्ताः॥ (१६.१७)

अयोध्यायां वन्यजन्तवः स्वैरवृत्त्या विलेसुरित्यनेन तस्या निर्जनत्वं हैन्यं च ध्वन्यते। इतः स्फूर्तिं प्राप्य महाकवयित्री गङ्गादेवी स्वकाव्ये मधुराविजये वर्णनमीदृशमेव चारु चकार। यदुक्तं तयैव—

दासतां कालिदासस्य कवयः के न बिभ्रति।

इदानीमपि तस्यार्थानुपजीवन्त्यमी यतः॥ (मधुराविजयम्, १.७)

अतिथिप्रकरणम्

अतिथिरर्थविदां वरः शत्रवो बाह्याः सर्वथानित्या इति मनसिकृत्य रिपून् अभ्यन्तरानजयत्। अथ च कातर्यं केवला नीतिः शौर्यं श्वापदचेष्टितम् इत्युरसिकृत्य समेताभ्यामुभाभ्यां सिद्धिमन्वियेष। अमुं वर्णयितुकामेन कालिदासेन महदर्थशास्त्रवैशिष्ट्यम् उपस्थापितम्॥

स्पशजालं यथा—

परेषु स्वेषु च क्षिप्तैरविज्ञातपरस्परैः।

सोऽपसर्पैर्जजागार यथाकालं स्वपन्नपि॥ (१७.५१)

फलानुमेयप्रारम्भत्वं यथा—

भव्यमुख्याः समारम्भाः प्रत्यवेक्ष्या निरत्ययाः।

गर्भशालिसधर्माणस्तस्य गूढं विपेचिरे॥ (१७.५३)

दण्डयात्रा यथा—

शक्येष्वेवाभवद्यात्रा तस्य शक्तिमतः सतः।

समीरणसहायोऽपि नाम्भःप्रार्थी दवानलः॥ (१७.५६)

आत्मरन्ध्रावरणं पररन्ध्रप्रहरणं यथा—

परकर्मापहः सोऽभूदुद्यतः स्वेषु कर्मसु।

आवृणोदात्मनो रन्ध्रं रन्ध्रेषु प्रहरन् रिपून्॥ (१७.६१)

अग्निवर्णप्रकरणम्

अग्निवर्णः काश्चन समाः स्वाधिकारमवर्तयत्। पश्चादयमभिकः स्त्रीविधेयनवयौवनोऽभवत्। तमेनमेवंविधं परमोत्तानया शृङ्गारभङ्ग्या वर्णयति कालिदासः। अत्रत्येन शुचिपरिवेषेण निर्वेदभावः सहृदयेषु भृशमुद्भाव्यते। तद्यथा—

सातिरेकमदकारणं रह-

      स्तेन दत्तमभिलेषुरङ्गनाः।

ताभिरप्युपहृतं मुखासवं

      सोऽपिबद्बकुलतुल्यदोहदः॥ (१९.१२)

अङ्कमङ्कपरिवर्तनोचिते

      तस्य निन्यतुरशून्यतामुभे।

वल्लकी च हृदयङ्गमस्वना

      वल्गुवागपि च वामलोचना॥ (१९.१३)

लौल्यमेत्य गृहिणीपरिग्रहा-

      न्नर्तकीष्वसुलभासु तद्वपुः।

वर्तते स्म स कथञ्चिदालिख-

      न्नङ्गुलीक्षरणसन्नवर्तिकः॥ (१९.१९)

चुम्बने विपरिवर्तिताधरं

      हस्तरोधि रशनाविघट्टने।

विघ्नितेच्छमपि तस्य सर्वतो

      मन्मथेन्धनमभूद्वधूरतम्॥ (१९.२७)

अन्ते च क्षयरोगेण पीडितं विगतप्राणं तं व्याधिचिकित्सां व्याजीकृत्य प्रदीप्ते पावके पुरोधःपुरःसरा मन्त्रिणो गुप्तं निदधिरे। तद्यथा— 

तं गृहोपवन एव सङ्गताः

      पश्चिमक्रतुविदा पुरोधसा।

रोगशान्तिमपदिश्य मन्त्रिणः

      सम्भृते शिखिनि गूढमादधुः॥ (१९.५४)

इत्थम् अविगीतयशःस्तोमसमन्वितनृपावलीविवर्धितरसे वंशे जातो गूढमगान्मृतिम्। तदिदम् अतिमात्रसुदुःसहं वास्तवं कविकुलगुरुः स्तोकमपि न विकारमुपेयुषा मनसा वर्णयामास। इदं च तेन चटुलोत्साहगतिजुषा रथोद्धतावृत्तेन व्यरचीति चिरं विस्मयतां भजते रसिकवृन्दम्॥

शब्दालङ्कारनिवेशः

अर्थप्रधाना रीतिः कालिदासीया। अथाप्यस्यां पदपेशलता स्थाने समृद्धिमृच्छति। समानश्रुतिमतां पदानां प्रयोगः कालिदासाय रोचतेतराम्। रघुकारः सर्वानप्यनुप्रासप्रभेदान् सलीलं प्रयुङ्क्ते। तत्रापि लाटानुप्रासे बद्धादरः। क्वचिद्यमकमुखानपि प्रयत्नसिद्धान् शब्दालङ्कारानसौ निबध्नाति, यथा दशरथमृगयाप्रकरणे नवमसर्गे। परम् अतिनिर्वहणैषिता नैकत्रापि लक्ष्यते। इदृशाः केचन प्रयोगाः सुमेधसां चेतश्चमत्क्रियार्थमिह सङ्गृह्यन्ते। तद्यथा—

स दुष्प्रापयशाः प्रापदाश्रमं श्रान्तवाहनः।

सायं संयमिनस्तस्य महर्षेर्महिषीसखः॥ (१.४८)

तस्मै सभ्याः सभार्याय गोप्त्रे गुप्ततमेन्द्रियाः।

अर्हणामर्हते चक्रुर्मुनयो नयचक्षुषे॥ (१.५५)

अथ प्रदोषे दोषज्ञः संवेशाय विशां पतिम्।

सूनुः सूनृतवाक्स्रष्टुर्विससर्जोदितश्रियम्॥ (१.९३)

ततो मृगेन्द्रस्य मृगेन्द्रगामी

      वधाय वध्यस्य शरं शरण्यः।

जाताभिषङ्गो नृपतिर्निषङ्गा-

      दुद्धर्तुमैच्छत्प्रसभोद्धृतारिः॥ (२.३०)

तमार्यगुह्यं निगृहीतधेनु-

      र्मनुष्यवाचा मनुवंशकेतुम्।

विस्माययन् विस्मितमात्मवृत्तौ

      सिंहोरुसत्त्वं निजगाद सिंहः॥ (२.३३)

पुरन्दरश्रीः पुरमुत्पताकं

      प्रविश्य पौरैरभिनन्द्यमानः।

भुजे भुजङ्गेन्द्रसमानसारे

      भूयः स भूमेर्धुरमाससञ्ज॥ (२.७४)

स पूर्वतः पर्वतपक्षशातनं ददर्श देवं नरदेवसम्भवः॥ (३.४२)

स्तुत्यं स्तुतिभिरर्थ्याभिरुपतस्थे सरस्वती॥ (४.६)

स मृण्मयं वीतहिरण्मयत्वात्

      पात्रे निधायार्घ्यमनर्घशीलः।

श्रुतप्रकाशं यशसा प्रकाशः

      प्रत्युज्जगामातिथिमातिथेयः॥ (५.२)

तमर्चयित्वा विधिवद्विधिज्ञ-

      स्तपोधनं मानधनाग्रयायी।

विशां पतिर्विष्टरभाजमारात्

      कृताञ्जलिः कृत्यविदित्युवाच॥ (५.३)

असौ शरण्यः शरणोन्मुखाना-

      मगाधसत्त्वो मगधप्रतिष्ठः।

राजा प्रजारञ्जनलब्धवर्णः

      परन्तपो नाम यथार्थनामा॥ (६.२१)

सम्बन्धिनः सद्म समाससाद॥ (७.१६)

अधिकं शुशुभे शुभंयुना

      द्वितयेन द्वयमेव सङ्गतम्।

पदमृद्धमजेन पैतृकं

      विनयेनास्य नवं च यौवनम्॥ (८.६)

यमवतामवतां च धुरि स्थितः॥ (९.१)

शमरतेऽमरतेजसि पार्थिवे॥ (९.४)

महीनमहीनपराक्रमम्॥ (९.५)

गजवती जवतीव्रहया चमूः॥ (९.१०)

शतमखं तमखण्डितपौरुषम्॥ (९.१३)

पृथिवीं शासतस्तस्य पाकशासनतेजसः।

किञ्चिदूनमनूनर्द्धेः शरदामयुतं ययौ॥ (१०.१)

भोगिभोगासनासीनं ददृशुस्ते दिवौकसः॥ (१०.७)

कृच्छ्रलब्धमपि लब्धवर्णभाक्॥ (११.२)

तौ विदेहनगरीनिवासिनां

      गां गताविव दिवः पुनर्वसू॥ (११.३६)

सा पौरान् पौरकान्तस्य॥ (१२.३)

द्विषामामिषतां ययौ॥ (१२.११)

प्रियोपभोगचिह्नेषु पौरोभाग्यमिवाचरन्॥ (१२.२२)

अथात्मनः शब्दगुणं गुणज्ञः

      पदं विमानेन विगाहमानः। (१३.१)

अदः शरण्यं शरभङ्गनाम्न-

      स्तपोवनं पावनमाहिताग्नेः। (१३.४५)

स किंवदन्तीं वदतां पुरोगः

      स्ववृत्तमुद्दिश्य विशुद्धवृत्तः।

सर्पाधिराजोरुभोजोऽपसर्पं

      पप्रच्छ भद्रं विजितारिभद्रः॥ (१४.३१)

उपकूलं स कालिन्द्याः पुरीं पौरुषभीषणः।

निर्ममे निर्ममोऽर्थेषु मथुरां मधुराकृतिः॥ (१५.२८)

अथोपशल्ये रिपुमग्नशल्य-

      स्तस्याः पुरः पौरसखः स राजा।

कुलध्वजस्तानि चलद्ध्वजानि

      निवेशयामास बली बलानि॥ (१६.३७)

त्रैलोक्यनाथप्रभवं प्रभावात्

      कुशं द्विषामङ्कुशमस्त्रविद्वान्।

मनोन्नतेनाप्यभिवन्द्य मूर्ध्ना

      मूर्धाभिषेकं कुमुदो बभाषे॥ (१६.८१)

जात्यस्तेनाभिजातेन शूरः शैर्यवता कुशः।

अमन्यतैकमात्मानमनेकं वशिना वशी॥ (१७.४)

अयोध्यादेवताश्चैनं प्रशस्तायतनार्चिताः।

अनुदध्युरनुध्येयं सान्निध्यैः प्रतिमागतैः॥ (१७.३६)

पौत्रः कुशस्यापि कुशेशयाक्षः

      ससागरां सागरधीरचेताः।

एकातपत्रां भुवमेकवीरः

      पुरार्गलादीर्घभोजो बुभोज॥ (१८.४)

अग्निवर्णमभिषिच्य राघवः

      स्वे पदे तनयमग्नितेजसम्।

शिश्रिये श्रुतवतामपश्चिमः

      पश्चिमे वयसि नैमिषं वशी॥ (१९.१)

छन्दः शब्दालङ्कारेषु भवत्यन्तर्गत इति भोजदेवो बभाण। तस्मादिहैव कालिदासीयच्छन्दोविचितिसरसि किञ्चिदवगाहेमहि। रघुवंशे अनुष्टुप्श्लोक-प्रहर्षिणी-उपजाति-इन्द्रवज्रा-मालिनी-वंशस्थ-हरिणी-उपेन्द्रवज्रा-वसन्ततिलका-पुष्पिताग्रा-वियोगिनी-तोटक-मन्दाक्रान्ता-द्रुतविलम्बित-शालिनी-औपच्छन्दसिक-रथोद्धता-मञ्जुभाषिणी-स्वागता-मत्तमयूर-नाराचनामकानि च्छन्दांसि प्रयुक्तानि कालिदासेन। नैकमपि वृत्तं दुर्विनियुक्तम्। रथोद्धता-द्रुतविलम्बितमुखानि च्छन्दांस्यत्रैव प्राथम्येन प्रयुक्तानीति प्रास्तावि पूर्वमेवास्माभिः। छन्दोगतिमर्म जानता कालिदासेन प्रतिसर्गमन्ते समुचितं वृत्तं विनियुज्यते। महाकाव्यप्रणयनार्थं यानि भूयस्तरामुपकुर्वते छन्दांसि तान्येव कविना समादृतानि। तत्राप्यनुष्टुप्श्लोके तथोपजातौ महती रतिः कालिदासस्य। वृत्तद्वयमिदं सर्वक्षममिति च्छन्दोविदां न परोक्षम्। अजविलापं भावार्द्रया भङ्ग्या वर्णयितुं वियोगिन्यितरद्वृत्तं किमपि न सर्वथा शक्नोति। अथ च भार्याविप्रयोगाच्चिरदुःखितमजं यदा वसिष्ठः स्वोपदेशैः सान्त्वयितुं प्रायतिष्ट तदा तद्वचांसि न मनागपि चित्तमजस्य प्रविविशुरिति वक्तुं तोटकाभिधं दुर्ललितगतियुतं सतानवृत्तम् उपयुनक्ति कालिदासः (८.९१)। इत्थमग्निवर्णस्य रभसोद्वेलं लाम्पट्यं वर्णयितुकामः सुतरां तीव्रोद्दामगतियुतं रथोद्धतावृत्तं विनियुनक्ति। एवमन्यादृशं छन्दोहृदयज्ञानं कविकुलगुरोः॥

अर्थान्तरन्यासविनिवेशः

कालिदासस्तु महाञ्जीवनरसिकः। यथा तस्य शास्त्रेष्वकुण्ठिता बुद्धिस्तथा कलासु सकलासु निर्निबन्धा भावगतिरासीत्। तत्तादृश एव देशकालवस्तुपरिच्छेदातिशायिनीम् अर्थान्तरन्यासशोभाम् आतन्वीत। रघुवंशं हि कालिदासस्य सर्वोत्कृष्टा रचनेति कारणादत्र भूयांसः सन्त्यर्थान्तरन्यासालङ्काराः। ततः केचिदुद्ध्रियन्ते यथा—

हेम्नः संलक्ष्यते ह्यग्नौ विशुद्धिः श्यामिकापि वा (१.१०), सहस्रगुणमुत्स्रष्टुमादत्ते हि रसं रविः (१.१८), प्रतिबध्नाति हि श्रेयः पूज्यपूजाव्यतिक्रमः (१.७९), भक्त्योपपन्नेषु हि तद्विधानां प्रसादचिह्नानि पुरःफलानि (२.२२),  सम्बन्धमाभाषण-पूर्वमाहुः (२.५८), क्रिया हि वस्तूपहिता प्रसीदति (३.२९), प्रणिपातप्रतीकारः संरम्भो हि महात्मनाम् (४.६४), आदानं हि विसर्गाय सतां वारिमुचामिव (४.८६), भिन्नरुचिर्हि लोकः (६.३०), मनो हि जन्मान्तरसङ्गतिज्ञम् (७.१५), प्रतिकारविधानमायुषः सति शेषे हि फलाय कल्पते (८.४०), अपथे पदमर्पयन्ति हि श्रुतवन्तोऽपि रजोनिमीलिताः (९.७४), अव्याक्षेपो भविष्यन्त्याः कार्यसिद्धेर्हि लक्षणम् (१०.६), तेजसां हि न वयः समीक्ष्यते (११.१), काले खलु समारब्धाः फलं बध्नन्ति नीतयः (१२.६९), प्रह्वेष्वनिर्बन्धरुषो हि सन्तः (१६.८०), वयोरूपविभूतीनामेकैकं मदकारणम् (१७.४३)॥

उपमा कालिदासस्य

यथा महाज्ञानी सर्वेषु चराचरवस्तुषु आत्मौपम्यमनुभवति तथा महाकविः सर्वेषु तेषु औपम्यमनुभवति। कालिदासो हि महाकविः। तस्मात्तस्य सादृश्यमूल उपमालङ्कारः प्रियतमः। तादृशः कोऽपि कविर्नास्ति यः कालिदास इव स्वोपज्ञं सूक्ष्मपरिशीलनफलं जीवनानुभवसम्पदूर्जितं चोपमानिकुरुम्बकं निर्मातुमीष्टे। उपमासु कविकुलगुरुनिर्मितासु वयं प्रकृतिं, मानवस्वभावं, विविधानि शास्त्राणि, सुविपुलाः कलाः, सांस्कृतिकविच्छित्तीश्च साक्षात्कर्तुं शक्नुयाम। रघुवंशमहाकाव्ये तावदुपमाया विश्वरूपं दरीदृश्यते। अत्रत्या पुनरुपमा किंस्वरूपेति पृच्छायां कालिदासरचितमेव पद्यं समाधत्ते—

सर्वोपमाद्रव्यसमुच्चयेन

      यथाप्रदेशं विनिवेशितेन।

सा निर्मिता विश्वसृजा प्रयत्ना-

      देकस्थसौन्दर्यदिदृक्षयेव॥ (कुमारसम्भवम्, १.४९)

यद्यपि महती पद्यचिचीषा तत्परिचिचीषा च नः। अथापि स्थलाभावादुपमालङ्काराः केचन एवात्र प्रस्तूयन्ते। अनन्तपारं हि पद्यनक्षत्रजालम्। तत्र यन्नयनपथमवतरति नस्तदेव निरूप्यते॥

प्रकृतिमूला उपमा—

पुरस्कृता वर्त्मनि पार्थिवेन

      प्रत्युद्गता पार्थिवधर्मपत्न्या।

तदन्तरे सा विरराज धेनु-

      र्दिनक्षपामध्यगतेव सन्ध्या॥ (२.२०)

सामान्यतया दिलीपः पाण्डरवसनधरः सुदक्षिणा च नीलवासोविभूषिता। तयोर्मध्ये नन्दिनी पल्लवस्निग्धपाटला गौः सन्ध्येव दिनक्षपान्तरालस्थिता विरराज। अनेन हि तदा भगवती सन्ध्या समुदितेति ध्वन्यते॥

सा किलाश्वसिता चण्डी भर्त्रा तत्संश्रुतौ वरौ।

उद्ववामेन्द्रसिक्ता भूर्बिलमग्नाविवोरगौ॥ (१२.५)

दशरथेन दत्तं वरद्वयं कैकेयी यदा चकमे तदा सेयमुपमा प्रोक्ता। निदाघपीडिताः सर्पाः खलु वसुधान्तर्लग्नाः पश्चाद्वृष्टमात्रे देवे बहिरायान्ति। उरगोपमानेन कैकेयीकामितस्य वरद्वितयस्य विषत्वमसुखत्वं च व्यज्यते॥

लोकमूला उपमा—

आपादपद्मप्रणताः कलमा इव ते रघुम्।

फलैः संवर्धयामासुरुत्खातप्रतिरोपिताः॥ (४.३७)

कलमास्तावदुप्ताः पुनरुत्खाताः प्रतिरोपिताश्च भूयसा फलेग्रहितां यान्ति। एवं रघुणा समुत्खाताः पार्थिवाः स्वस्थानेषु पुनः प्रतिष्ठापिताश्च तं फलैः संवर्धयामासुः॥

सा पौरान् पौरकान्तस्य रामस्याभ्युदयश्रुतिः।

प्रत्येकं ह्लादयाञ्चक्रे कुल्येवोद्यानपादपान्॥ (१२.३)

उद्याने प्रसरज्जलमयी कुल्या प्रत्येकं पादपं सलिलसेकेन सन्तोषयति। अभ्युदयश्रुतिरपि रामस्य कुल्येव पादपभूतान् पौरान् प्रत्येकं ह्लादयाम्बभूव। अत्र पौरा एव परस्परं रामाभ्युदयं कीर्तयन्तः परां मुदमापुरिति वक्रमार्गेण कथितम्॥

पुराणमूला उपमा—

प्रदक्षिणप्रक्रमणात्कृशानो-

      रुदर्चिषस्तन्मिथुनं चकासे।

मेरोरुपान्तेषिव वर्तमान-

      मन्योन्यसंसक्तमहस्त्रियामम्॥ (७.२४)

स्वर्णकायं मेरुं सर्वाण्यपि ज्योतींषि प्रदक्षिणीकुर्वन्तीति पुराणविदां न तिरोहितम्। तदुपान्ते तावदन्योन्यसंसक्तमिव भाति दिनक्षपायुगलम्। इन्दुमत्या साकमजो यदा पाणिपीडनकर्मणि प्रज्वलन्तमग्निं प्रदक्षिणीचकार तदा तन्मिथुनं मेरोः समीपे वर्तमानमहस्त्रियाममिव बभासे। इदं पद्यं कुमारसम्भवे च यथावल्लभ्यते (७.७९)॥ 

निर्वर्त्यैवं दशमुखशिरश्छेदकार्यं सुराणां

      विष्वक्सेनः स्वतनुमविशत् सर्वलोकप्रतिष्ठाम्।

लङ्कानाथं पवनतनयं चोभयं स्थापयित्वा

      कीर्तिस्तम्भद्वयमिव गिरौ दक्षिणे चोत्तरे च॥ (१५.१०३)

सम्पन्नतां स्वावतारस्य मन्वानः श्रीरामस्तु विभीषणहनूमन्तौ त्रिकूटाचलप्रालेयाचलयोः कीर्तिस्तम्भरूपिणौ स्थापयामास। आञ्जनेयविभीषणौ चिरञ्जीविनौ। अतः कल्पान्तं यावद् रामस्य लोकम्पृणा कीर्तिः स्थास्यतीति ध्वनितोऽर्थः॥

नीतिमूला उपमा—

द्वेष्योऽपि सम्मतः शिष्टस्तस्यार्तस्य यथौषधम्।

त्याज्यो दुष्टः प्रियोऽप्यासीदङ्गुलीवोरगक्षता॥ (१.२८)

रिपुमपि शिष्टं पुरस्कुर्यात्, प्रियमपि दुष्टं तिरस्कुर्यादिति विवक्षुः कालिदास उपमाद्वयं स्वरसरुचिरं रचयामास॥

वन्यवृत्तिरिमां शश्वदात्मानुगमनेन गाम्।

विद्यामभ्यसनेनैव प्रसादयितुमर्हसि॥ (१.८८) 

नन्दिनीं सेवितुकामं दिलीपं भगवान् वसिष्ठ इत्थं बोधयति। “शास्त्रं स्वधीतमपि तत् परिचिन्तनीयम्” इतीदम् “आवृत्तिः सर्वशास्त्राणां बोधादपि गरीयसी” इतीदं च सुभाषितशकलमत्रानुसन्धेयम्॥

अमूर्ततत्त्वमूला उपमा—

प्रलोभिताप्याकृतिलोभनीया

      विदर्भराजावरजा तयैवम्।

तस्मादपावर्तत दूरकृष्टा

      नीत्येव लक्ष्मीः प्रतिकूलदैवात्॥ (६.५८)

यस्मिन् दैवतं न प्रसन्नं तस्माल्लक्ष्मीः पुरुषकारेण प्रलोभितापि प्रतिनिवर्तते। तथा सुनन्दया प्रचोदितापि विदर्भराजावरजा हेमाङ्गदराजादपावर्तत। अत्र सुनन्दा पुरुषकारतुल्या, हेमाङ्गदः प्रतिकूलदैवसदृशः, इन्दुमती च लक्ष्मीसन्निभेति निष्कर्षः। अपूर्वेयमुपमा॥

इतस्ततश्च वैदेहीमन्वेष्टुं भर्तृचोदिताः।

कपयश्चेरुरार्तस्य रामस्येव मनोरथाः॥ (१२.५९)

यथा तावदार्तं मनः सर्वत्र सत्वरं प्रसरति तथा सीतामन्वेष्टुकामाः कपयः सर्वासु दिक्षु विचेरुः। अत्यन्तं मनोज्ञेयमुपमा॥

शास्त्रमूला उपमा—

काप्यभिख्या तयोरासीद्व्रजतोः शुद्धवेषयोः।

हिमनिर्मुक्तयोर्योगे चित्राचन्द्रमसोरिव॥ (१.४६)

वसिष्ठाश्रमं यास्यतोर्दिलीपसुदक्षिणयोः काचिदनन्या शोभावर्तत। सा च शिशिरावसाने चित्राचन्द्रमसोरिव बभूव। शिशिरात्यये तावच्चैत्रमासो विराजते। तदा हि गगनं सुविशदं परिलक्ष्यते। चैत्रमासस्य पूर्णिमायां चित्रानक्षत्रमवश्यं भवति। अनेन दिलीपस्य पूर्णचन्द्रत्वं व्यज्यते। महाञ्ज्योतिर्वित् कालिदास उपमामीदृशीं सन्ददर्भेति किमत्र चित्रम्॥

ता नराधिपसुता नृपात्मजै-

      स्ते च ताभिरगमन् कृतार्थताम्।

सोऽभवद्वरवधूसमागमः

      प्रत्ययप्रकृतियोगसन्निभः॥ (११.५६)

दशरथपुत्रैः सह जनककन्यकानां समागमः प्रत्ययप्रकृतियोगसन्निभो बभूवेति व्याकृतिचमत्कृतिभूषितेयम् उपमा। प्रत्ययः प्रकृतिर्वा न स्वातन्त्र्येण सार्थकतामेति। अतस्तयोः सहयोगित्वमपेक्षितम्। इत्थं वधूवरसमागमः समभूदिति कथनमतितरां रमणीयम्॥

उपसंहारः

पुरुषार्थचतुष्टयप्रतिपादकं रघुवंशं हि राष्ट्रियं महाकाव्यं नः। बलिनो बाध्यता परमावश्यकी, यदि कश्चन सम्पन्मूलसमन्वितो बली बाध्यतारहितः स्यात्तर्हि दुरुद्धरा तत्तिरोगतिरिति बोधयति कालिदासः। रघुवंशं व्युत्पित्सून् व्युत्पन्नांश्च सममेव रञ्जयति निरञ्जयति च। संस्कृतेन व्यवजिहीर्षवः कवीबुभूषवश्च पद्यान्यत्रत्यानि कण्ठस्थानि यदि कुर्युः सङ्कल्पस्तेषां ध्रुवं सेत्स्यति। अवश्यमध्येयमिदं काव्यं जीवनरसिकैः सर्वैरिति सर्वं शिवम्॥ 

॥ सरस्वत्यास्तत्त्वं कविसहृदयाख्यं विजयते॥



[1] यदालोके सूक्ष्मं भजति सहसा तद्विपुलतां

            यदर्धे विच्छिन्नं भवति कृतसन्धानमिव तत्।

प्रकृत्या यद्वक्रं तदपि समरेखं नयनयो-

            र्न मे दूरे किञ्चित् क्षणमपि न पार्श्वे रथजवात्॥ (अभिज्ञानशाकुन्तलम्, १.९)

शैलानामवरोहतीव शिखरादुन्मज्जतां मेदिनी

            पर्णाभ्यन्तरलीनतां विजहति स्कन्धोदयात्पादपाः।

सन्धानं तनुभागनष्टसलिलव्यक्त्या व्रजन्त्यापगाः

            केनाप्युत्क्षिपतेव पश्य भुवनं मत्पार्श्वमानीयते॥ (अभिज्ञानशाकुन्तलम्, ७.८)

 

Author(s)

About:

Shashi Kiran B N holds a bachelor’s degree in Mechanical Engineering and a master's degree in Sanskrit. His interests include Indian aesthetics, Hindu scriptures, Sanskrit and Kannada literature, and philosophy. A literary aficionado, Shashi enjoys composing poetry set to classical meters in Sanskrit. He co-wrote a translation of Śatāvadhāni Dr. R Ganesh’s Kannada work Kavitegondu Kathe.

Prekshaa Publications

Prekṣaṇīyam is an anthology of essays on Indian classical dance and theatre authored by multifaceted scholar and creative genius, Śatāvadhāni Dr. R Ganesh. As a master of śāstra, a performing artiste (of the ancient art of Avadhānam), and a cultured rasika, he brings a unique, holistic perspective...

Yaugandharam

इदं किञ्चिद्यामलं काव्यं द्वयोः खण्डकाव्ययोः सङ्कलनरूपम्। रामानुरागानलं हि सीतापरित्यागाल्लक्ष्मणवियोगाच्च श्रीरामेणानुभूतं हृदयसङ्क्षोभं वर्णयति । वात्सल्यगोपालकं तु कदाचिद्भानूपरागसमये घटितं यशोदाश्रीकृष्णयोर्मेलनं वर्णयति । इदम्प्रथमतया संस्कृतसाहित्ये सम्पूर्णं काव्यं...

Vanitakavitotsavah

इदं खण्डकाव्यमान्तं मालिनीछन्दसोपनिबद्धं विलसति। मेनकाविश्वामित्रयोः समागमः, तत्फलतया शकुन्तलाया जननम्, मातापितृभ्यां त्यक्तस्य शिशोः कण्वमहर्षिणा परिपालनं चेति काव्यस्यास्येतिवृत्तसङ्क्षेपः।

Vaiphalyaphalam

इदं खण्डकाव्यमान्तं मालिनीछन्दसोपनिबद्धं विलसति। मेनकाविश्वामित्रयोः समागमः, तत्फलतया शकुन्तलाया जननम्, मातापितृभ्यां त्यक्तस्य शिशोः कण्वमहर्षिणा परिपालनं चेति काव्यस्यास्येतिवृत्तसङ्क्षेपः।

Nipunapraghunakam

इयं रचना दशसु रूपकेष्वन्यतमस्य भाणस्य निदर्शनतामुपैति। एकाङ्करूपकेऽस्मिन् शेखरकनामा चित्रोद्यमलेखकः केनापि हेतुना वियोगम् अनुभवतोश्चित्रलेखामिलिन्दकयोः समागमं सिसाधयिषुः कथामाकाशभाषणरूपेण निर्वहति।

Bharavatarastavah

अस्मिन् स्तोत्रकाव्ये भगवन्तं शिवं कविरभिष्टौति। वसन्ततिलकयोपनिबद्धस्य काव्यस्यास्य कविकृतम् उल्लाघनाभिधं व्याख्यानं च वर्तते।

Karnataka’s celebrated polymath, D V Gundappa brings together in the third volume, some character sketches of great literary savants responsible for Kannada renaissance during the first half of the twentieth century. These remarkable...

Karnataka’s celebrated polymath, D V Gundappa brings together in the second volume, episodes from the lives of remarkable exponents of classical music and dance, traditional storytellers, thespians, and connoisseurs; as well as his...

Karnataka’s celebrated polymath, D V Gundappa brings together in the first volume, episodes from the lives of great writers, poets, literary aficionados, exemplars of public life, literary scholars, noble-hearted common folk, advocates...

Evolution of Mahabharata and Other Writings on the Epic is the English translation of S R Ramaswamy's 1972 Kannada classic 'Mahabharatada Belavanige' along with seven of his essays on the great epic. It tells the riveting...

Shiva-Rama-Krishna is an English adaptation of Śatāvadhāni Dr. R Ganesh's popular lecture series on the three great...

Bharatilochana

ಮಹಾಮಾಹೇಶ್ವರ ಅಭಿನವಗುಪ್ತ ಜಗತ್ತಿನ ವಿದ್ಯಾವಲಯದಲ್ಲಿ ಮರೆಯಲಾಗದ ಹೆಸರು. ಮುಖ್ಯವಾಗಿ ಶೈವದರ್ಶನ ಮತ್ತು ಸೌಂದರ್ಯಮೀಮಾಂಸೆಗಳ ಪರಮಾಚಾರ್ಯನಾಗಿ  ಸಾವಿರ ವರ್ಷಗಳಿಂದ ಇವನು ಜ್ಞಾನಪ್ರಪಂಚವನ್ನು ಪ್ರಭಾವಿಸುತ್ತಲೇ ಇದ್ದಾನೆ. ಭರತಮುನಿಯ ನಾಟ್ಯಶಾಸ್ತ್ರವನ್ನು ಅರ್ಥಮಾಡಿಕೊಳ್ಳಲು ಇವನೊಬ್ಬನೇ ನಮಗಿರುವ ಆಲಂಬನ. ಇದೇ ರೀತಿ ರಸಧ್ವನಿಸಿದ್ಧಾಂತವನ್ನು...

Vagarthavismayasvadah

“वागर्थविस्मयास्वादः” प्रमुखतया साहित्यशास्त्रतत्त्वानि विमृशति । अत्र सौन्दर्यर्यशास्त्रीयमूलतत्त्वानि यथा रस-ध्वनि-वक्रता-औचित्यादीनि सुनिपुणं परामृष्टानि प्रतिनवे चिकित्सकप्रज्ञाप्रकाशे। तदन्तर एव संस्कृतवाङ्मयस्य सामर्थ्यसमाविष्कारोऽपि विहितः। क्वचिदिव च्छन्दोमीमांसा च...

The Best of Hiriyanna

The Best of Hiriyanna is a collection of forty-eight essays by Prof. M. Hiriyanna that sheds new light on Sanskrit Literature, Indian...

Stories Behind Verses

Stories Behind Verses is a remarkable collection of over a hundred anecdotes, each of which captures a story behind the composition of a Sanskrit verse. Collected over several years from...