संस्कृतसाहित्यचर्यासपर्या

यदृच्छास्वच्छविस्तीर्णामविच्छिन्नरसावहाम्। 
अगाधापारपारम्यां श्रये संस्कृतवाहिनीम्॥

I

तदिदं मुदावहं यदाधुनिकसंस्कृतसाहित्यवरिवस्याविवेचनात्मकमत्र सत्रं प्रकल्पितम्। दिनद्वयात्मकेऽस्मिन् सारस्वतसवने समर्पितानि स्वरसानि बोधप्रदानि च नैकानि प्रस्तावनहवींषि, येन बुभुत्सवो व्युत्पिपत्सवश्च विद्वद्रसिकवैतानवह्नयः समाराधितास्स्युः। अन्यच्च प्रश्नोत्तरपुरोडाशानां संवादसोमाहुतीनां परिवादपशूनां च विनियोगेन सारस्वतसप्ततन्तुरयं सर्वथा सम्पन्न इति मन्ये।

प्रायेण सत्रेऽस्मिन् साम्प्रतिकसंस्कृतसाहितीशारदायाः करकल्पितवल्लक्या नैके नन्वेकान्तमनोहरा वैचारिकरागा निपुणं निष्पादितास्स्युः। अतो हि न मे जागर्ति कश्चिदपि नवाभिरामसमालोचनमूर्च्छनाप्रस्तुतिभ्रमः। तस्मादेव किञ्चिदिव संस्कृतसाहित्यपरम्परापरिशीलनपुरस्सरं प्रस्तूयते येन क्वचिदपि मद्वाचिकं स्तोकमाप्रस्तुत्यदोषदूरं स्यात्। अनया च परिप्रेक्षया वार्तमानिकं संस्कृतवाङ्मयं येन येन क्लेशजातेन कदर्थितं कदर्थ्यते कदर्थ्यमानञ्चेति प्रायेण विज्ञायते। ततस्तेषां क्लेश-दोषाणां प्रहाणाय च तत्र तत्रैव काश्चन विनम्रास्सूचना अपि निवेद्यन्ते। इत्येवमस्ति मे प्रयासविस्तरः।

II

आदौ संस्कृतवाङ्मयमेव पश्यामश्चेत् तद्बुद्धिपारम्यं भावपारम्यं चाश्रित्य द्वेधा विस्तृतमिति प्रतिभाति। तदत्र बुद्धिपारम्ये स्तरेऽपि लौकिकमलौकिकं चेति पुनर्विभागद्वयं कल्पयितुं शक्यते। लौकिकाख्ये विभागे सर्वेषां प्रत्यक्षफलदर्शिनां प्रतिक्षणविकासिनां लौकिकशास्त्राणाम् अर्थ-काम-नाट्य-वास्तु-वृत्त(च्छन्दः)-शब्द(व्याकरण)-सूप-गणित-गीत-वैद्य-साहित्यादीनां शताधिकानामन्तर्भावस्स्यात् । अलौकिकाख्ये विभागे त्वपरस्मिन् प्रायेण सर्वेषां दर्शनानां वैदिकानामवैदिकानां वापि, क्वचिदागमशास्त्र-धर्मशास्त्र-यज्ञतन्त्रादीनां च भवत्यन्तर्भावः। इदानीं भावपारम्ये स्तरे पुनश्च भक्तिप्रधानं त्वलौकिकमिति प्रीतिप्रधानं लौकिकमिति द्विधा विभागव्यवहार इष्यते। अत्र भक्तिभावप्रधानमलौकिकं वाङ्मयं वेद-पुराणागमादिस्तुतिमाहात्म्यमयं निर्माणं कलयति। अपरस्तु विभागः प्रीतिभावप्रधानं लौकिकं शब्दार्थजातं काव्य-कथा-रूपकादिसाहित्यं लक्ष्यीकरोति। सत्यमत्र स्वप्रेक्षालक्षितेषु विविधेषु विभागेषु व्यपदेशस्तु भूयसा भवति। स्यान्नाम क्वचित्क्वचिदपि शाखाचङ्क्रमणं परस्पराश्रयणं वा। नानेन कापि विप्रतिपत्तिर्यतो हि सर्वे खलु नियमास्सापेक्षास्सापवादाश्च। केचन दैवप्रीतिरेव भक्तिरिति जीवप्रीतिरेव रस इत्यपि मन्यन्ते। पक्षोऽयमपि न दूषयत्यस्मन्मतं यतो हि केवलमत्र शब्दानामेव भिन्नता नार्थानाम्।

वयमिदानीं वाङ्मयविस्तरेऽस्मिन् रसपारम्यमयं लौकिकविभागविश्रान्तमपि नूनमतिलोकमनोहरं साहित्यमेव समालोचनाय समाद्रियमाणास्स्मः। अत्र तु गाङ्ग-यामुनयोरिव पाराशर्य-प्राचेतसयोरार्षवाग्जीवनं भारत-रामायणात्मना समर्हत्यग्रताम्बूलम्। अनयोरेव भूमकाव्ययोः पङ्कतौ सभाजनार्हा किल गुणाढ्यगुम्फिता बृहत्कथा। व्यास-वाल्मीकिवेदौ तु देव-दैत्य-राज-मौनिमयं जीवितमेव प्राधान्येन निमित्तीकृत्य सुविस्तृते देश-काल-व्यक्ति-वस्तुपटले सार्वजनीनं सार्वकालिकं सार्वदेशिकं च मानवभावस्पन्दनं निपुणं निरूपयतः। तयोरनेनैव हेतुना हि परवर्तिनां भरतभूमिभवानां महाकाव्य-महारूपकस्रोतसां मूलमातृकास्वारूपमपि सुविशदमनुमीयते। किञ्च बृहत्कथा न तथा। अत्र तु रम्योज्ज्वलवृत्तकल्पिताः, कटु-मधुरवास्तवशिल्पिताः, विनोदविकटा, अर्थकामनिकटाः, सिद्ध-विद्याधरवार्तावल्गिता अपि, भूत-वेताल-वेल्लिता अपि, प्राणि-पक्षिपटलप्रोता अपि लोकसामान्यमानुषरागद्वेषरञ्जिता एव भवन्ति बहुसन्दर्भाः। अत एव बृहत्कथेयं पूर्वापरवार्तिनां लोक-लोकान्तराणां  समस्तकथाख्यायिकानां सङ्ग्रहसम्पुटी संभवभूमिर्वेति सुतरां गण्यते। नयमिममेव पुरस्कृत्य पूर्वसूरयो भास-कालिदास-क्षेमेन्द्र-गोवर्धनादयः सूच्येन वाच्येन वाऽपि विधिना स्वीयकाव्येषु सत्यमेतत्प्राचीकटन्। अन्यथा कथमिव भासस्य रामायण-महाभारत-बृहत्कथारूपकचक्राणि, कालिदासस्य रघुवंश-कुमारसम्भव-विक्रमोर्वशीय-शाकुन्तलादीनि तथा मेघदूतगतान्युदयनकथाकोविदग्रामवृद्धजल्पितानि च क्षेमेन्द्रस्य रामायण-महाभारत-बृहत्कथामञ्जर्यादयः प्राप्नुवन्ति प्रशस्तिम्? किमधिकं, तदित्थं कण्ठोक्तमेव गोवर्धनाचार्येण :

श्रीरामायण-भारत-बृहत्कथानां कवीन्नमस्कुर्मः।
त्रिस्रोता इव सरसा सरस्वती स्फुरति यैर्भिन्ना॥ (आर्यासप्तशती. ३४)

Maharshi Valmiki

अतो हि समस्तमपि साहित्यं रसमयं यद्भरतभूसम्भवं तन्मुनित्रयस्यास्य महावाङ्मयोपजीवीति निश्चीयते। तस्मादेव वयमिदं त्रितयमार्षत्वेन मन्महे। रामायण-महाभारतयोरितिवृत्तेषु भव्योज्ज्वलजीवनमीमांसैव स्वरूपपारम्येन रसनिर्भरेण ध्वनिदीप्तेन विधानेन जागर्तीति विशदमेव। अत्र निरूपणावसरे नैकाश्च घटना अवश्यं भवन्त्येव। तथापि तासां प्रयोजनं जगज्जीवनदर्शन एव। न कदापि व्यास-वाल्मीकी विस्मयाद्भुतकथनग्रथनमात्रे मुह्यतः। प्रत्युत मुनिवर्ययोस्तयोः कृत्स्नमपि काङ्क्षितं मानुषसामान्यस्य यावच्छक्यं यावत्सम्भाव्यं चित्तवृतिसमस्तमपि च हृद्येनाकृतकविधिना ध्वनयितुमेव। न तयोर्वाणी विकटालङ्कृतिमुग्धा, वक्रवृत्तविभ्रान्ता, दुरूह्यपदपङ्किला, कविम्मन्यसमयप्रतारिता च। तदुक्तमेव स्वयं ताभ्यां स्वकाव्ययोः। यथा :

हसितं भाषितं चैव गतिर्या यच्च चेष्टितम्।
तत्सर्वं धर्मवीर्येण यथावत् संप्रपश्यति॥ (रामायणम् १-३-४)

इतिहासप्रदीपेन मोहावरणघातिना।
लोकगर्भगृहं कृत्स्नं यथावत् संप्रकाशितम्॥ (महाभारतम् १-१-१०३)

(उभयत्र विद्यमानं “यथावत्” इति पदं परं प्रेक्षणीयम्)

बृहत्कथामार्गे तु पुराणेष्विव प्रायेण प्रसङ्गानां कथनं तत्तन्त्रमेव च पारम्यं भजतः। नात्र चित्तवृत्तिविलसितानां वैभवं निशम्यते। जनमनोरञ्जनमेव निरञ्जनतापेक्षया समादृतमिति भाति। प्रकृतीनां चारित्र्यस्फुटीकरणापेक्षया घटनानां रोचकधावनं लोकस्वभावसंभ्रमशीलनं च नितरां दरीदृश्यते। कथानां शरपरम्परया सर्जनं, विकृति-सुकृतीनां विलक्षणमावर्जनं विजृम्भते तराम्। तथापि जगद्वैचित्र्यदर्शनं सामान्यजनताया निस्सामान्यसुषमानिभालनं चात्र गुणातिशयत्वेन जेगीयते। विकटवागलङ्कारच्छन्दोनिबन्धनव्यसनिता नात्र मनागपि त्रासयति रसिकान्। एवं खल्वार्षकाव्यानां भुवनोपजीव्यत्वं निसर्गसहजनिस्सीमत्वं निरतिशयशश्वद्रासिक्यं विश्वंपृणनिखिलाकृष्टित्वं च सर्वथा श्रेयस्कामिभिः काव्यमीमांसामांसलमतिभिः परिभावनीयम्।

सम्प्रति केचन पणिनापत्यपथीनाः सन्दिह्यासुः कथमिव संस्कृतमयेन व्यास-वाल्मीकिवाङ्मयेन पैशाच्यादिप्राकृतमय्या बृहत्कथया सह समानतन्त्रं लगतीति। तदेवं समाधानं यत्संस्कृतमिति या वाग्विद्यते सा न केवलं पाणिन्युपज्ञाफलं प्रत्युत भरतमुन्यनुमतेन विधिना त्वतिभाषामार्यभाषां जातिभाषां योन्यन्तरीमपि भाषां समाकलयन्ती (नाट्यशास्त्रम्. १७-२७,२८)  सर्वकर्मक्षमा सर्वसम्पन्ना च व्यवह्रियते। अत एवास्य विचारस्य व्यपदेशेन गाथाकोश-जातककथा-श्रावकाचारकथादयश्च महाराष्ट्री-पालि-मागधीमुख्यासु  जातिभाषासु रचिता अपि काव्य-कथाः, महाकविप्रणितेषु सहस्राधिकेषु रूपकप्रकारेषु वाप्युपरूपकप्रकारेषु विपुलतया दृष्टचराणि नानासम्भाषणानि महाराष्ट्री-शौरसेनी-शकारी-चाण्डालीत्यादिप्राकृतप्रभेदनिबद्धानि, नैकानि तदितराणि काव्यानि यथा सेतुबन्ध-गौडवहो-लीलावई-समराइच्चकहादीनि यथार्हमन्तर्भवितुमर्हन्तीति मन्महे वयम्। नेदं स्वकपोलजल्पितकं यतो हि न केवलं नाट्यवेददर्शिना मुनिना परन्तु दण्डि-भामह-वामन-रुद्रट-उद्भट-आनन्दवर्धन-अभिनवगुप्त-कुन्तलक-महिम-भोज-मम्मट-हेमचन्द्र-राजशेखर-विश्वनथाद्यालङ्कारिकैश्च धनञ्जय-धनिक-गुणचन्द्र-रामचन्द्र-सागरन्दि- शारदातनय-सिंहभूपालादिभी रूपकलक्षणकोविदैरपि स्वस्वमीमांसासु नैकधा विविधप्राकृतपद्यानां वाक्यानां वा समुल्लेखश्च तेषां लक्षणाङ्गत्वेन निपुणं निरूपणमपि विहितमिति यथासम्भवं समृद्धं साक्ष्यं भवितुमर्हति। अन्यच्च सर्वेषामपि काव्य-रूपकाणां वा काव्यालङ्काराणां च ग्रन्थेषु प्राकृतवाक्यानां संस्कृतरूपनिवेदनसन्दर्भे छायेति व्यपदिश्यते,न तु भाषानुवाद इति। अनेन संस्कृत-प्राकृतयोः काय-च्छाया-योग इव कश्चन दुर्विभाज्य एव सम्बन्धः  सिद्ध्यतीति निश्चप्रचम्। नो चेत्कथमिव किल रूपकेषु विविधभूमिकानां संस्कृत-प्राकृतसम्भाषणशीलानां परस्परं सुसंहतं च संवादसम्भवः?

अन्यच्च परेषां विचिकित्सा स्याद्यथा वयमङ्गीकुर्म एव संस्कृत-प्राकृतयोः पारस्परिकं समानतन्त्रं च। किञ्च कथमिव बृहत्कथेतराणामितिवृत्तानापि गुणाढ्योपज्ञायां समायोग इति। तदिदं समाधानम्। यथा व्यास-वाल्मीकिकाव्ययोरुल्लेखमात्रेण विष्णु-वायु-मत्स्य-मार्कण्डेयादीनां महापुराणानां सौर-नृसिंह-कालिकाद्युपपुराणानां च कथेतिवृत्तानां ध्वननं तथैव विविधानां कथाख्यायिकानामपि बृहत्कथाव्यपदेशेन भवत्युपलक्षणमिति निगद्यते।

अन्यच्च द्राविडानां शिलप्पधिकार-जीवकचिन्तामणि-कुण्डलकेशीत्यादीनि महाकाव्यानि, नेडुनल्वाडै-मधुरैक्काञ्जि-तिरुमुरुगाट्रुप्पडै-प्रमुखानि खण्डकाव्यानि, कुरुन्तुगै-कलित्तुगै-नट्रिणै-नर्रिणै-अगनानूरु-ऐङुरुनूरु-मुखानि मुक्तकसङ्कलनान्यपि बृहत्कथाकुटुम्बस्य निकटबन्धुत्वेनैव गणनां गच्छन्तीति विदांक्रियते विपश्चिज्जनः।

इदमेवं किल महता कालेन संस्कृतवाचि विद्यमाना लौकिकी रसमयी च साहिती भाषेतिवृत्तदृशा चिरन्तनाभिनवक्रमेण व्यवस्थापिताऽस्माभिः।

III

वयमिदानीमभिजातकाव्यानां विच्छित्तिविशिष्टतां संक्षेपेण पश्यामः। अत्र तु भास-कालिदास-शूद्रक-विशाखदत्तादयः केचन एव महाकवयः परिस्फुरन्ति। एतेषां कृतिषु सुतरां सुन्दरं समन्वितं च शब्दार्थदाम्पत्यं दरीदृश्यते। अत्र शब्दार्थयोर्व्यपदेशस्तु कविसृष्टिसमग्रस्य रूप-स्वरूपयोरेव निर्विशेषाद्वैतं कटाक्षीकुरुत इत्यवधेयम्। तन्नाम नूनमभिजातकाव्ये यस्मिन्कस्मिन्नपि वर्णनेतिवृत्तयोः, कथन-पात्रयोः(प्रकृत्योः/भूमिकयोः), वक्रोक्ति-रसादिध्वन्योः वास्तवादर्शयोश्च परमं सामरस्यं जागर्तीति मतम्। शास्त्रमात्रशारण्यापेक्षया शास्त्रसद्भावप्रत्यभिज्ञानमेवात्र व्यपदिष्टमित्यपि न विस्मर्तव्यम्। यतो हि नाम-रूपयोः परमं प्रयोजनं सच्चिदानन्दघन एवेति ब्रह्मात्मैक्यवादिनां वेदान्तिनां निर्विशिष्टसार्वत्रिकानुभवप्राणितः समयस्तु सर्वशास्त्राणां कलानां जीवनविधानानामपि यथायोग्यं दिग्दर्शनमिति निश्चयो निर्बाधं प्रवर्तते।

अभिजातकाव्यमार्गो नाम विच्छित्तिविच्छुरितया कयापि निस्सीमसमतया विभ्राजमानः कवितल्लजकैवल्यकल्पः। अत्र कविकर्म शक्तं सदपि कोमलं, सूक्ष्मं सदपि व्यापकं, रसिलं सदपि संस्कृतं, मसृणं सदपि निष्ठुरं, निर्भरं सदपि निर्ममं, समग्रं सदपि संक्षिप्तं, संयतं सदपि समृद्धञ्च भवतीति स्वाधीनकालिदासादीनां नितरामपरोक्षमेव। किमधिकेनात्र वचोविग्लापनेन? वास्तवादर्शयोः, ज्ञानविज्ञानयोः, व्युत्पत्तिसौन्दर्ययोश्च समास एव तदिदम्। कस्याश्चिदपि सुसंस्कृत्याः पर्यन्तभूमिः, कस्यापि च महाकवेः परिणतफलं काव्यमभिजातमिति प्रकरणमिदं समापयामः।

[This formed the content of the author's Presidential Address in the symposium on 'Modern Sanskrit Writing' held at Shringeri.]

Continued in the next part. 

Author(s)

About:

Dr. Ganesh is a 'shatavadhani' and one of India’s foremost Sanskrit poets and scholars. He writes and lectures extensively on various subjects pertaining to India and Indian cultural heritage. He is a master of the ancient art of avadhana and is credited with reviving the art in Kannada. He is a recipient of the Badarayana-Vyasa Puraskar from the President of India for his contribution to the Sanskrit language.

Prekshaa Publications

The Mahābhārata is the greatest epic in the world both in magnitude and profundity. A veritable cultural compendium of Bhārata-varṣa, it is a product of the creative genius of Maharṣi Kṛṣṇa-dvaipāyana Vyāsa. The epic captures the experiential wisdom of our civilization and all subsequent literary, artistic, and philosophical creations are indebted to it. To read the Mahābhārata is to...

Shiva Rama Krishna

சிவன். ராமன். கிருஷ்ணன்.
இந்திய பாரம்பரியத்தின் முப்பெரும் கதாநாயகர்கள்.
உயர் இந்தியாவில் தலைமுறைகள் பல கடந்தும் கடவுளர்களாக போற்றப்பட்டு வழிகாட்டிகளாக விளங்குபவர்கள்.
மனித ஒற்றுமை நூற்றாண்டுகால பரிணாம வளர்ச்சியின் பரிமாணம்.
தனிநபர்களாகவும், குடும்ப உறுப்பினர்களாகவும், சமுதாய பிரஜைகளாகவும் நாம் அனைவரும் பரிமளிக்கிறோம்.
சிவன் தனிமனித அடையாளமாக அமைகிறான்....

ऋतुभिः सह कवयः सदैव सम्बद्धाः। विशिष्य संस्कृतकवयः। यथा हि ऋतवः प्रतिसंवत्सरं प्रतिनवतामावहन्ति मानवेषु तथैव ऋतुवर्णनान्यपि काव्यरसिकेषु कामपि विच्छित्तिमातन्वते। ऋतुकल्याणं हि सत्यमिदमेव हृदि कृत्वा प्रवृत्तम्। नगरजीवनस्य यान्त्रिकतां मान्त्रिकतां च ध्वनदिदं चम्पूकाव्यं गद्यपद्यमिश्रितमिति सुव्यक्तमेव। ऐदम्पूर्वतया प्रायः पुरीपरिसरप्रसृतानाम् ऋतूनां विलासोऽत्र प्रपञ्चितः। बेङ्गलूरुनामके...

The Art and Science of Avadhānam in Sanskrit is a definitive work on Sāhityāvadhānam, a form of Indian classical art based on multitasking, lateral thinking, and extempore versification. Dotted throughout with tasteful examples, it expounds in great detail on the theory and practice of this unique performing art. It is as much a handbook of performance as it is an anthology of well-turned...

This anthology is a revised edition of the author's 1978 classic. This series of essays, containing his original research in various fields, throws light on the socio-cultural landscape of Tamil Nadu spanning several centuries. These compelling episodes will appeal to scholars and laymen alike.
“When superstitious mediaevalists mislead the country about its judicial past, we have to...

The cultural history of a nation, unlike the customary mainstream history, has a larger time-frame and encompasses the timeless ethos of a society undergirding the course of events and vicissitudes. A major key to the understanding of a society’s unique character is an appreciation of the far-reaching contributions by outstanding personalities of certain periods – especially in the realms of...

Prekṣaṇīyam is an anthology of essays on Indian classical dance and theatre authored by multifaceted scholar and creative genius, Śatāvadhāni Dr. R Ganesh. As a master of śāstra, a performing artiste (of the ancient art of Avadhānam), and a cultured rasika, he brings a unique, holistic perspective...

Yaugandharam

इदं किञ्चिद्यामलं काव्यं द्वयोः खण्डकाव्ययोः सङ्कलनरूपम्। रामानुरागानलं हि सीतापरित्यागाल्लक्ष्मणवियोगाच्च श्रीरामेणानुभूतं हृदयसङ्क्षोभं वर्णयति । वात्सल्यगोपालकं तु कदाचिद्भानूपरागसमये घटितं यशोदाश्रीकृष्णयोर्मेलनं वर्णयति । इदम्प्रथमतया संस्कृतसाहित्ये सम्पूर्णं काव्यं...

Vanitakavitotsavah

इदं खण्डकाव्यमान्तं मालिनीछन्दसोपनिबद्धं विलसति। मेनकाविश्वामित्रयोः समागमः, तत्फलतया शकुन्तलाया जननम्, मातापितृभ्यां त्यक्तस्य शिशोः कण्वमहर्षिणा परिपालनं चेति काव्यस्यास्येतिवृत्तसङ्क्षेपः।

Vaiphalyaphalam

इदं खण्डकाव्यमान्तं मालिनीछन्दसोपनिबद्धं विलसति। मेनकाविश्वामित्रयोः समागमः, तत्फलतया शकुन्तलाया जननम्, मातापितृभ्यां त्यक्तस्य शिशोः कण्वमहर्षिणा परिपालनं चेति काव्यस्यास्येतिवृत्तसङ्क्षेपः।

Nipunapraghunakam

इयं रचना दशसु रूपकेष्वन्यतमस्य भाणस्य निदर्शनतामुपैति। एकाङ्करूपकेऽस्मिन् शेखरकनामा चित्रोद्यमलेखकः केनापि हेतुना वियोगम् अनुभवतोश्चित्रलेखामिलिन्दकयोः समागमं सिसाधयिषुः कथामाकाशभाषणरूपेण निर्वहति।

Bharavatarastavah

अस्मिन् स्तोत्रकाव्ये भगवन्तं शिवं कविरभिष्टौति। वसन्ततिलकयोपनिबद्धस्य काव्यस्यास्य कविकृतम् उल्लाघनाभिधं व्याख्यानं च वर्तते।

Karnataka’s celebrated polymath, D V Gundappa brings together in the third volume, some character sketches of great literary savants responsible for Kannada renaissance during the first half of the twentieth century. These remarkable...

Karnataka’s celebrated polymath, D V Gundappa brings together in the second volume, episodes from the lives of remarkable exponents of classical music and dance, traditional storytellers, thespians, and connoisseurs; as well as his...

Karnataka’s celebrated polymath, D V Gundappa brings together in the first volume, episodes from the lives of great writers, poets, literary aficionados, exemplars of public life, literary scholars, noble-hearted common folk, advocates...

Evolution of Mahabharata and Other Writings on the Epic is the English translation of S R Ramaswamy's 1972 Kannada classic 'Mahabharatada Belavanige' along with seven of his essays on the great epic. It tells the riveting...

Shiva-Rama-Krishna is an English adaptation of Śatāvadhāni Dr. R Ganesh's popular lecture series on the three great...

Bharatilochana

ಮಹಾಮಾಹೇಶ್ವರ ಅಭಿನವಗುಪ್ತ ಜಗತ್ತಿನ ವಿದ್ಯಾವಲಯದಲ್ಲಿ ಮರೆಯಲಾಗದ ಹೆಸರು. ಮುಖ್ಯವಾಗಿ ಶೈವದರ್ಶನ ಮತ್ತು ಸೌಂದರ್ಯಮೀಮಾಂಸೆಗಳ ಪರಮಾಚಾರ್ಯನಾಗಿ  ಸಾವಿರ ವರ್ಷಗಳಿಂದ ಇವನು ಜ್ಞಾನಪ್ರಪಂಚವನ್ನು ಪ್ರಭಾವಿಸುತ್ತಲೇ ಇದ್ದಾನೆ. ಭರತಮುನಿಯ ನಾಟ್ಯಶಾಸ್ತ್ರವನ್ನು ಅರ್ಥಮಾಡಿಕೊಳ್ಳಲು ಇವನೊಬ್ಬನೇ ನಮಗಿರುವ ಆಲಂಬನ. ಇದೇ ರೀತಿ ರಸಧ್ವನಿಸಿದ್ಧಾಂತವನ್ನು...

Vagarthavismayasvadah

“वागर्थविस्मयास्वादः” प्रमुखतया साहित्यशास्त्रतत्त्वानि विमृशति । अत्र सौन्दर्यर्यशास्त्रीयमूलतत्त्वानि यथा रस-ध्वनि-वक्रता-औचित्यादीनि सुनिपुणं परामृष्टानि प्रतिनवे चिकित्सकप्रज्ञाप्रकाशे। तदन्तर एव संस्कृतवाङ्मयस्य सामर्थ्यसमाविष्कारोऽपि विहितः। क्वचिदिव च्छन्दोमीमांसा च...

The Best of Hiriyanna

The Best of Hiriyanna is a collection of forty-eight essays by Prof. M. Hiriyanna that sheds new light on Sanskrit Literature, Indian...

Stories Behind Verses

Stories Behind Verses is a remarkable collection of over a hundred anecdotes, each of which captures a story behind the composition of a Sanskrit verse. Collected over several years from...