रसब्रह्मसमर्थनम्

अपर्याप्तमुदाकारामामपर्यायतमास्मिताम् ।
प्रपद्ये सकलास्वादां निष्कलां रसभारतीम् ॥

पूर्वपीठिका

तदिदं ‘रसाध्याय’संज्ञितस्य कस्यचन ग्रन्थस्य सारासारविवेचनार्थं समायोजनम् । तथापि नास्माभिरस्यैकस्य मीमांसने मनः प्रवर्ततेतराम् । यत ईदृशा आक्षेपविक्षेपा बहोः कालादारभ्य वर्तमाना एव विद्वज्जगति । नेदमपूर्वं किञ्चिन्नाप्यभिनवम् । अन्यच्च नात्र काप्यस्मदीयानस्मदीयविभेदव्यपदेशोऽपि लगति । यतः पुरा हि रसस्यानुमानिकतां लोलुपतां सुखदुःखात्मकतां च कथयद्भिः कथाकृद्भिः स्वकीयं मूलच्छेदं पाण्डित्यमस्मिन्नेव भारते देशे प्रादर्शि नैकधा । अतोऽत्र न कापि स्वजनपक्षपातपातित्यमस्मासु लिप्यते । अपि च वैदेशिकैः कैश्चित्प्राप्तसंस्कृतविद्यागन्धैर्गन्धिलैः पौनःपुन्येन भारतीयार्षसंस्कृतेर्जीवातुभूतमानन्दपारम्यं निजाग्रहैरग्रहणैर्वा मुह्यद्भिर्निराकर्तुं कृता कूटपरम्परा । तत्रभवद्भिः प्रेक्षावित्कूटस्थैः प्राचार्यहिरियण्णमहोदयैः पूर्वमेव सङ्क्षेपसुन्दरं समर्थं च समर्थनं व्यधायि रसपारम्यस्य । तदत्रास्माभिरनुसंधेयमिति परिकरश्लोकः –

पारदृश्वा सारदृश्वा हिरियण्णमहोदयः ।
चक्रे यच्छास्त्रसङ्क्षेपं तदस्मद्ध्यानमर्हति ॥[1]

एवमेव वार्तमानिकेषु विद्वत्सु नैकतमेन पादेकल्लुनरसिंहभट्टवर्येण भारतीयसंवेदनं[2] कथयता कश्चनार्षो नयः प्रकाशितः । ईदृशाः पूर्वसूरिभिरानन्दकुमारस्वामि-वासुदेवशरणाग्रवाल-गुण्डप्पप्रमुखैः प्रपञ्चित एव । तथाप्यलङ्कारशास्त्रदृशा प्रत्येकतया नरसिंहभट्टमहोदयेन[3] किमप्यनुत्तमं कल्पितं किल तदनुसारमेवं वक्तुमलमिति सङ्ग्रहः –

भट्टो नृसिंहनामा च यत्संवेदनमाह तत् ।
पुनरत्रानुसंधेयं यतस्तत्कृत्स्नदर्शनम् ॥[4]

शास्त्रजातमिदं सर्वं जीवत्सामग्र्यसत्त्ववत् ।
साक्षात्कृत्य सुधीः पश्येत्समष्टिं नैव विस्मरेत् ॥

व्यष्टिवैचित्र्यसर्वस्वं स्वानुभूतौ विलीयते ।
वृक्षवैविध्यमुग्धानां कथं कान्तारदर्शनम् ॥

सम्प्रति पूर्वपीठिकारूपेण भारतीयसौन्दर्यशास्त्रसंबद्धं किञ्चिदत्र प्रस्तूयते । सर्वमिदं कारिका-वृत्तिमाध्यमेन निरूप्यत इति विदितवेदितव्यानामपरोक्षमेव ।

नानुमेयो परोक्षो न नाप्तवाक्यैकवेदनः ।
न प्रत्यक्षोऽपि लोकार्थे ह्यपरोक्षो रसः स्मृतः ॥

भौताः पदार्थाः प्रत्यक्षानुमानाभ्यां ज्ञायन्त इति निश्चितम् । किञ्च भावानामभौतत्वं सुप्रतिष्ठितमिति हेतुना भौतन्यायोऽत्र न प्रसज्यते । भावानामभौतत्वं तु तेषामभावायापि न कल्प्यते । यतः स्वसंवेदनविरुद्धोऽयं प्रसङ्गः । अतो हि नैते भावाः परोक्षाः । तर्हि किमवशिष्यत इति विचिकित्स्यते चेदपरोक्षा एव भावा इति  निगमनम् । केचनाधुनिकविज्ञानिन आहुर्यद्भावा अपि काश्चन मस्तिष्कमग्नविद्युद्रासायनिकप्रक्रिया इति । स्यादिदं तथ्यं वाऽतथ्यम् । अनेन नास्माकं मतं प्रतिहन्यते । यतस्तथ्यमिदं न कदाप्यस्मद्भावेषु बुध्यते । स्यान्नाम रति-हास-क्रोध-विस्मयोत्साहादिभावप्रपञ्चः काचिद्रासायनिकी क्रिया । परमस्मासु तथ्येनानेन प्रीतिर्वा भीतिर्वा शान्तिर्वा दान्तिर्वा न जायते । अतः स्वसंवेदनपरिधिबाह्या ये केऽपि वैज्ञानिकवास्तवाविष्कारा मानुषसंदर्भेषु न मनागपि परिणमन्तीत्यलम् । तस्मात्तदिदमवधेयं यद्भौतादिविषयज्ञानेन वाऽज्ञानेन भावप्रपञ्चे न किञ्चिदुपचीयते न किञ्चिद्वाऽपचीयत इति परमार्थः । प्रायेण लोके भव-भावयोरशास्त्रीयानुदारस्वच्छन्दसाङ्कर्येण धीमन्तोऽपि जनाः क्लेशमनुभवन्ति परेषु च क्लेशमनुभावयन्तीति सर्वथा शोचनीयम् ।

भौतादिशास्त्रजातानां सृतिवद्रैखिका नहि ।
भावशास्त्रस्य चास्यर्धिश्चाक्री संविच्चिरन्तनी ॥

सामान्यतो भौतादिशास्त्रविद्याविकासं निर्वर्ण्य साम्प्रतिकपण्डिता भावाश्रितानां कलानामपि जीवव्यापाराणामपि प्रगतिः काचिद्रेखात्मिकेति भ्रान्तिमुत्पादयन्ति । किञ्च वस्तुस्थितिरन्यैव विद्यत इति प्रेक्षावतामपरोक्षम् । रसमीमांसा तु सर्वथा भौतातीतसरणिमनुवर्तते । अतोऽत्र शास्त्रविकासो न सर्वथा रेखात्मकः । तस्मादेव मुनिना भरतेन प्रोक्ते नाट्यवेदे बीजभूता नैके महाविषयाः परवर्तिनामनेकेषां विदुषां स्वानुभूतिपुरस्सराङ्गीकारार्थं समभवन् । परन्तु तत्र तत्र स्पष्टीकरणं वा विस्तरणं वा भङ्ग्यन्तरनिरूपणं वा समपेक्षितम् । न कदाप्यस्माभिर्मुनेर्भरतस्य सरला सुकरा वाणी शास्त्रशैशवत्वाय स्वीकार्या । वेदोपनिषत्सु यत्तत्त्वं प्रगल्भमपि समर्थं, प्रगाढमपि समग्रं सुलभवाग्लभ्यं ; रामायण-महाभारतादिष्वार्षकाव्येषु मानुषभावभूमानुभवकल्पनं यद्भव्योदारमूहातीतमपि साहजिकं तत्तथैव नाट्यवेदेऽपि विज्ञेयम् । अत्रैव महामतयोऽप्यस्मत्कालीना नैकशास्त्रेषु कृतभूरिपरिश्रमा व्यामोहिता इव दृश्यन्ते । तदपसरणं नास्माभिरुपमातुरलम् । केवलं तन्निरूपणमेव मेधामितम्पचानां मादृशां विनम्रो यत्न इति प्रणिपातपुरःसरं विज्ञाप्यते ।

उदाहरणपद्यानां काव्यानां वा तथैव च ।
रूपमात्रहतः कुर्यान्न तत्सिद्धान्तदूषणम् ॥

केवलं स्वर्णभूषाणां विचित्राकृतिविस्मितः ।
न कोऽपि कुरुते विद्वांस्तदुपादानगर्हणम् ॥

अन्यच्च साम्प्रतिकाः साहित्यविमर्शनविदः प्रतिनिविष्टतया भारतीयकलासिद्धान्तेषु कौलीनदिदृक्षवः क्वचित्क्वचित्तत्तदालङ्कारिकदेशकालीनरुचिवैकट्यफलान्युदाहरणपद्यानि परिभावयन्तस्तद्भित्तिप्रायाणि तत्त्वान्यपि विसंवादीनीति प्रजल्पन्ति । किञ्च न ते जानन्ति यत्प्रत्ने काञ्चनपरिष्कारे सत्यपि रूपवैरूप्ये स्वरूपस्सौष्ठवं न हिनस्तीति । अतः सर्वदास्माभिश्चिरन्तनानां सिद्धान्तमीमांसावसरे प्रतिभावद्भिर्भाव्यं ; येन न कदाचिदपि लक्ष्यदोषा लक्षणेषु नापतेयुः । अग्निरन्नमपि पचति, पाचकमपि दहति । न तेन कदाचिदपि दुष्यति ।

स्वसंवेदनमूलत्वादार्युवेदौषधीरिव ।
रससिद्धान्ततत्त्वं च त्रिकालाबाधितं भवेत् ॥

केवलं मूलिकादीनां रासायनिकचिन्तनम् ।
यदिष्यते तथैवात्र मनःशास्त्रीयशोधनम् ॥

आयुर्वेदे भारतीये यद्यप्यौषधानां रासायनिकी प्रक्रिया चातुराणां देहान्तस्तेषां व्यापारविधिर्न निश्चप्रचं प्रत्यपादि तच्छास्त्रविद्भिस्तथा च देहरचनामर्मसर्वस्वनिरूपणं नाकारि लोकोर्जितं तथापि प्रायेण निरपवाद इव चिकित्सा वर्वर्ति स्वास्थ्यं च जरीजागर्ति । समासत इदमत्र वक्तव्यं यदायुर्वेदे भिषङ्मुखनिदानमेव विद्यमानमपि विनापि प्रयोगालयपरिकरव्यूहपरामर्शनेन भैषज्यं प्रसरत्येव ; गदाली निर्गलत्येव । अनेनैव न्यायेन रससिद्धान्तेऽपि विनाऽधुनिकमनःशास्त्रीयपरिशोधनं, विना तत्तद्देशकालीनसामाजिकार्थिकराजकीयसांस्कृतिकवैलक्षण्यसमाकलनं केवलं मानुषास्तित्वस्य भावसामान्यस्य निस्सामान्यसार्वत्रिकानुभवपुरस्सरं यच्चिन्तनं विहितमनेनैव सर्वमपि जैविकचित्तवृत्तिविलसनं यावन्मात्रं विविधकलाविदां तत्प्रयोक्तॄणां च सौकर्याय पर्याप्तं तावन्निरूपितं निराकुलम् । कुर्वन्तु नाम साम्प्रतिका अस्यां दिशि संशोधनं यन्मनःशास्त्रीयादिप्रतिनवतन्त्रज्ञानविज्ञानसौविध्यसाध्यम् । यदि क्वचित्क्वचिद्रसतत्त्वमहागारप्राकारसालभञ्जिकानां पादालक्तकलेपने प्रयोजकता स्यादनेन स्वागतार्हमेव सुतराम् । परं निश्चयोऽयं यत्स महागारः सर्वथा सुदृढः सुस्थिरः सुचिरं स्थास्यत्येव परमानन्दपरमात्मगर्भितश्च । यतोऽत्र दत्तस्यायुर्वेदीयदृष्टान्तस्येव न रसतत्त्वं भौतमात्रम् । तदिदं भावपरमम् । अतो हि नात्र कापि यातयामता कालबाह्यता वा क्लिश्यत्यस्मान् । केवलं तत्त्वस्पष्टीकरणार्थं स्थूलोऽप्यसावायुर्वेदीयदृष्टान्तो दत्तः । सत्यमेवानेन हीनोपमानदोषदूषिता स्यादत्र विचारसरणिः । तथापि यथोपनिषत्सु वेदेषु वा तत्र तत्र हीनोपमानप्रायाणि भवन्ति वाक्यानि तथात्राप्यन्वेयम् । रसपर्यवसायिनि ध्वनिप्रतिपादनावसरे यथाऽऽनन्दवर्धनेन तत्रभवता केवलं ध्वनिमात्रप्रतिष्ठापनार्थमवरोऽपि वस्तुध्वनिरादृतः स एव नयोऽत्र प्रादर्शीति स्वसमयमर्यादां स्मरन्तो वयं विरमामः । सर्वमिदमस्मत्प्रबन्धेष्वन्यत्र सुविस्तरं निरूपितमिति वाग्विग्लापनेनालम् ।[5]

SRI SATCHIDANANDENDRA SARASWATI

सच्चिदानन्द-कृष्णाभ्यां वेदान्तत्वं यदीरितम् ।
तदेव भरतप्रोक्ते रसतत्त्वे प्रतिष्ठितम् ॥

यथा वेदान्तशास्त्रस्य निर्विशेषसार्वत्रिकानुभवपारम्यं, अध्यारोपापवादप्रक्रियानिरूपणं तत्रान्यतमस्यावस्थात्रयस्य मीमांसनं निस्सन्दिग्धेन विधिना स्वनामधन्येन विदुषा कृष्णस्वामिना च तच्छिष्यतल्लजेन श्रीसच्चिदानन्देन्द्रसरस्वतिस्वामिचरणेन व्यधायि तथैव चिरन्तनेन मुनिनापि तत्रभवता भरतेन महानयमौपनिषदिको नयः प्रगल्भतया समाकलितः स्वकीये नाट्याम्नाये । नात्र काचिच्छ्रद्धाजडता, विश्वासाभासाभासता, हेत्वाभासरूषिता दुस्तर्कसरणिः प्रवर्तिता । केवलं सर्वापचेयप्रमाणैरेव सकलमपि समनुष्ठितम् । तद्यथा –

अध्यात्म-लोक-शास्त्राख्यप्रमाणात्रितयान्वितम् ।
कलामीमांसनं कार्यं सम्प्रदायक्रमो ह्यसौ ॥

अत्राभिनवगुप्तपादैः स्पष्टीकृतमिदमेव स्वटीकायाम् । रुय्यकेणापि न्यरूपि महिम्नो व्याख्यावसरे । अस्मद्गुरुचरणैरवदातकीर्तिभिः कृष्णमूर्तिमनीषिभिः स्वप्रबन्धे सम्यगिदं प्रत्यबोधि [6] । तत्सर्वमादृत्य कल्पयामश्चेदध्यात्मं नाम स्वसंवेदनं, लोकस्तु लोक्यमानो लोक एव यद्देशकालप्रतिष्ठितः, शास्त्रं तावदेतयोः समाहारस्वरूपं ज्ञान-विज्ञानसमन्वितं युक्तिपुरस्सरस्यानुभवस्य निश्चप्रचनिरूपणम् ।

पूर्वसूरीणां सरणिमेव समाकलय्य कलयामश्चेदियमत्रोपलब्धिः –

अवस्थात्रयनीत्यैव सच्चिदानन्दवेदनम् ।
स्वात्मनस्तु यथैवास्ते रसस्यापि तथैव हि ॥

किञ्चानन्दो रसस्यास्ते स्फुरद्बाह्यकलाक्रमैः ।
निमित्तहत एवायं ह्यतो ब्राह्मसहोदरः ॥

वक्रोक्तिचिन्तनं चापि श्रुत्यन्तनयसन्निभम् ।
अध्यारोपापवादाभ्यां सुधीमद्भिः प्रवर्तते ॥

ध्वनिसर्वस्वविज्ञानं पुनर्वेदान्तनीतिवत् ।
नेति नेति क्रमेणैव रसपर्यवसायि हि ॥

सच्चिदानन्दघनस्य ब्रह्मणो यत्स्वरूपं तदेवात्मन इति निरुल्लङ्घ्यो वेदान्तसमयः । किञ्च बाह्येन कलानिमित्तेन प्रत्यभिज्ञेयस्तावद्रसानन्दः सर्वथाऽवसितायां कलायां तिरोधत्ते । अत एव निमित्तहतोऽयमानन्दः सर्वात्मना ब्रह्मास्वादसहोदरः । तस्मादेव रसमीमांसावसरे वेदान्तिनामेव नयः समादरणीयः । नो चेद्विचारसरणिरेव विपद्यते । युक्तं हि सूक्ष्मं वस्तु विवेक्तुं सूक्ष्मतरं साधनं कल्प्यत इति । वक्रोक्तिस्तावद्वक्रतापरपर्याया सकलासु कलास्वलङ्कृतिरूपा । अलङ्कृतीनां सिद्धिस्तु सुतारामध्यारोपापवादयुक्त्यैवेति सङ्ख्यावतां विदितमेव । यथा मुखचन्द्र इत्यत्र मुखोपरि चन्द्रस्याध्यारोप आदौ, तद्दर्शनेन सुतरामाह्लादमात्रजनकत्वतात्पर्येण तदपवादोऽपि पश्चात् ।  एवं कलासामान्यस्य रूपसर्वस्वं वक्रतेति प्रतीयते । ध्वनिस्तावत्परम्पराऽनुरणनरूपो रसेन विना न कुत्रापि विरमति । यथा ब्रह्मवादिनां सर्वोपाधिजातं यावत्सच्चिदानन्दघनासाधनं तावन्नेति-नेतिक्रमेणैव निराक्रियते । इत्थं प्रतिपदमस्माभिः कलाशास्त्रस्य वेदान्तशास्त्रोपजीवित्वं सनिदर्शनं सयुक्तिकमपि प्रपञ्चितमित्यलम् ।

Notes

[1] Hiriyanna, M. Art Experience. Mysore: Kavyalaya Publishers, 1954

[2] Bhat Narasimha, P. Bhāratīyasaṃvedane – saṃvāda. Udupi: 2013

[3] Bhat Narasimha, P. Kāvyamīmāṃse - Hosa Hoḻahugaḻu. Mangalore: 2016

[4] Bhat Narasimha, P. Bhāratīyaṛṣiparaṃpare mattu Saṃskṛtasāhitya. Mangalore: 2003

[5] Ganesh, R. Bhāratīyakāvyamīmāṃse hege Bhāratīya. Ayana, Dr. T. Vasantha Kumar Felicitation Volume. Udupi: 2013

[6] Krishnamoorthy, K., Pramanas: Criteria in Indian Aesthetics. New Bearings of Indian Literary Theories and Criticism. Ahmedabad: B. J. Institute of Learning and Research, 1982

[Written in the classical karika-vritti style, this article is a critique of Sheldon Pollock's monograph 'A Rasa Reader']

To be continued.

Author(s)

About:

Dr. Ganesh is a 'shatavadhani' and one of India’s foremost Sanskrit poets and scholars. He writes and lectures extensively on various subjects pertaining to India and Indian cultural heritage. He is a master of the ancient art of avadhana and is credited with reviving the art in Kannada. He is a recipient of the Badarayana-Vyasa Puraskar from the President of India for his contribution to the Sanskrit language.