रसब्रह्मसमर्थनम्

यथा वेदान्तविद्यायां जीवन्मुक्तपरम्परा ।
तथा साहित्यविद्यायां महाकविपरम्परा ॥

तदिदमवधेयं यद्भारतीयपरम्परायां सर्वप्रमाणापेक्षया निस्सामान्यसार्वत्रिकानुभव एव सार्वभौमत्वमर्हतीति । अनेनैव शुष्कतर्कापेक्षया स्वरसानुभवरासिक्यं वरमिति स्फुरति । तथा च शतानां शब्दशरणानां शास्त्रज्ञंमन्यानां गड्डरिकाप्रवाहापेक्षया त्वेक एव ज्ञानविज्ञानवान्प्रशस्यते । अनेनैव नयेन वेदान्तविद्यायां  वामदेव-याज्ञवल्क्य-श्रीकृष्ण-शङ्कर-रामकृष्ण-रमणादीनां जीवन्मुक्तपरम्परेव साहित्यविद्यायां महाकविपरम्परा यद्व्यास-वाल्मीकि-कालिदास-शूद्रक-बाणादीनां, होमर्-शेक्स्पियर्-दोस्तोविस्किप्रमुखाणां च साहित्यशास्त्रज्ञनामधारिणां महासमूहापेक्षया बलवत्तरेति निश्चीयते । अन्यास्वपि कलासु यथा गीत-नृत्य-चित्र-शिल्पादिष्वपि सरणिरियं समूह्या ।

आत्मतत्त्वं निराकर्तुं सच्चिदानन्दमात्रकम् ।
भारतीयार्षसंस्कृत्यां व्रियन्ते बहुधा क्रमाः ॥

आनन्दद्वेषिभिर्नित्यं दुस्तर्काभासभासुरैः ।
तत्रान्यतम एवासौ रसनिर्वापणो नयः ॥

शास्त्राभासान्शुष्कतर्कान्कलाभासान्दुराग्रहान् ।
विहाय पश्यतां सद्यो रसतत्त्वं स्फुरत्यलम् ॥

भारतीयकलास्वादे कोविदास्तद्विनिर्मितौ ।
कुशला ये च ते प्रायो रसनिर्वचने क्षमाः ॥

अथवा स्वाग्रहोन्मुक्ताः कलासामान्यशीलिताः ।
स्वसंविद्रसिका अत्र समर्था इति निश्चितम् ॥

कुतोऽयं रसविध्वंसनव्यसनविधिरिति विचिन्त्यते चेत्प्रतीयत इदं यत्सर्वदा न केवलं भारते जगति सर्वत्राप्यात्मवादिभिः सह नैरात्म्यवादिनो विवदन्ते । अमीषां नैरात्म्यवादिनां तु कण्ठकुठारास्पदं तथ्यं तावज्जगतीहैव सामान्यानामपि मानवानां सदैवानुभवभाव्यं कलास्वादनं निरतिशयानन्दस्वरूपमिति, तदेव रस इति व्यपदिष्टमित्यपि । ते तु कथञ्चिद्ब्रह्मनिराकरणेऽपि समर्थाः स्युः, यतो हि नानाविधप्रपञ्चनत्वाद्ब्रह्मस्वरूपस्य । परं समस्तजनसेव्यमाने कलानन्दे न तादृशं भेदमुत्पादयितुं प्रभवन्ति सुतरां सामान्यानुभवविरोधित्वात् । अत एव तन्निराकरण एव बद्धबुद्धयः खलीकुर्वन्ति स्वानुभूतिमपि । तदर्थमूहातिता अपि दुर्वादा आद्रियन्ते । किमुत, सात्त्विकं सुखमेव निराकुर्वन्ति, त्रिकरणैरपि द्विषन्त्यहो । तस्माद्रसतत्त्वपरिज्ञानार्थं  प्रतिनिविष्टबुद्धिरियं दूरीकार्या । विशिष्य भारतीयकलापुरस्सरं रसानुभूतिप्राप्त्यर्थं तत्तत्कलानां तत्त्व-प्रयोगेषु प्राञ्जलावगाहः कार्यः । अथवा स्वस्वदेशीय-स्वस्वकालीयकलास्वादेन संभावितहृदयाः स्युः । मुक्तमात्सर्यास्त्यक्तकातर्याः स्युः । सर्वमिदं सहृदयलक्षणनिरूपणावसरे लोचनकृता कथितम् । तत्पूर्वमेव नाट्यवेदप्रथमाध्याये मुनिर्जगाद माननीयम् ।

चतुर्वेदमयं नाट्यं व्यपदिश्य महामुनिः ।
सौन्दर्यनयसर्वस्वं ध्वनतीति सुनिश्चितम् ॥

भारतीयसौन्दर्यशास्त्रशाखिनो मूलं वेदाः । तदिदं तथ्यं नाट्यवेदारम्भ एव मुनिना न्यरूपि । अतो हि भारतीयकलानामात्मोपवसतिर्न कदाचन निराकृतिमर्हति ।

पुरुषे नासदीये च रुद्राध्याये यदूर्जितम् ।
स्कम्भोच्छिष्टादिभागे वा तत्रान्वेयो रसोदयः ॥

भूमविद्याप्रकरणे पञ्चकोशविमर्शने ।
अवस्थात्रयचिन्तायां श्रुत्यन्तोक्तिर्यदूर्जिता ॥

साप्यत्र सारतो ग्राह्या तथा श्रीकृष्णवाचिकी ।
विभूतियोगसंदृब्धा नीतिश्चापि महीयसी ॥

रससिद्धान्तसंबद्धा ध्वनिसिद्धान्तयोजिताः ।
सर्वे वादा दार्शनिकाः स्वानुभूतिविशोधकाः ॥

वेदेष्वेव काव्यानां च कलानां च व्यपदेशो भूरि दृश्यत इति नैकेषु प्रसिद्धेषु सूक्तेषु विश्रुत एव । तथा चात्र परमानन्दपारम्यं निरतिशयरूपेण जागर्तीति न संशयः । अस्मत्परम्परायामपि वेदानां काव्यमूलत्वं तत्र तत्र प्रापञ्चि विज्जिका (एकोऽभून्नलिनात्... इति पद्ये)-भवभूति(उत्तररामचरिते)-राजशेखरादिभिः । अर्वाञ्चोऽप्यरविन्द-गणपतिमुनि-कपालिशास्त्रि-वासुदेवशरणाग्रवालादयोऽत्र समर्थानुवर्तिनः । अतो रसतत्त्वस्य वेदमूलत्वं वेदानामनुभवमूलत्वं च निष्प्रतिहतम् ।  एतदेवोपनिषत्सु कारिकोक्तानां भूमविद्यादीनां प्रकरणव्यपदेशेन मतिरथपथमावहति । अन्यच्च श्रीमद्भगवद्गीतासु विभूतियोगे भगवता वासुदेवेन कलासौन्दर्यं निसर्गसौन्दर्यं मानुषसौन्दर्यं च विविधाभिर्विभूतिभिः पथप्रदर्शकरूपेण सूत्रप्रायं प्राभाणि । किमधिकं, यानि न्याय-साङ्ख्य-योग-मीमांसादीनि दर्शनानि तात्पर्येण वेदान्तदर्शनलक्ष्याणीति हिरियण्णमहोदयो मनुते तानि सर्वाण्यपि वेदोपवसतित्वादेव रसतत्त्वनिर्वचनेऽपि वावदूकतां वहन्ति । तस्माद्रसमीमांसायां दर्शनानां प्रसक्तिः परम्पराविरोधिनीति न केनापि भाव्यम् । तदस्त्येव मद्गुरुचरणानां कृष्णमूर्तिमहोदयानां काचिदाशङ्का स्वीयरसोल्लासकृतौ यच्छड्दर्शनप्रस्तावेन सौन्दर्यशास्त्रार्थं न किञ्चिदपि प्रयोजनमिति तत्तेषामेव परमगुरुभिर्हिरियण्णमहोदयैर्निरस्यते । वस्तुतस्तु कृष्णमूर्तिवर्यस्य विवक्षा स्वानुभूतिविधुरशुष्कशास्त्रकोलाहलमात्रेण रसमीमांसा न कार्येति । तत्र तस्यैव विदुषः परवर्तिन्यो नैककृतयः प्रमाणमिव समुल्लसन्ति यथा ‘भारतीयकाव्यमीमांसे – तत्त्व मत्तु प्रयोग’, ‘Studies in Indian Aesthetics’, ‘Indian Literary Theories: A Reappraisal’ इत्याद्याः । तथा भाषण-संवादेषु सहृदयनिष्ठत्वमेव प्रत्यपादीदिति वयमेव साक्षिणः ।

भारतीयकलाशास्त्रप्रस्थानानां परम्परा ।
मूल्यमापनमाहात्म्याद्विश्वासार्हा चिरन्तनी ॥

न केवलं रसदर्शनस्य परमलङ्कार-गुण-रीति-मार्ग-वक्रता-ध्वनि-औचित्यादीनि सर्वाण्यपि काव्यतत्त्वानि कवि-सहृदयसंवेदनविशुद्धानि यथान्यायं स्थानमर्हन्तीति सुनिश्चितम् । यत एतेषां तत्त्वानां प्रतिपादनपूर्वमेव व्यास-वाल्मीकि-कालिदासादयो महाकवय इति मानिताः पुनरेताभिः परिकल्पनाभिः प्रत्येकतया विमृष्टा अस्खलितस्थानेष्वेव प्रतिष्ठिताः खलु! यथा त्वलङ्कारमार्गेण ‘उपमा कालिदासस्ये’ति, गुण-रीत्यादीनां वर्त्मना ’वैदर्भगिरां वास’ इति, वक्रोक्तिपथेन वक्रतापरमाचार्य (‘कुन्तके कालिदास’ इति कृष्णमूर्तिमहोदयस्य लेख उल्लेख्यः) इति, ध्वनिसरण्या ध्वनिधुरन्धर (“कालिदासप्रभृतयो द्वित्राः पञ्चषा वा महाकवय” इत्यानन्दवर्धनः) इति, औचित्यपद्धत्या परमौचित्यकारीति (“पठेत्समस्तान्किल कालिदासकृतप्रबन्धानि”ति क्षेमेन्द्रः) इति मतैक्यं वहद्भिः प्रस्थानैः किमन्यद्वा निरूप्यते? अन्यच्चाद्यापि तत्त्वान्येतानि रसध्वन्यौचित्यवक्रतारूपेण सर्वप्रकाराणां काव्यादिकलानां गुण-दोषविमर्शने स्वारस्यमीमांसने च समर्थानि सन्तीत्यस्मदुपज्ञोदितकृतिष्वारभ्य नैकेषां विदुषां रचनास्वपि साक्ष्यमस्तीति सूचयितुमलम् ।

~

‘रसाध्याय’विवेचनम्

A RASA READER

वयमिदानीं हृदयेकृतपूर्वपीठिकाः श्रीमतां पोल्लक् महोदयानां ’रसाध्याय’ग्रन्थस्य प्रास्ताविकावलोकनेन प्रस्तुतं प्रकल्पं निर्वर्तयामः । अत्र तेषां कृतेः प्रास्ताविकामात्रपरामर्शनार्थं हेतुर्द्विधा । तेषां स्वोपज्ञविचारबाहुल्यमस्मिन्भाग एव निक्षिप्तमित्येकः ; अपरस्तु प्रस्तुतप्रबन्धस्य गात्रपरिमितिः ।

स दोषज्ञः कथयति भारतीयसौन्दर्यमीमांसायां काव्येतरकलानां सुषमाविवेचनमुपेक्षितप्रायमेवेति[1]। किञ्च नायं क्षोदक्षमोऽभिप्रायः । यतः –

कलानां सकलानां तु रस एव परा गतिः ।
संस्कृतेः सुषमा सर्वा तस्मिन्नेव प्रतिष्ठिता ॥

निजानां चित्तवृत्तीनां तटस्थात्मीयदर्शनम् ।
कलासर्वस्वगन्तव्यं रसतत्त्वतयाऽऽदृतम् ॥

साहित्यगीतनृत्तानां चित्रशिल्पादिनामपि ।
नाट्यं समाहृतिस्तस्मात्तद्रसः सर्वसंमतः ॥

नाट्यं तु सर्वकलानां समाहार इति स्थितम् । अतो हि नाट्यमीमांसावसरे सर्वापि कलाभाविती त्वन्तर्हिता । अन्यच्च यथा काव्यसौन्दर्यविवेचनार्थमलङ्कारशास्त्रमिति वा साहित्यविद्येति वा ज्ञानशाखाऽस्ति, तथैव गीत-नृत्यादीनां स्वारस्यविवेकार्थं सन्ति सङ्गीतशास्त्राणि । विदितमेव हि वाक्यमिदं सङ्गीतरत्नाकरीयं यद् "गीतं नृत्यं तथा वाद्यं त्रयं सङ्गीतमुच्यते" । अमरकोषोऽपि "तौर्यत्रिकं नृत्यगीतं वाद्यं नाट्यमिदं त्रयम्" इति सहमतं वक्ति । दुर्दैवादिव ‘रसाध्याय’कर्ता सङ्गीतशास्त्रग्रन्थानां पल्लवग्राहिपाण्डित्यमपि नात्मनि कलयति । अन्यच्च लेखनसौकर्यदुर्भरे मुद्रापणसौलभ्यरहिते तस्मिन् युगे समस्तकाव्यानामाद्यन्तविमर्शनं दुःशकमेवासीत् । किमुत सकलकलानां व्याख्यानम्? अपि च साम्प्रतिका इव प्राचीनभारतीया न कदापि काव्यानामान्वयिकविमर्शनद्वारा वाचकानां सहृदयतां कदर्थयन्ति स्म । केवलं काव्यानां स्थूलशब्दार्थतात्पर्यपरिज्ञानमात्रं साहाय्यं टीकाभिः कल्पयन्ति स्म । प्रायेणाभिधावृत्तिपर्याप्ता व्युत्पत्तिनैयून्यसमीकरणमात्रतात्पर्या भवति स्म तेषां व्याख्याक्रिया । केवलं पाठकानां भावयित्रीप्रतिभापरिचर्यार्थं सर्वमिदं कार्यजातं प्रवर्तते स्म । यतो हि निर्णिबन्धध्वननशीलतां के वा निरुन्ध्युः? को वापि रसध्वनेरवधिः? अतः साम्प्रतिकविमर्शका इव तदानींतनीयाः प्रायेण स्वाभिप्रायाभिसन्धिभिः काव्यरसिकान्न बा(बो)धयन्ति स्म । एतद्विहाय काव्यसामान्यतत्त्वपरिज्ञानार्थं प्रौढप्रस्थानग्रन्थाः, प्रस्निग्धपाठ्यपुस्तकानि च सहृदयरुचिरूपणार्थं प्रभवन्ति स्मेति समूहितुमलम् । गीतनृत्यादिकलासु तावत्समस्या विभिन्ना चैतदधिका च । यतः कला इमाः प्रयोगैकपारम्याः ; ग्रन्थस्थीकरणं तु तासां दुःशकमेव । तथा कृते सत्यपि तद्बोधः सुतरां कठिन एवेति विद्यमानतत्तच्छास्त्रलक्षणग्रन्थैरेव ज्ञायते । अत एव प्रायेण काव्यकलापेक्षया कलान्तराणां ग्रन्थस्थीकरणं विरलमिति वक्तुमलम् । तथापि मुद्रापणयुगपूर्वस्मिञ्जगति पश्यामश्चेद्भारतं विहाय नान्यत्र क्वापि गीत-नृत्य-शिल्पादिकलानां ग्रन्थस्थीकरणमियत्प्रमाणे दरीदृश्यते ।

पूर्वोक्तग्रन्थकर्ता पुनश्च भारतीयसौन्दर्यशास्त्रं केवलं साहित्यरसमेव रसत्वेन मनुते[2] नान्यासां कलानामित्यभिप्रयते । एतदप्यलीकभाषितम् । नूनं सन्त्येव केचन साम्प्रतिकास्तस्य साधुवदिनोऽस्मिन्विषये । परमिदमाक्षेपणं सर्वथा नष्टविवेकमिति निवेद्यते । सर्वमिदं पूर्वमेवास्माभिः सविस्तरमन्यत्र प्रत्यपादीति नात्र निर्वहणैषिता क्रियते[3] । अन्यैरपि विद्वद्भिस्तदिदं प्रपञ्चितमेव । सङ्क्षेपेण वक्तव्यमिति चेत्सर्वाश्च कलाः कलाकृतां चित्तवृत्तिमूला रसिकानां पुनश्चित्तवृत्तीरेव चोदयन्ति पर्यन्ते तद्दर्शन एव साफल्यमनुभवन्ति । अतः सर्वेऽपि तथाकथितकाव्यरस-गीतरस-नृत्यरसमुखाश्चित्तवृत्तिमूलाश्चित्तवृत्तिचूलाश्चित्तवृत्यन्तराला इति निश्चिते सति को व विवदीतु?

विद्वानसौ कथयति भारतीयपरम्परायां प्रतिभातत्त्वविवेचनं न सम्यगभिहितमिति[4] । एतदप्यसदेव ।

प्रतिभा तत्ततस्त्वन्ते स्वसंवेदनचेतना ।
अनिर्वाच्या ह्यतस्तस्याः कार्यमेव निरूप्यते ॥

निरुपाधिक आनन्दो रसश्चापि तथैव हि ।
तस्मात्तत्कार्यरूपेण प्रभेदा एव कीर्तिताः ॥

एवमेवालङ्कृतीनां गुणानां मार्गगामिनाम् ।
विवृतिर्भूरिशो भाति रसस्यापेक्षया कृतौ ॥

प्रतिभा नामापूर्ववस्तुनिर्माणक्षमत्वमित्याहुः । यत्र सर्वेषां कलाकार्याणां कारणमिति कल्पितं तदेव प्रतिभेत्यवगम्यते । यदि कारणमेव मीमांस्यते तर्हि तत्कस्याप्यपरस्य मूलकारणस्य कार्यत्वेनावगम्यते । एवमनवस्थादोषस्तु दुर्निवार्य एव । अतो हि वेदान्ते ब्रह्मस्वरूपमिव केवलं स्वरूपलक्षणसङ्क्षेपकथनमात्रेण विरम्य प्रतिभातत्त्वमप्यालङ्कारिकाः प्रमेयान्तरमूरीकुर्वन्ति । नैतत्तावद्दूषणं प्रत्युत भूषणमेव प्रतिभाया अचिन्त्यस्वरूपत्वात् । विदुषा तेन पुराऽऽन्वयिककाव्यविमर्शनं दार्शनिकान्वेषणमिव नानुष्ठितमित्यपि समाक्षिप्तम्[5]। वादोऽसावपि न क्षोदक्षम इति प्रतिभाति । पूर्वोक्तरीत्या भारतीयकाव्यमीमांसा सहृदये बहुधा श्रद्धधाति । न कदापि तमवगणयति । अत एव सिद्ध्यपेक्षया स्वाद एव परमां काष्ठामधिवसति । याश्च संस्कृतयः फलकृपणास्ता एव निजानन्दापेक्षया सर्वमन्यन्महदिति मनुते । अत्रापि भारते देशे केचन तथा स्युः । परं नैतेषां कलास्वादनार्हतापि सिद्ध्यतीति समयोऽयं सौन्दर्यविदाम् । सङ्क्षेपेण वक्तव्यं चेत्कामापेक्षया सुतरामर्थोऽवर इति । स च कामस्तु हृदयविस्तारपरं धर्ममनुरुन्धन्मोक्षाय पूर्वपीठिकेवापि समुन्नतं पदमधिवसतीति स्वसंविद्वेदिनां साक्षात्कारः । अन्यच्च पराग्रूपिणि द्वैतमूलिनि पाठ्यमात्रावलम्बिनि चाऽन्वयिकविमर्शने कथमिव निस्सामान्यामूर्ततत्त्वाभिमुखत्वम्? तस्मादिदं वदतोव्याघात इव प्रसज्यते । अत एव तात्पर्यमेवम् –

आस्वादापेक्षया मूल्यमापनं नैव शस्यते ।
अपूपा भक्षितव्याः किं सुषिरं गणयेन्नु किम् ॥

ध्वनिमार्गेण सर्वासां कलानां मूल्यमापनम् ।
सिद्धमित्यपरास्त्येव नीतिरौचित्यचञ्चुरा ॥

आन्वयिकविमर्शनार्थं काव्यानां ध्वनिसिद्धान्तस्तावद्वर्तत एव । ध्वनि-गुणीभूतव्यङ्ग्ययोरालम्बनेन प्रायेण सर्वाश्च कलाः सहृदयदृष्ट्या व्यवस्थापयितुमलमिति पूर्वमेव प्रतिपादितम् । अत्र नैके पूर्वसूरिणश्च प्रबन्धाश्चास्माकं साक्ष्यमिव यच्छन्ति । कलाविद्दृशा तु वक्रतानाम्नी महती शक्तिरस्त्येव विमर्शनार्थम् । एतेषां सर्वेषामप्युपरि विद्यत एवौचित्यमिति व्यापकं विमर्शनसाधनं येन देशकालानुसारिणी नानासंस्कृति-नागरकताव्यापारसहस्रवैविध्यशोधनी सौन्दर्यमीमांसा हस्तसाद्भवति ।

समग्रसौन्दर्यमीमांसा कापि दार्शनिकदृशा न प्राचलदिप्यसत्[6]। यतः –

कलामात्रे रसस्यैव मीमांसा पारमार्थिकी ।
ततोऽप्युन्नतिरस्त्येव ब्रह्ममीमांसनाध्वनि ॥

PROF. M. HIRIYANNA

विद्वद्वरेण हिरियण्णवर्येण स्वकीये ‘Art Experience’, ‘The Indian Conception of Values’ चेति ग्रन्थद्वये निरुपमानविधिना वादाभासमिमं पूर्वमेव निराकारि । पाश्चात्यानामिव भारतीयानां कलामीमांसा साक्षाद्दर्शनशास्त्राणां प्रकरणेषु नान्तर्गतेति प्रायेण तद्विद्यासौभाग्यमित्येव मन्महे वयम् । यतो हि यद्यपि सर्वदर्शनस्वारस्यपरिपुष्टापि भारतीयकलामीमांसा स्वतन्त्ररूपेण निस्सामान्यस्वानुभवमेव  प्रमाणयन्ती रसाभिव्यक्तिवादे व्यञ्जनाव्यापारविश्रान्ते सुखेन तत्त्वपरिपूर्तिमेधाञ्चकार । अनेन हेतुना सा तु वस्तुतन्त्रपदमुपारूढा सर्वमान्यापि समजनि । नो चेन्नैकेषु दर्शनाभासेषु दृप्तलक्ष्मीवतां भवनेषु दरिद्रबान्धवधात्रीव कर्तृतन्त्रक्लेशक्लिष्टा दीनदीनं लुठति स्म । तस्माद्वर्तमानवस्तुस्थितिरद्य भारतीयकलामीमांसायाः सर्वथा शोभनकरीत्यवोचाम ।

Notes

[1] Pollock, Sheldon. A Rasa Reader. New York: Columbia University Press, 2016. p. 24

[2] Pollock, Sheldon. A Rasa Reader. New York: Columbia University Press, 2016. p. 24

[3] Ganesh, R. Art Experience: A Classical Approach. Pratipitsa Journal, 2014. pp. 88-120

[4] Pollock, Sheldon. A Rasa Reader. New York: Columbia University Press, 2016. p. 24

[5] Pollock, Sheldon. A Rasa Reader. New York: Columbia University Press, 2016. p. 24

[6] Pollock, Sheldon. A Rasa Reader. New York: Columbia University Press, 2016. p. 24

To be continued.

Author(s)

About:

Dr. Ganesh is a 'shatavadhani' and one of India’s foremost Sanskrit poets and scholars. He writes and lectures extensively on various subjects pertaining to India and Indian cultural heritage. He is a master of the ancient art of avadhana and is credited with reviving the art in Kannada. He is a recipient of the Badarayana-Vyasa Puraskar from the President of India for his contribution to the Sanskrit language.