रसाभासो निरस्यते—१

मुरलिकामरुता मरुतामपि श्रुतिचयं शिशिरीकुरुते च यः। जगति कामरुतार्तजनावन- व्यसनितालसनोऽस्तु मुदे स नः॥१॥

आत्मानुभूतिमुकुरे परिदृश्यमानं भावप्रपञ्चसकलं निरपेक्ष्यदीप्त्या । सार्वत्रिकानुभवमात्रकषप्रमृष्टं मन्ये सुवर्णमयभूषणमित्यजस्रम्॥२॥

आत्मानुभूतिर्नाम न काचिद्विशिष्टा सविकल्पा च योगिप्रत्यक्षमात्रावगम्यावस्था। यद्वेदान्तिभिस्सार्वत्रिकनिर्विशिष्टानुभव इत्यवस्थात्रयमीमांसायां गीयते स एवात्र व्यपदिष्टः। अस्मिन्नेपथ्ये हि जागर्ति रसमीमांसा च। यतो हि ब्रह्मास्वादसहोदर एव रसानन्दः। स च यथा वेदान्तिभिरध्यारोपापवादप्रक्रिययैव समभिगम्यते तथा हि सुतरामलङ्कारतत्त्वनिबद्धया तयैव निरुप्यत इति सन्दर्भान्तरेषु सुनिपुणमस्माभिर्दर्शितम्[1]।  अतोऽत्र नायं विचारः पुनश्च प्रतिपादनमर्हति।

औचित्यध्वनिवक्रोक्तित्रितयं रसतत्परम्। भारतीयार्षकाव्यार्थव्यवसायमहाफलम् ॥३॥

तदिदं जगतां समस्तकाव्यप्रकरस्यापि विवेचनाय चालम्। अपि सर्वकलापरीक्षणार्थं परिपूर्णं खलु साधनं समिद्धम्॥४॥

यावन्मानवलोकेऽस्मिन्भावानामेव भाविती। तावद्भारतमीमांसा निर्णिरोधं प्रवर्तते॥५॥

भारतीयकाव्यमीमांसायाः परमार्थः पूर्वसूरिभिरपूर्वतया रससिद्धान्ते प्रत्यपादि। रसोऽसौ सर्वथा ध्वन्यमान एव। ध्वननशीलता तु काव्ये वक्रोक्त्यैव शक्येति नास्ति संशीतिलेशः। वक्रोक्तिरियं तु वागर्थाद्वैततत्परा विभावानुभावसामग्रीमेदुरा चकास्तीति विदितवेदितव्यानां करबदरसमानं तथ्यम्। वक्रोक्तिरियं तु यद्यौचित्यमयी रसोपनिषद्भूता ध्वनिमुन्नयतीति विदुषां समेषामपरोक्षम्। अतः खलु भारतीयकाव्यमीमांसायामौचित्य-ध्वनि-वक्रोक्तित्रितयस्य केन्द्रभूतो रस इति चिराय निर्णीतः । अनेन विमर्शनमार्गेण जगतीतलस्य निखिलस्य यत्किमपि मानुषं काव्यं (यां कामपि मानुषीं कलां) सुनिपुणं व्याख्यातुमलमिति दिक्। एषापि निर्णीतिः पूर्वमेवास्माभिः प्रपञ्चितमन्यत्रेत्यलमतिविस्तरेण[2]। परमिदमवधेयं यन्नायं निश्चयः पूर्वग्रहरूषितो न वाहङ्कारझङ्कृतः। यतः सत्यमिति यद्वैज्ञानिकास्समामनन्ति तत्र न कदाचिद्देश-काल-व्यक्ति-पात्रपरिच्छेदो व्यभिचरति तथैव खलु साहित्यमीमांसायामपि नयोऽयमादृतः। अस्मिन्नवसरे वार्डर्-महोदयस्य वचनमवधेयम्[3]। पन्थानमिमुत्प्रेक्ष्य सम्प्रति रसाभासविषये यत्किञ्चिद्विवक्षुरयं सप्रश्रयं निवेदयति । यथा—

अतो ह्यस्याः प्रकाशेऽहं कुर्यां किञ्चित्प्रजल्पितम्। विदाङ्कुर्वन्तु विद्वांसः प्रणत्या सह कल्पितम्॥६॥

मीमांसेयं यातयामा न नूनं तत्त्वोन्मेषश्चैष नो कालबाह्यः। इत्यौत्सुक्यादान्तरालोचनोर्जासज्जो ब्रूयां हृज्जयी सज्जनेषु॥७॥

मुनिना भरतेनोक्तं न कुत्राप्यागमे निजे। रसाभासविचारस्तु परवर्तिविदां विधिः॥८॥

यद्यपि मुनिना भरतेन स्वोपज्ञे नाट्यवेदे रसाभासमधिकृत्य न किञ्चिदपि कथितं, परवर्तिना तु  तत्रभवता भाष्यकारेण भट्टाभिनवगुप्तेनायं विचारस्सुदीर्घं न्यरूपि[4]। तस्याभिप्रायसर्वस्वं सङ्ग्रहरूपेण कथयितुमेवं शक्यमिति मन्महे वयम्। तद्यथा—

आस्वादमात्ररूपेण तथानौचित्यरूपतः। रसाभासप्रकारस्तु द्विधा प्रायेण दृश्यते॥९॥

रसे धर्मप्रसक्तिस्स्याद्रसाभासे क्वचिन्न सा। इति कृत्वैव विद्वांसः प्रणयन्त्यात्मकल्पनाः॥१०॥

रसेऽङ्गिनि भवेद्धर्मध्वनिरित्याशयः कृतः। रसेष्वङ्गेषु किञ्च स्याद्विकल्पेनेति कोविदैः॥११॥

पुरुषार्थपरो यत्र प्रबन्धस्तत्र मुख्यतः। रसस्यैव प्रतिष्ठेति प्रख्यापितमनाकुलम्॥१२॥

तदन्यत्र रसाभासो रञ्जनैकावकाशतः। चकास्त्वित्येव धीरोक्तिर्नाङ्गित्वेन कदाचन॥१३॥

सत्यमेव प्राचामालङ्कारिकाणां मौल्यविवेको यत्र लोकशिक्षासमुपलक्षिता काव्यास्वादप्रीतिः परमप्रयोजनकारिणीति। अत एव प्रीतिव्युत्पत्तिद्वितयस्य क्वचिदभेदोऽपि प्रत्यपादि तत्र भवता लोचनकृता। भामहादयस्तत्पूर्ववर्तिनस्तथा मम्मटादयश्च तत्परवर्तिनः काव्यस्य व्युत्पत्तिमत्वं बहुधा परिगणयन्ति। अत एव दशरूपकादिषु नाटकप्रकरणयोः पारम्यं भाण-प्रहसनादीनामपेक्षया व्यावर्णितम्। तथैव महाकाव्यस्योत्कर्षो मुक्तक-खण्डकाव्यादीनामपेक्षया भूयान्विवृतः। तथापीदमवधेयं यद्यत्र यत्रास्वादस्तत्र तत्र रस एव जागर्तीति। नो चेद्वयं निर्विशिष्टसार्वत्रिकानुभवेतरप्रत्ययप्रतिष्ठमप्यास्वादं केनापि मतमतान्तरभ्रमेण वाऽवरं मन्यमाना भयानकं मूढत्वं लोकविद्विष्टत्वञ्च समधिगम्य गड्डुरिकाप्रवाहन्यायेन खल्वचिरेण कालेन लोकप्रतारणविषवलये पतिष्यामः पातयिष्यामश्चान्यान्। अन्यच्च लोकशिक्षणकातरं चित्तं काव्यादिषु नीतिमेव स्वकल्पनानुसारं शिल्पति जल्पति वा सदैव। नीतिरेषा मताग्रहावलिप्ता चेन्निश्चयेनाधिभूतादाधिदैवाधियज्ञस्तरेषु लोकोपप्लवं जनयेदिति सर्वेषां विवेकिनां सुलभगोचरमेव। अतश्चिरन्तना यद्यपि लोकशिक्षणयुतं नाम व्युत्पत्तिविशिष्टं काव्यास्वादं रस इति, आस्वादमात्रं वागर्थविलासं रसाभास इति व्यपदिशन्ति।  प्रायेण लोके त्वयमेव नयः सर्वत्र सर्वदा च समाम्नातः। यतो हि लोकानुग्रहजिघृक्षुभिः प्रेक्षावद्भिस्सामान्यनियतिव्यवस्थापनार्थमीदृशा एव प्रायेण पद्धतिविशेषास्समाश्रयणीयाः। परन्तु पारमार्थिकशास्त्रदृष्ट्या तथा चात्यन्तिकश्रेयश्चिन्तनसरण्या केवलं रसस्येव सार्वभौमत्वं संस्थापनीयम्। तन्नाम नात्र रसाभास-भावाभासादयः प्रत्येकं स्थानमर्हन्ति। सर्वमिदं रसादिजातं रस एव विलीयेत । यतो हि त्रिपुट्यतीतास्वादावस्थायां न कश्चन भेदस्समुदेति। अन्यच्च रससिद्धान्तो न केवलं पूर्वतनकाव्यानां कलानां वा स्वारस्यभूमिविवृतिसमर्थः किन्तु वर्तमानवर्तिष्यमाणकाव्य-कलादीनां सर्वासामपि स्वारस्यभूमिविवरणे साधीयान्खलु! अतो यदि देशकालोपाधिभिर्नियम्यमानतत्त्वान्येव सार्वभौमस्थानमर्हन्ति चेन्मूलतत्त्वस्येव स्यादुच्छेदः। तस्मान्निरुपाधिकः कश्चन किलादरणीयो नयः। स तु सर्वथा रस एवेत्यलमतिप्रसङ्गेन। रसाभासशब्दस्य क्वचिद्रसदोष इति क्वचिद्रसस्य त्वाभास एवेति द्वेधा व्यपदेशनं ध्वन्यते। पूर्वं त्वनौचित्यमात्रं रसिकलोकबाह्यमेव। परं तु रासादिध्वन्यन्तर्गतं सहृदयहृदयेषु लब्धावकाशमिति कथञ्चिद्विद्मः। तथाप्येक एव शब्दो द्विधा व्यपदिष्टो भूयाञ्जनयति भ्रमम्। इदमस्मन्निवेदनमतः परिकल्पनीयं पदान्तरं येन भ्रान्तिरियं निरस्यते। तदर्थमाहुरालङ्कारिकाः पुरुषार्थप्रतिपादनपुरस्सरं प्राप्तानन्दो रस इति तदन्यथा केवलकलाकाव्यानन्दो रसाभासेऽन्तर्गच्छतीति। इदन्तु प्रायेण ध्वनिगुणीभूतव्यङ्ग्ययोस्तुलनामर्हतीति मन्महे वयम्। किञ्चात्रावधेयं यत् कुप्पुस्वामिशास्त्रि-कृष्णमूर्ति-प्रमुखा मन्यन्ते गुणीभूतव्यङ्ग्यो न द्वितीयस्तरीयः काव्यप्रकारः किन्तु द्वितीयविधः काव्यविशेषः (Guṇībhūtavyaṅgya is not second-rate poetry, but stands as a second type of poetry, without any implicit hierarchy)। मतमिदमनवद्यमुपादेयञ्च। अतः समन्वितेनानेन रस-रसाभासयोर्विवेकं विलोकयामश्चेत्सर्वमनाकुलमिति वच्मः। तथापि महाकाव्य-महाकथा-नाटक-प्रकरणादिषु भूमसाहित्येषु कथमिव केवलरञ्जनैकपर्याप्तानां साहित्यविशेषाणां समानतन्त्रतया व्यवस्थापनमिति विचिकित्सा स्यात्। तदास्तां; रसभूयिष्ठतैव, परमरस इति जेगीयमानस्य शान्तस्य पारम्यमेव भूमकाव्य-कलानां महातात्पर्यं किञ्च रसस्फुरणं तथा सविशिष्टानां शृङ्गारादीनां प्रसृतिरेव लघुकाव्य-कलानां नियतिरिति निश्चिनुमहे। अनेन सर्वमनवद्यमिति सङ्क्षेपः।

आस्वादः शक्यते यत्र तत्रौचित्यं विराजते। अतो ह्याभासरूपस्य रसस्य स्वादिमा भवेत्[5]॥१४॥

किञ्च महामाहेश्वरस्य तस्य नानादर्शनदीक्षाप्रवणस्य विचारेषु वयमितोऽपि स्तोकमग्रे प्रसृत्य ब्रूमो यन्न वेदान्तिनां स्वानुभवशीलिनां तथा च काव्यरसिकानां तेनैव गुणेन गण्यानां विरोधित्वं स्यात्। तदेवं—

रसस्तु सर्वथा व्यक्तिनिष्ठः प्रत्यक्परायणः। किन्त्वौचित्यं व्यक्तिलोकद्वितयाधीनतां गतम् ॥१५॥

मोक्षवद्रससंसिद्धिस्सर्वथैकान्तिकी मता। औचित्यं धर्मवन्नूनमनेकान्तं जगच्छ्रितम्॥१६॥

निरपेक्षतया नूनं प्रतिष्ठं रसदर्शनम्। यतो ह्यात्मन आनन्दो रस एवेति गम्यते॥१७॥

उपेयं मोक्षमाप्नोतुमुपायो धर्म ईरितः। यद्वत्तद्वत्किलौचित्यं रससंसिद्धये सदा॥१८॥

तथापि देशकालादिपरिच्छेदानुसारतः। भिद्यते धर्म इत्यत्र नास्ति लेशोऽपि संशयः॥१९॥

अत्राधिकारिभेदोऽपि सर्वथा गणनाङ्गतः। एवं हि जडचैतन्यप्रविभागप्रभाविता॥२०॥

परन्तु जायते विद्भी रसस्यात्मन उन्नतिः। अतो हि मुनिनाप्युक्तं स्मृत्यां धर्मनिरूपणे॥२१॥

“अयं हि परमो धर्मो यद्योगेनात्मदर्शनम्”। तस्मादौचित्यसर्वस्वं रसाधीनं भवेत्परम्[6]॥२२॥

प्राचामाचार्यवर्याणां रसमीमांसावसरे नैतिकी दृष्टिरन्तरान्तरा चुञ्चूप्रवेशं कुरुते। नायं सर्वथा दूष्य इति प्रायेण मन्महे वयम्। तथापि सर्वत्र नैष क्रमस्साधीयानिति च भाव्यम्। यतो हि भावदवरा नीतिः। रसस्य मूलसामग्री तु भावमात्रप्रतिष्ठिता। अत एव तदयं परिष्कारः—

कलासु नैतिकी दृष्टिरङ्गित्वेन न शस्यते। अङ्गतां यात्विति प्रोक्तं हिरियण्णेन धीमता[7]॥२३॥

टिपन्न्यः

[1] “भारतीयकाव्यमीमांसेयु हेगे भारतीय”—इति मदीयमेव लेखनम्। Ayana, Dr T. Vasantha Kumar Felicitation Volume, Udupi, 2013. [2] Art Experience—A Classical Approach. Pratipitsā, January-June 2014. pp. 88-120. [3] Literary criticism in India is an autonomous independent science. It does not depend on religion or any other extraneous authority. Instantly it is thus also secular (p. 69). The requirement that criticism should be a science thus seems to be satisfied by Indian criticism (p. 5). Criticism should be an empirical science, following from the investigation and analysis of literature, describing this, finding out why it is enjoyed or regarded as “beautiful,” and then formulating general principles. In India, the main tradition is empiricist (p. 6). Criticism in India has been not just a matter of saying—“I like this,” but of finding out why people enjoy something and what it is, objectively, that they enjoy.—Warder, A. K. The Science of Criticism in India. Chennai: Adyar Library and Research Centre, 1978. [4] एवं तावत्पुमर्थविषयो रूपकरसविषय एव परमार्थतः; तथापि त्वितिवृत्तवैतत्याद्रसान्तरप्रयोगोऽपि तदङ्गतया तत्र भवति।— Abhinavabhāratī, Vol. 2. Baroda: Gaekwad Oriental Series, 1934.  p. 451. औचित्येन प्रवृत्तौ चित्तवृत्तेरास्वाद्यत्वे स्थायिन्या रसो, व्यभिचारिण्या भावः, अनौचित्येन तदाभासः, रावणस्येव सीतायां रतेः। यद्यपि तत्र हास्यरूपतैव "शृङ्गाराद्धि भवेद्धास्यम्" इति वचनात्। तथापि पाश्चात्येयं सामाजिकानां प्रतीतिस्तन्मयीभवनदशायां तु रतेरेवास्वाद्यतेति शृङ्गारतैव भाति पूर्वापर्यविवेकावधीरणेन “दूराकर्षण...” इत्यादौ। तदसौ शृङ्गाराभास एव।—Dhvanyālokalocanam, Varanasi: Chaukhamba Sanskrit Series, 1940. pp. 78-79. [5] अनौचित्यप्रवृत्तिकृतमेव हि हास्यविभावत्वम् । तच्चानौचित्यं सर्वरसानां विभावानुभावादौ संभाव्यते। तेन व्यभिचारिणामप्येषैव वार्ता।—Abhinavabhāratī, Vol. 2. Baroda: Gaekwad Oriental Series, 1927.  p. 296. एवं हास्यमनौचित्यमात्रमूलमानमिति व्यपदिष्टमपि हास्यरसेऽपि विशिष्टमौचित्यं किमपि प्रतिभातीति प्रेक्षावतामपरोक्षमेव। अन्यच्च महामाहेश्वरोऽभिनवगुप्तः सुनिपुणं निरूपयत्यपि रावणादिगतश्शृङ्गाराभासः परमार्थतया खल्वनौचित्यमूल इति, तथापि नात्र सर्वदा हास्यस्येव परिणामः। यतो हि रसिकानां संस्कारानुसारं तत्र रौद्र-बीभत्सादयोऽपि रसास्स्फुरेयुः। कदाचिदीदृशेषु सन्दर्भेषु परमया निर्णयकारिण्या कविप्रतिभया रावणादिषु शृङ्गारादिरसस्यैव प्रसक्तिरुद्दीपिता भवेत्। तदा क्व वानौचित्यं क्व च वा रसाभासः कुत्र वानौचित्यपरिपुष्टं हास्यम्? तस्मात् सर्वमिदमवगम्य विवेकिना त्वनौचित्य-रसाभास-हास्यरसादिषु सन्दर्भेषु प्रतिभानुप्राणितानां महाकवीनां निर्णिरुद्धा रसप्रज्ञाप्रदीप्ता सहानुभूतिरेव सर्वोच्चप्रमाणत्वेन स्वीकार्या। [6] याज्ञवल्क्यस्मृतिः (१.८) [7] Hiriyanna, M. Art Experience. Mysore: Kavyalaya Publishers, 1954. pp. 55-61.

To be continued.

 

Author(s)

About:

Dr. Ganesh is a 'shatavadhani' and one of India’s foremost Sanskrit poets and scholars. He writes and lectures extensively on various subjects pertaining to India and Indian cultural heritage. He is a master of the ancient art of avadhana and is credited with reviving the art in Kannada. He is a recipient of the Badarayana-Vyasa Puraskar from the President of India for his contribution to the Sanskrit language.