भावस्थिराणि जननान्तरसौहृदानि

[अयं हि शतावधानिना आर्यगणेशेन कन्नडभाषया लिखितस्य कस्यचन लेखस्य सङ्क्षिप्तोऽनुवादः।]

नैतत्तिरोहितं कलाभिज्ञानां यन् मोनालिसाया निगूढो मन्दहासः कश्चिदनेकेषां व्याख्यानानां विषयीभूत इति। एवमेव ह्याम्लेट्नामकस्य द्वन्द्वनिष्ठः कश्चन विलक्षणः स्वभावो नैकविश्लेषणपात्रीभूतः। इत्थं च बेलूरुनगरस्था मुकुरमुग्धाभिधा शिलाबालिका निजास्यगतेन केनचिन्म्लानोत्तरेण भावेन भूयसा विमर्शविषयीकृता। अनयैव रीत्या नाटकानां प्राग्रहरस्य तावदभिज्ञानशाकुन्तलस्य पद्येष्वन्यतमं व्याख्याभिरनेकाभिः परिभूषितं विलसति। तच्च पद्यमिदम्—

रम्याणि वीक्ष्य मधुरांश्च निशम्य शब्दान्

पर्युत्सुकी भवति यत्सुखितोऽपि जन्तुः।

तच्चेतसा स्मरति नूनमबोधपूर्वं

भावस्थिराणि जननान्तरसौहृदानि॥

अस्य पद्यस्यान्तरम् अर्थम् उद्घाटयितुकामा अनेके पण्डिताः सुबहुनानेहसा प्रायतिषत, अधुना च सन्ति प्रयतमानाः।

अस्याशयस्तु विशद एव। कलास्वादावसरे सहृदयैः कश्चन मधुरो विषादः समनुभूयते। तत्तादृशमनुभवम् आकलयता जीविना जन्मान्तरगताः प्रीतिभूमिकाः स्मर्यन्ते। इमाश्च प्रीतिभूमिका नाद्यावधि जीविनः संविद्गोचराः, किन्तु तद्भावकोशे सुस्थिरमुपस्थिताः। 

अत्र केचन प्रत्यवतिष्ठेरन्। किं जन्मान्तरस्य स्नेहस्य स्मृतिर्या भावस्थिरा वरीवर्ति सा पर्युत्सुकत्वमुपजनयति? उताहो पर्युत्सुकत्वेनैव तादृशी स्मृतिरुद्भाव्यते? अथ च तदेतत्पर्युत्सुकत्वं कथं प्रादुर्भवति? किंलक्षणमेतत्? एवं च जन्मान्तरगता प्रीतिर्नाम कैषा? तस्याः स्मृतिः केवलं कलास्वादावसरे स्फारीभवतीत्यत्र गमकं किम्? सा च स्मृतिः कथङ्कारमुदेति? इत्येवं भवेयुस्तेषां प्रश्नपरम्पराः। तन्न्यक्षेण वक्ष्यते।

दुर्वासःशापभाजा दुष्यन्तेन शकुन्तला यद्यपि विस्मृता। अथापि तदन्तरङ्गस्य मूले शकुन्तलायाः प्रीतिस्मृतिः स्निग्धतामात्ररूपिणी प्रोज्झितोपाधिरवर्तत। स्मृत्या सार्धं तद्धेतोः स्नेहस्य परमाधिष्ठात्री शकुन्तला स्वस्माद्विरहितेति ज्ञानं चासीत् सुप्तरूपेण। अनेन हि विषण्णो दुष्यन्तः। दुष्यन्तवेदनायाः सावयवं स्पष्टं च विवरणं कालिदासस्य प्रसङ्गोचितमुद्देश्यम्। एतावतैव किन्तु नावसीयते वैशिष्ट्यं पद्यस्यास्य। यतो हि नैतद् एतत्प्रसङ्गमात्रपर्यवसायि। पात्रातीतः प्रसङ्गातीतश्च वर्तत एव तन्महिमा। निबद्धा अनिबद्धा वा महाकविमुखोद्गताः सूक्तयस्तन्वते भूयो रसध्वनिपरम्पराम्। तस्मादेवास्य पद्यस्य प्राशस्त्यमियद्वर्तते।

लोकव्यवहारेषु कार्यकारणभावनिष्ठतर्कविवृतेषु बहुधास्माभिरेवं चिन्त्यते यत् सुखजनयितृभिः पदार्थैः सुखमेव भवेद्दुःखजनयितृभिः पदार्थैः केवलं दुःखमिति। किन्तु तर्कोऽयम् अप्रतिष्ठितः। कस्मिंश्चिदतिसूक्ष्मे स्तरे तर्कोऽसौ तिरोभवति। यद्यपि जगदेतत्सत्यमिव भासते। अथापि न तत्पारमार्थिकमिति वेदान्तविदः समामनन्ति। एवमेव रम्याणि वीक्ष्य मधुरांश्च निशम्य शब्दानस्माभिः सुखवर्जं पर्युत्सुकत्वमनुभूयते। नैतावता रम्यं चित्रमचारु सम्पन्नं, मधुरः शब्दः कर्कशतामगादिति भाव्यम्। स्वार्थैकदृशा विश्वं यदि वयं विलोकयेम तर्हि रम्यत्वात्सुखम् अरम्यत्वाच्च दुःखं प्राप्यते। निःस्वार्थया दृशा समास्वादिते सति विश्वे सुतरामन्य एवानुभवो लभ्यते। तदा केवलमानन्द एवावतिष्ठते। इत्थङ्कारं निःस्वार्थया दृशा निर्मलेन च प्रेम्णा जगद् विलोकितुं योगसाधनेन विना दुःशकम्। एतत्साधनमाकलयितुं सन्ति बहवः पन्थानः। तेषु तावदन्यतमः कलायोगः। कलाजन्यं सौन्दर्यं सर्वैः सहृदयैः सुलभतयास्वाद्यते। कलात्वेन परिणते वस्तुनि मनागपि नावशिष्यते कुरूपता कर्कशता वा। कलायां सर्वः सुन्दरः सकलश्च मधुरः। कलास्वादनवेलायां जागरिते स्वार्थे झटित्यन्तर्दधाति कला। इदं च सत्यं यत्तादृशे काले न स्वार्थो जागर्ति प्रकृतिस्थे सहृदये। चित्रगतं सरः समीक्ष्य यः पिपासुर्भवति, यश्च तस्मिन्मिमङ्क्षति नायं सहृदयः। आनन्दहानिरवश्यं तस्य जायते। तस्मादनुपस्कृतः कलानन्दः सुतराम् इन्द्रियगम्यप्रयोजनातीतः।          

अनया रीत्या परिभाव्यमानायां कलायाम्, अस्मासु जडतोद्भिन्नं तमः स्वार्थोद्यमस्य कारणं रजश्च विलीय केवलं संवेदनात्मकं सत्त्वं पक्त्रिमं भवति। क्रमशो बलाधिक्यमुपेयुषा सत्त्वेनैव सर्वे कार्यकारणभावास्त्रिपुटीजन्याः क्लेशाश्च तिरस्क्रियन्ते। तदा हि स्वयमुद्भवति निर्लिप्तिः, निर्वेदः, निरीहता च। यस्यामवस्थायां सर्वा आशा विनश्यन्ते साक्षिभावस्य भूमता चोत्कृष्टा भवति, सैव कालिदासेन पर्युत्सुकतेति व्यपदिष्टा। पश्चात्त्याः कवयस्तामेनां दशां ‘melancholy’ इत्याचचक्षिरे।

एतादृक्षोऽनुभवः सर्वथा भव्योज्ज्वलां प्रकृतिम् (निसर्गमिति यावत्) ईक्षमाणैः सर्वैरस्माभिरनुभूयते। प्रकृतेः सान्निध्ये वाञ्छनीया काचिन्मनःखिन्नतास्मासु पदं कुरुते। एनाम् अलौकिकीं जिहासां दिव्यां जुगुप्सां वा कथयितुमलम्। तदवसरे निजामल्पतां दूरतः परिहर्तुं प्रेरणा काचिन्नः समिन्धे। भूम्ना सार्धमैक्यं साधयितुं स्फूर्तिश्च स्फुरति।

धीमतां धौरेयो डि. वि. गुण्डप्पवर्यः स्वीये परशुरामसञ्ज्ञिते कन्नडरूपके जमदग्निमुखात् परशुराममित्थं प्रबोधयति— 

धरां प्रदक्षिणीकुरुष्व पश्य सृष्टिसौष्ठवं

गिरिं महोन्नतं गुहामपारभीकरीं दरीम्।

सरस्तडाकमम्बुधिं प्रपां ह्रदं सदा हृदा

प्रविस्मर त्वमल्पतां निजां; स्मर श्रियं पराम्॥

किं बहुना, प्रकृतेश्चिरचित्रं महिमानं दर्शं दर्शं तदुद्भूतेनोल्लासेन दुरितोद्वेगम् अपनोद्य मानुषमल्पत्वं च सम्यगवबुद्ध्य निर्वैरं परशुरामः सञ्चचार क्षिताविति वर्णितं तत्र।

व्यष्टिः समष्टौ विकृतिमनवाप्य लयमाप्नुयात्। कलानुभवावसरे लोकनिष्ठानां रागद्वेषात्मकानां भावविकाराणां प्रशमनपुरस्सरं विगलितवेद्यान्तरः स्फुरति रसः। एवञ्जातीयो रससमाधिर्नोल्लासः, न वोत्साहः, न वा चित्तोद्रेकः। (आरभटीवृत्तिप्रधाना आधुनिकाः कलाभासाः सुतरामिन्द्रियलौल्यं भावोन्मादमूलं प्रचोदयन्तीत्यन्यदेतत्।) तस्मात् पर्युत्सुकत्वमेवैतत्। अस्यां स्थितौ जीवः स्वपार्थक्यस्य मूलहेतू अविद्यामूलौ रागद्वेषौ अहङ्कारममकारौ च तित्यक्षति। इत्थं व्यष्टिनाशसमष्टिस्फुरणयोः सन्ध्यवधिः कश्चिदत्र वर्तते। अयं च सन्धिर्न व्यष्टेः सुखकरः। किं च रससृष्टये सोऽयमावश्यकः। या मधुरा वेदना चित्रपतङ्गत्वम् उपेयुषा कीटेनानुभूयते, या च कुसुमताम् आकलयता कुड्मलेनानुभूयते, या च सागरत्वप्राप्त्यवसरे स्रोतोवत्यानुभूयते, या च मिथुनस्य मैथुनीभवनेऽनुभूयते, सैव समष्टौ निजसर्वस्वं समर्पयितुकामया व्यष्ट्यानुभूयते।

अष्टौ नव वा सन्तु नाम रसाः। किन्तु चित्तविश्रान्तिकारको रस एक एव। तं विशेषतः शान्तं परिज्ञातुमलम्। रसावस्थायां भ्रमो भ्रंशते प्रमा च प्रकाशते। तस्माद्रसाः शृङ्गारादयः सर्वेऽपि निरुपाधिके शान्ते पर्यवस्यन्ति। तदुक्तं च ध्वनिकृता "चित्तवृत्तिविशेषाणां सर्वाकारम् अहङ्काररहितत्वेन शान्तरसप्रभेदत्वम्" (ध्वन्यालोकः, ३.२६ वृत्तिः)। शमात्मकस्य शान्तस्य स्थायिभावो निर्वेदः खलु। अतः सर्वस्या अपि महाकलायाः परिणामस्थानं पर्युत्सुकत्वमेवेति दिक्।

इदं पर्युत्सुकत्वं जुगुप्सया नोद्भवतीति हेतोः सर्वथा न तद्बीभत्सतां भजते। व्यष्टिरूपः पर्युत्सुको जीवः समष्टिभूतं जगज्जीवेश्वरतत्त्वं स्मरति। स्मरणं चैतत् केवलं ज्ञापकं न। अपि तु कारकं तारकं च। तस्मादवश्यमिदं साक्षात्कारे पर्यवस्यति। तन्नाम, स्मरणमिदं सर्गे प्रतिकणं विभ्राजमानस्य निखिलाधिष्ठानस्य सच्चिदानन्दमात्रस्य ब्रह्मणः प्रत्यभिज्ञानमेव, नान्यथा। "ब्रह्मवेद ब्रह्मैव भवति" इत्येवं रीत्या जीवः परिपूर्णं निरुपाधिकमानन्दं लभते। कलास्वादेन पर्युत्सुकत्वं प्राप्य, तेन काञ्चिदलौकिकीं जिहासामुपेत्य, तत्फलत्वेन स्वोपाधिसर्वस्वस्यावरणं मिथ्यामात्रं विधूय, प्रतिभानस्मृतेः प्रत्यभिज्ञानात्मना देशकालपरिच्छेदातिगम् अमेयस्नेहस्य पूर्णस्वरूपं रसानन्दं विन्दते।

कालिदासेन प्रतिपादितं जननान्तरसौहृदं वस्तुतस्तु ब्रह्मानुभव एव। अयमनुभवस्तेन भावस्थिर इति निर्दिष्टः। अत्र हेतुरवस्थात्रयात्मकः सार्वत्रिकः पूर्णानुभवः। अथ च पद्ये प्रस्तुतं सुखं सोपाधिकानां रसानामास्वादे पर्यवस्यति। परन्तु सकलानां महाकलानामुद्देश्यं प्रयोजनं च निरुपाधिकस्य शान्तरसस्योत्पादनम्। अस्य तावदुपलक्षणत्वेन पर्युत्सुकत्वं सङ्गच्छते। अनेन सहृदये जागरितो विश्वात्मभाव एव जननान्तरसौहृदस्य स्मरणानुभवः। अयं च तर्कस्य परिधिमतीत्य सर्वास्ववस्थासु सर्वत्र जागर्ति। तस्मादिदं तत्त्वम् अबोधपूर्वं भावस्थिरं च विलसति॥ 

Author(s)

About:

Dr. Ganesh is a 'shatavadhani' and one of India’s foremost Sanskrit poets and scholars. He writes and lectures extensively on various subjects pertaining to India and Indian cultural heritage. He is a master of the ancient art of avadhana and is credited with reviving the art in Kannada. He is a recipient of the Badarayana-Vyasa Puraskar from the President of India for his contribution to the Sanskrit language.

Translator(s)

About:

Shashi Kiran B N holds a bachelor’s degree in Mechanical Engineering and a master's degree in Sanskrit. His interests include Indian aesthetics, Hindu scriptures, Sanskrit and Kannada literature, and philosophy. A literary aficionado, Shashi enjoys composing poetry set to classical meters in Sanskrit. He co-wrote a translation of Śatāvadhāni Dr. R Ganesh’s Kannada work Kavitegondu Kathe.

Prekshaa Publications

Yaugandharam

इदं किञ्चिद्यामलं काव्यं द्वयोः खण्डकाव्ययोः सङ्कलनरूपम्। रामानुरागानलं हि सीतापरित्यागाल्लक्ष्मणवियोगाच्च श्रीरामेणानुभूतं हृदयसङ्क्षोभं वर्णयति । वात्सल्यगोपालकं तु कदाचिद्भानूपरागसमये घटितं यशोदाश्रीकृष्णयोर्मेलनं वर्णयति । इदम्प्रथमतया संस्कृतसाहित्ये सम्पूर्णं काव्यं...

Vanitakavitotsavah

इदं खण्डकाव्यमान्तं मालिनीछन्दसोपनिबद्धं विलसति। मेनकाविश्वामित्रयोः समागमः, तत्फलतया शकुन्तलाया जननम्, मातापितृभ्यां त्यक्तस्य शिशोः कण्वमहर्षिणा परिपालनं चेति काव्यस्यास्येतिवृत्तसङ्क्षेपः।

Vaiphalyaphalam

इदं खण्डकाव्यमान्तं मालिनीछन्दसोपनिबद्धं विलसति। मेनकाविश्वामित्रयोः समागमः, तत्फलतया शकुन्तलाया जननम्, मातापितृभ्यां त्यक्तस्य शिशोः कण्वमहर्षिणा परिपालनं चेति काव्यस्यास्येतिवृत्तसङ्क्षेपः।

Nipunapraghunakam

इयं रचना दशसु रूपकेष्वन्यतमस्य भाणस्य निदर्शनतामुपैति। एकाङ्करूपकेऽस्मिन् शेखरकनामा चित्रोद्यमलेखकः केनापि हेतुना वियोगम् अनुभवतोश्चित्रलेखामिलिन्दकयोः समागमं सिसाधयिषुः कथामाकाशभाषणरूपेण निर्वहति।

Bharavatarastavah

अस्मिन् स्तोत्रकाव्ये भगवन्तं शिवं कविरभिष्टौति। वसन्ततिलकयोपनिबद्धस्य काव्यस्यास्य कविकृतम् उल्लाघनाभिधं व्याख्यानं च वर्तते।

Karnataka’s celebrated polymath, D V Gundappa brings together in the third volume, some character sketches of great literary savants responsible for Kannada renaissance during the first half of the twentieth century. These remarkable...

Karnataka’s celebrated polymath, D V Gundappa brings together in the second volume, episodes from the lives of remarkable exponents of classical music and dance, traditional storytellers, thespians, and connoisseurs; as well as his...

Karnataka’s celebrated polymath, D V Gundappa brings together in the first volume, episodes from the lives of great writers, poets, literary aficionados, exemplars of public life, literary scholars, noble-hearted common folk, advocates...

Evolution of Mahabharata and Other Writings on the Epic is the English translation of S R Ramaswamy's 1972 Kannada classic 'Mahabharatada Belavanige' along with seven of his essays on the great epic. It tells the riveting...

Shiva-Rama-Krishna is an English adaptation of Śatāvadhāni Dr. R Ganesh's popular lecture series on the three great...

Bharatilochana

ಮಹಾಮಾಹೇಶ್ವರ ಅಭಿನವಗುಪ್ತ ಜಗತ್ತಿನ ವಿದ್ಯಾವಲಯದಲ್ಲಿ ಮರೆಯಲಾಗದ ಹೆಸರು. ಮುಖ್ಯವಾಗಿ ಶೈವದರ್ಶನ ಮತ್ತು ಸೌಂದರ್ಯಮೀಮಾಂಸೆಗಳ ಪರಮಾಚಾರ್ಯನಾಗಿ  ಸಾವಿರ ವರ್ಷಗಳಿಂದ ಇವನು ಜ್ಞಾನಪ್ರಪಂಚವನ್ನು ಪ್ರಭಾವಿಸುತ್ತಲೇ ಇದ್ದಾನೆ. ಭರತಮುನಿಯ ನಾಟ್ಯಶಾಸ್ತ್ರವನ್ನು ಅರ್ಥಮಾಡಿಕೊಳ್ಳಲು ಇವನೊಬ್ಬನೇ ನಮಗಿರುವ ಆಲಂಬನ. ಇದೇ ರೀತಿ ರಸಧ್ವನಿಸಿದ್ಧಾಂತವನ್ನು...

Vagarthavismayasvadah

“वागर्थविस्मयास्वादः” प्रमुखतया साहित्यशास्त्रतत्त्वानि विमृशति । अत्र सौन्दर्यर्यशास्त्रीयमूलतत्त्वानि यथा रस-ध्वनि-वक्रता-औचित्यादीनि सुनिपुणं परामृष्टानि प्रतिनवे चिकित्सकप्रज्ञाप्रकाशे। तदन्तर एव संस्कृतवाङ्मयस्य सामर्थ्यसमाविष्कारोऽपि विहितः। क्वचिदिव च्छन्दोमीमांसा च...

The Best of Hiriyanna

The Best of Hiriyanna is a collection of forty-eight essays by Prof. M. Hiriyanna that sheds new light on Sanskrit Literature, Indian...

Stories Behind Verses

Stories Behind Verses is a remarkable collection of over a hundred anecdotes, each of which captures a story behind the composition of a Sanskrit verse. Collected over several years from...