भगवत्पादमाहात्म्यम्

अवस्थात्रयम्

इह खलु सप्राणैः सर्वैरपि जाग्रत्-स्वप्न-सुषुप्तिसञ्ज्ञाः तिस्रोऽवस्थाः प्रत्यहम् अनुभूयन्ते। जाग्रति स्वप्ने च यो भेदः सुतराम् अनुभूयते स सुषुप्तौ नाम्नापि नाम्नायते। भेदो हि नामरूपात्मकस्य जगतः प्रधानमिव लक्षणं व्यवह्रियमाणो रागद्वेषात्मना जीवराशौ पदं निधत्ते। सोऽयं भेदो द्वितीयस्य वस्तुनः सद्भावाज्जायते वर्धते च। इदञ्च द्वैतीयीकं वस्तु जीवस्य प्रियाप्रियतया प्रतिपद्यमानम् इष्टं द्विष्टं वा भवति। इष्टनाशस्य अनिष्टप्राप्तेर्वा सम्भावनया जीवो जाग्रत्स्वप्नयोः खिद्यतेतराम्। सुषुप्तौ तावत् इष्टानिष्टहेतुभूतो भेद एव प्रणश्यति, विलसति च सुखदुःखजालम् अतिशयान आनन्दघनोऽभेदः।[1] अभेद एव अद्वैतम्। सोऽयम् अद्वैतसिद्धान्तः सर्वासाम् उपनिषदां निःस्यन्द इत्यातिष्ठमानो भगवत्पादः शङ्करः शास्त्रयुक्त्यनुभवप्रमाणपुरस्सरं तं प्रत्यपीपदत्।[2] तत्राप्यनुभवस्य परमं प्रामाण्यं तेनाभ्युपगतम्[3] इति महान्ननु प्रकर्षो हर्षस्य तत्त्वबुभुत्सूनाम्॥

साधनमार्गाः

सुषुप्तौ विना यत्नं जायमानम् अभेदसिद्धम् आनन्दं जाग्रद्दशायामप्यनुभवितुं साधनमावश्यकम्। भगवत्पादः शङ्करः साधनस्य पन्थानमपि न्यक्षेण व्याचचक्षे। तद्यथा—ब्रह्मनिष्ठमुखात् अर्थविज्ञानं श्रवणम्, श्रुतस्य च युक्तिभिरनुचिन्तनं मननम्, तस्य च नैरन्तर्येण चिरं यावदनुसन्धानं निदिध्यासनं चेति। त्रिविधमिदं साधनं संहत्य ज्ञानयोग इति कथयितुं शक्यते। साधनस्य भक्तिकर्मयोगावपि साह्यम् आचरतः। भक्तिर्नाम भगवति परमप्रेमरूपा “ज्ञाननिष्ठा क्रिया”। तत्प्राप्तिमार्गो भक्तियोगः। स्वसहजस्य स्वपरहितस्य विहितस्य च कर्मणः फलाभिसन्धिं विना सम्यगनुष्ठानं कर्मयोगः। “चित्तस्य शुद्धये कर्म न च वस्तूपलब्धये।” भगवत्पादेन साधनस्य चातुर्विध्यमपि उपवर्णितम्, यथा—नित्यानित्यवस्तुविवेकः, इहामुत्रफलभोगविरागः, शमादिषट्कसम्पत्तिः, मुमुक्षुत्वं चेति। ब्रह्मैकं नित्यं तदितरत् सर्वमनित्यमिति बोधो नित्यानित्यवस्तुविवेकः। ईश्वरार्पणबुद्ध्या कर्म अनुष्ठेयम्, तत्फलमिह जगति लोकान्तरे वा याथाकथाचं भवत्विति भावना इहामुत्रफलभोगविरागः। अन्तरिन्द्रियनिग्रहः शमः, बहिरिन्द्रियनिग्रहो दमः, सर्वचेष्टानिवृत्तिः उपरतिः, द्वन्द्वसहिष्णुता तितिक्षा, आस्तिक्यबुद्धिः श्रद्धा, निर्वृतिः समाधानं चेति शमादिषट्कसम्पत्तिः। क्लेशबहलात् संसारात् आत्मानं मोचयितुमिच्छा मुमुक्षा चेति साधनचतुष्टयविवेकः॥   

अध्यासः

“ब्रह्म सत्यं जगन्मिथ्या जीवो ब्रह्मैव नापरः” इति अद्वैतसिद्धान्तसारसङ्क्षेपः। ब्रह्मैकं सत्यम्, जगत् मिथ्यामात्रम्, जीवो ब्रह्मणोऽभिन्न इति निर्गलितोऽर्थः। मिथ्येति अयथार्थवाची शब्दो भेदसिद्धां सापेक्षतां बोधयति। अतः किल जगन्मिथ्येति प्रतिपादयन् शङ्करो न तन्निराचकार, प्रत्युत समुचितं तत्स्थानं निरदिक्षत् इत्यध्यवसातुं युक्तम्।[4] जगतः पारमार्थिकं सत्यत्वम् अनभ्युपगच्छतापि भगवत्पादेन तदीयं व्यावहारिकं सत्यत्वम् अभ्युपेयत इति सर्वं सुस्थम्। मिथ्यात्वं हि देशकालाभ्यां सिद्ध्यति। ताभ्यामेव पुनः कार्यकारणसरणिः सरीसृज्यते। ब्रह्म तु देशकालातीतं कार्यकारणातिगञ्च वस्तु सच्चिदानन्दरूपम्। इदमेव जगद्रूपेण बहुधा विवर्तते। यथा सलिलम् आवर्त-बद्बुद-तरङ्गादीन् विकारान् अश्नुते तद्वदेतदपीति बोध्यम्। ननु जगति व्यवहर्तुं प्रांशुता, न्युब्जता; स्थूलत्वं, कृशत्वम्; स्त्रैणं पौंस्नम् इत्येवं बहुविधा भेदा अस्माभिराश्रीयन्ते। स्थाने खल्विदम् आश्रयणम्, अतथात्वे व्यवहारासम्भवात्। किञ्च “अतस्मिन् तद्बुद्ध्या” “इतरेतराविवेकेन” च बाह्यधर्माः, देहधर्माः, इन्द्रियधर्माः, अन्तःकरणधर्माश्च आत्मनि अध्यस्यन्ते। इदं तावत् अत्यन्तायुक्तकोटिम् आटीकते। “तमेनमध्यासं पण्डिता अविद्येति मन्यन्ते। अस्य अनर्थहेतोः प्रहाणाय आत्मैकविद्याप्रतिपत्तये च सर्वे वेदान्ता आरभ्यन्ते” (अध्यासभाष्यम्) इति सम्प्रतिपद्यते भगवत्पादः शङ्करः॥  

नेतिमार्गः, अध्यारोपापवादप्रक्रिया

जगदिदं मिथ्यामात्रम् आत्मा च निर्विकल्प इति प्रत्यभिज्ञापयितुं नेतिमार्गः श्रुत्या आश्रीयते। अनुभवैकगोचराणां पदार्थानां निर्वचने समादर्तव्योऽयम् अनन्यशरण्यो मार्गः। लोकान् ब्रह्म अवगमयितुं प्रवृत्ता भगवती श्रुतिः “नेति नेति” इति कथयन्ती नैव चोद्यतां प्रतिपद्यत इति स्पष्टयति शङ्करः—“ननु महता यत्नेन परिकरबन्धं कृत्वा किं युक्तम् एवं निर्देष्टुं ब्रह्म? बाढम्; कस्मात्? न हि –  यस्मात् , ‘इति न, इति न’ इत्येतस्मात् – इतीति व्याप्तव्यप्रकारा नकारद्वयविषया निर्दिश्यन्ते, यथा ग्रामो ग्रामो रमणीय इति – अन्यत्परं निर्देशनं नास्ति; तस्मादयमेव निर्देशो ब्रह्मणः। ... यदा पुनः स्वरूपमेव निर्दिदिक्षितं भवति निरस्तसर्वोपाधिविशेषम्, तदा न शक्यते केनचिदपि प्रकारेण निर्देष्टुम्; तदा अयमेवाभ्युपायः – यदुत प्राप्तनिर्देशप्रतिषेधद्वारेण ’नेति नेति’ इति निर्देशः” (बृहदारण्यकोपनिषद्भाष्यम्, २.३.६)॥

निर्विशिष्टं ब्रह्म यथातथं प्रत्याययितुम् अध्यारोपापवादाख्यः कश्चिन्न्यायो वेदान्तिभिराश्रीयते। “अध्यारोपापवादाभ्यां निष्प्रपञ्चं प्रपञ्च्यते” इति हि श्रूयते। अज्ञानिभिरात्मनि आरोपितेषु भूयस्सु विकल्पेषु कञ्चिदाश्रित्य, ततः स्थूलतरं विकल्पान्तरम् उपादाय, तस्य च परमार्थतोऽसद्भावं प्रदर्श्य, प्रथमं परिकल्पितस्यापि विकल्पस्य अभावत्वबोध एव अध्यारोपापवादन्यायस्य क्रमः। उपदेशार्थं ब्रह्मणि विकल्पस्य स्वीकारः “अध्यारोपः”, तन्निरासश्च “अपवादः” इति तद्विवेकः। अयं च न्यायो भगवत्पादेन निपुणम् उपयक्तः समर्थितश्च॥[5]

ग्रन्थराशिः

अनन्यसाधारणधिषणाधनः शङ्करः स्वयम् आत्मानं साक्षात्कृत्य नतराम् अतृपत्, नतमां जगदुपैक्षत। सर्वे लोकाः स्वं रूपं प्रत्यभिज्ञाय चिरं मोदन्तामिति मनीषया स निजज्ञानं जगता संव्यभजत। तस्मादेव स “करुणावरुणालयः” कथ्यते। जगति नैकप्रकारया प्रज्ञया भावशक्त्या च संवलिता भवन्ति लोका इति विज्ञाय[6] भगवत्पादः सर्वसुग्रहान् नैकविधान् ग्रन्थान् अग्रन्थीत्। तथा हि प्रस्थानत्रयव्याख्यानं प्राथमकल्पिकं मन्वान उपनिषदो भगवद्गीतां ब्रह्मसूत्राणि च वैदुष्यपूर्णैः स्वभाष्यैः प्रसाधयाञ्चक्रे। ततः शास्त्रसारं सारल्येन बोधयितुं लघुकायान् प्रकरणग्रन्थान् अररचत्। ततश्च बुद्धिगम्यं विचारं भावद्वारा ज्ञापयितुं विविधा देवता उद्दिश्य बन्धुराणि स्तोत्राणि समदर्भीत्। स हि सर्वा अपि देवताः परब्रह्मणः सगुणरूपा इत्युरसिकृत्य अभेदभावेन ता अस्तावीत्। इत्थं समेषां लोकानां श्रेयः कामयमानस्य अन्वर्थनाम्नः शिवतातेः शङ्करस्य निरुपमम् औदार्यम्। यदि तदुपदिष्टं ज्ञानम् आञ्जस्येन अवाप्यते, नूनमेव भीतिः पलायते, लोकमैत्री च फलायते। विश्वशान्तिं साधयितुं नः क्षोदक्षमः पन्था अयमेक एवाद्वैताख्यः। अयञ्च आधुनिकजगदुज्जृम्भितं सर्वसमत्वं स्वातन्त्र्यं च सलीलं साध्नोति॥ 

भारतवर्षैक्यसाधनम्

इत्थम् आध्यात्मिकभूमिकायां सर्वसामरस्यं सम्पाद्य आधिभौतिक-आधिदैविकभूमिकयोरपि तत्साधयितुं स प्रावर्तत। तथा हि समग्रे भारतवर्षे पद्भ्यां सञ्चर्य पामरान् पण्डितांश्च निपुणम् उद्बोधयामास। देशस्यास्य चतसृषु दिशासु चतुर आम्नायमठान् प्रत्यतिष्ठिपत्। बदर्यां शृङ्गगिरौ द्वारकायां पुर्याञ्च स्वशिष्यान् तोटकाचार्य-सुरेश्वराचार्य-पद्मपादाचार्य-हस्तामलकाचार्यान् यथाक्रमं प्रथमाधिपतित्वेन न्ययूयुजत्। तत्तत्पीठेषु प्रतिष्ठापिता आचार्याः तद्भिन्नेषु प्रान्तेषु लब्धजन्मान इति कापि काशते वैचित्री। एवं हि भगवत्पादः शङ्करो भौतिकान्मठान् प्रतिष्ठाप्य भारतस्य ऐक्यम् असाधयत्॥

आधिदैविकभूमिकायां तावत् शैव-सौर-शाक्त-वैष्णव-कौमार-गाणपताख्यानि षण्मतानि परस्पराविरुद्धेन विधिना सङ्गमय्य षण्मतस्थापनाचार्य इति पप्रथे। पञ्चायतनाभिधां पूजापद्धतिं चाविष्कृत्य देवतासमन्वयम् अचीक्लृपत्। अत्रापि भारतवर्षस्य विविधान् प्रदेशान् सम्बन्धयामास। ननु पञ्चायतनपद्धतौ शिव-शक्ति-विष्णु-सूर्य-गणपतिसञ्ज्ञाः सन्ति पञ्च देवताः। अमूषां प्रतिनिधित्वेन विविधासु पुण्यनदीषु लभ्याः शिलाः स व्यवास्थापयत्। तद्यथा—(१) शिवस्य प्रतिनिधित्वेन मध्यभारतस्थायां नर्मदायां लभ्यं बाणलिङ्गम्, (२) शक्तेः प्रतिनिधित्वेन दक्षिणस्यां दिशि प्रवहन्त्यां सुवर्णमुखरीनद्यां लभ्या अम्बिकाशिला, (३) विष्णोः प्रतिनिधित्वेन उत्तरस्यां दिशि प्रवहन्त्यां गण्डकीनद्यां लभ्यः शालग्रामः, (४) सूर्यस्य प्रतिनिधित्वेन पश्चिमदेशस्थायां सरस्वत्यां लभ्या स्फटिकशिला, (५) गणपतेः प्रतिनिधित्वेन पूर्वदेशस्थिते शोणनदे लभ्यः शोणभद्रपाषाणश्च॥

तदित्थं देशकालाबाधितम् अद्वैततत्त्वम् उपदिश्य पूर्वोक्तासु तिसृषु भूमिकासु भारतवर्षस्य ऐक्यं संसाध्य च भगवत्पादः शङ्करो महतीमुपकृतिम् अतानीत्। समन्वयाविरोधौ तदीयोच्छ्वासनिःश्वासकल्पाविति वक्तुं युक्तम्। सदृशं चैतत् मङ्गल्यस्य तद्व्यक्तिसत्त्वस्य। अन्यच्च स समग्रे भारतवर्षे प्रचुरप्रचारां संस्कृतभाषां निजाभिव्यक्तिमाध्यमत्वेन स्वीकृत्य प्रान्तभेदान् अत्यशेत॥

पाण्डित्यप्राभवं प्रश्रयश्च

भगवान् परमेश्वर एव शङ्करनाम्ना कृतावतार इत्यैककण्ठ्यं वेदान्तिनाम्। स हि भगवत्पादः सर्वेष्वपि शास्त्रेषु नदीष्णः सन् वादिनो विजित्य काश्मीरे सर्वज्ञपीठम् अधिरुरोह। वादे चात्मानं व्यापारयन् महता ग्रन्थसन्दर्भेण स्वपक्षम् अस्थापयत् तदुपफलत्वेन च परमतानि निरास्थत्। न हि परमतखण्डनैकोद्देशेन ग्रन्थरचनां स उपाक्रंस्त। यत्तेनैव कण्ठरवेणोक्तम्—“ननु मुमुक्षूणां मोक्षसाधनत्वेन सम्यग्दर्शननिरूपणाय स्वपक्षस्थापनमेव केवलं कर्तुं युक्तम्; किं परपक्षनिराकरणेन परविद्वेषकारणेन? बाढमेवम्; तथापि महाजनपरिगृहीतानि महान्ति साङ्ख्यादितन्त्राणि सम्यग्दर्शनापदेशेन प्रवृत्तान्युपलभ्य भवेत्केषाञ्चिन्मन्दमतीनाम् – एतान्यपि सम्यग्दर्शनायोपादेयानि – इत्यपेक्षा, तथा युक्तिगाढत्वसम्भवेन सर्वज्ञभाषितत्वाच्च श्रद्धा च तेषु – इत्यतस्तदसारतोपपादनाय प्रयत्यते” (शारीरकभाष्यम्, २.२.३७)॥

तत्तादृशोऽयम् अपरोक्षज्ञानी समभूत्। यदुक्तं बृहदारण्यकोपनिषद्भाष्ये (१.४.६)—“व्यावृत्तकृत्स्नोपाधिभेदापेक्षया तु सर्वः परत्वेनाभिधीयते श्रुतिस्मृतिवादैः।” स एवम्भूतः शास्त्रार्थनिर्णयप्रसङ्गे स्वाभ्युपगतवेदान्तयाथार्थ्यप्रतिष्ठापनावसरे च महतीं निर्भीतिं महान्तं चात्मप्रत्ययं प्रदर्शयतीति नैतच्चित्रम्। स्पष्टमिदं तैत्तिरीयोपनिषद्भाष्ये (२.८.५)—“चिन्तयसि च त्वम्, न तु निर्णेष्यसि; किं न निर्णेतव्यमिति वेदवचनम्? न; कथं तर्हि? बहुप्रतिपक्षत्वात्; एकत्ववादी त्वम्, वेदार्थपरत्वात्; बहवो हि नानात्ववादिनो वेदबाह्याः त्वत्प्रतिपक्षाः; अतो ममाशङ्का – न निर्णेष्यसीति । एतदेव मे स्वस्त्ययनम् – यन्मामेकयोगिनमनेकयोगिबहुप्रतिपक्षमात्थ । अतो जेष्यामि सर्वान्; आरभे च चिन्ताम्॥”

आत्मज्ञानं लब्धुं समेऽपि लोका भवन्त्यधिकारिण इति तेन प्रत्यपादि—“सर्वेषां चाधिकारो विद्यायाम्” (तैत्तिरीयभाष्यम्, १.११.४)।[7] अथ चासौ यानि ज्ञानिलक्षणानीति परिगण्यन्ते तान्येव साधनान्युपदिश्यन्त इत्युक्त्वा साधकान् अन्वग्रहीत्—“सर्वत्रैव हि अध्यात्मशास्त्रे कृतार्थलक्षणानि यानि तान्येव साधनान्युपदिश्यन्ते” (भगवद्गीताभाष्यम्, २.५५)। किं बहुना, शारीरकभाष्यस्यान्ते (४.४.२२) सगुणशरणानामपि मोक्षोपायोऽस्तीति कथयति भगवत्पादः—“सम्यग्दर्शनविध्वस्ततमसां तु नित्यसिद्धनिर्वाणपरायणानां सिद्धैव अनावृत्तिः; तदाश्रयणेनैव हि सगुणशरणानामप्यनावृत्तिसिद्धिरिति।” अनेन तदीयम् औदार्यं निपुणं व्यज्यते॥

तत्प्रश्रयस्य इदमेकमुदाहरणं निभाल्यताम्। षट्पदीस्तोत्रे स्वेष्टदेवतां स्तुवन् भगवत्पादः स्तुतिसरणिमित्थम् आरभते—

अविनयमपनय विष्णो

दमय मनः शमय विषयमृगतृष्णाम्।

भूतदयां विस्तारय

तारय संसारसागरतः॥

मोक्षं लब्धुं या शमादिषट्कसम्पत् आवश्यकीति स ग्रन्थान्तरे न्यरूपयत्, ताम् अनुगृहाणेति भगवन्तं प्रार्थयते शङ्करः। न ह्यविनीतः शास्त्रमध्येतुं ब्रह्म च साक्षात्कर्तुमीष्ट इति कृत्वा प्रथमम् अविनयमपनयेति जगन्नाथम् अनुनाथते। एवं विनयरूपं शमादिरूपं च संस्कारं लब्ध्वा कश्चिन्मोक्षम् अधिगच्छेत्। स यद्यपि मुक्तो भवति, अथापि भगवत्पादशब्दभाक् न भवति। स एव भवेद्भगवत्पादो यः स्वमोक्षप्राप्तेः पूर्वम् अन्यानपि जीवान् ज्ञानप्रदानेन समुद्दिधीर्षुः “भूतदयां विस्तारय” इति अभ्यर्थयते। सिद्धानाम् अग्रणीरपि शङ्करोऽत्र आत्मानं साधकसामान्यं मनुत इत्यहो महिम्नः काष्ठा! प्रायेणेदृशी प्रार्थना केनाप्यन्येन विदुषा न कृता॥  

शङ्करेण स्वगुरौ परमो विनयः प्रदर्श्यते। माण्डूक्योपनिषद्भाष्यस्यान्ते कारिकाकर्तारं गौडपादाचार्यं स इत्थम् अभितुष्टाव—“यस्तं पूज्याभिपूज्यं परमगुरुममुं पादपातैर्नतोऽस्मि।” अथ च संयमीन्द्रः स विनाशधर्मसु विषयेषु नितराम् अनासक्तः सन् पराङ्मुखानि इन्द्रियाणि निगृह्य दक्षिणामूर्तिरिव मौनम् आस्थातुमैच्छत्। अत एव संन्यासधर्मं व्याचक्षाणेन तेन तदिदं स्मृतिवाक्यम् उदलेखि—“गूढधर्माश्रितो विद्वानज्ञातचरितं चरेत्। अन्धवज्जडवच्चैव मूकवच्च महीं चरेत्” इति (शारीरकभाष्यम्, ३.४.५०)॥   

वाग्व्यवहारवैपश्चिती

भगवत्पादः शङ्करः प्रसन्नगम्भीरेण निजवचनरचनाचातुर्येण देवभाषामपि भूषयामास। तदीया शैली शास्त्रार्थं प्रतिपादयितुम् आवश्यकीम् अन्यूनाधिकां स्पष्टतां बिभ्रती यौगपद्येन काव्यपेशलतां लौकिकसम्भाषणचमत्क्रियां च साधयति॥

शास्त्रनिरूपणोदाहरणं यथा—

“तमेतमविद्याख्यमात्मानात्मनोरितरेतराध्यासं पुरस्कृत्य सर्वे प्रमाणप्रमेयव्यवहारा लौकिका वैदिकाश्च प्रवृत्ताः, सर्वाणि च शास्त्राणि विधिप्रतिषेधमोक्षपराणि। कथं पुनरविद्यावद्विषयाणि प्रत्यक्षादीनि प्रमाणानि शास्त्राणि चेति, उच्यते – देहेन्द्रियादिषु अहंममाभिमानरहितस्य प्रमातृत्वानुपपत्तौ प्रमाणप्रवृत्त्यनुपपत्तेः। न हीन्द्रियाण्यनुपादाय प्रत्यक्षादिव्यवहारः सम्भवति। न चाधिष्ठानमन्तरेण इन्द्रियाणां व्यापारः सम्भवति। न चानध्यस्तात्मभावेन देहेन कश्चिद्व्याप्रियते। न चैतस्मिन् सर्वस्मिन्नसति असङ्गस्यात्मनः प्रमातृत्वमुपपद्यते। न च प्रमातृत्वमन्तरेण प्रमाणप्रवृत्तिरस्ति। तस्मादविद्यावद्विषयाण्येव प्रत्यक्षादीनि प्रमाणानि शास्त्राणि चेति”॥ (अध्यासभाष्यम्)

“न तु वस्तु ‘एवम्, नैवम्’ ‘अस्ति, नास्ति’ इति वा विकल्प्यते। विकल्पनास्तु पुरुषबुद्ध्यपेक्षाः। न वस्तुयाथात्म्यज्ञानं पुरुषबुद्ध्यपेक्षम्। किं तर्हि? वस्तुतन्त्रमेव तत्। न हि स्थाणावेकस्मिन् ‘स्थाणुर्वा, पुरुषोऽन्यो वा’ इति तत्त्वज्ञानं भवति। तत्र ‘पुरुषोऽन्यो वा’ इति मिथ्याज्ञानम्। ‘स्थाणुरेव’ इति तत्त्वज्ञानम्, वस्तुतन्त्रत्वात्। एवं भूतवस्तुविषयाणां प्रामाण्यं वस्तुतन्त्रम्। तत्रैवं सति ब्रह्मज्ञानमपि वस्तुतन्त्रमेव, भूतवस्तुविषयत्वात्”॥ (शारीरकभाष्यम्, १.१.२)  

काव्यपेशलतासम्पादनोदाहरणं यथा—

“तेषामेव कथं नु नाम श्रेयः स्यात् इति अनुकम्पार्थं दयाहेतोः अहम् अज्ञानजम् अविवेकतः जातं मिथ्याप्रत्ययलक्षणं मोहान्धकारं तमः नाशयामि, आत्मभावस्थः आत्मनः भावः अन्तःकरणाशयः तस्मिन्नेव स्थितः सन् ज्ञानदीपेन विवेकप्रत्ययरूपेण भक्तिप्रसादस्नेहाभिषिक्तेन मद्भावनाभिनिवेशवातेरितेन ब्रह्मचर्यादिसाधनसंस्कारवत्प्रज्ञावर्तिना विरक्तान्तःकरणाधारेण विषयव्यावृत्तचित्तरागद्वेषाकलुषितनिवाता-पवारकस्थेन नित्यप्रवृत्तैकाग्र्यध्यानजनितसम्यग्दर्शनभास्वता ज्ञानदीपेनेत्यर्थः”॥ (भगवद्गीताभाष्यम्, १०.११)

“ऊर्ध्वमूलः ऊर्ध्वं मूलं यत् तद्विष्णोः परमं पदमस्येति सोऽयमव्यक्तादिस्थावरान्तः संसारवृक्षः ऊर्ध्वमूलः। वृक्षश्च व्रश्चनात् विनश्वरत्वात्। अविच्छिन्नजन्मजरामरणशोकाद्यनेकानर्थात्मकः प्रतिक्षणम् अन्यथास्वभावः मायामरीच्युदकगन्धर्वनगरादिवद्दृष्टनष्टस्वरूपत्वादवसाने च वृक्षवदभावात्मकः कदलीस्तम्भवन्निःसारः अनेकशतपाषण्डबुद्धिविकल्पास्पदः तत्त्वविजिज्ञासुभिरनिर्धारितेदन्तत्त्वः वेदान्तनिर्धारितपरब्रह्ममूलसारः अविद्याकामकर्माव्यक्तबीजप्रभवः अपरब्रह्मविज्ञानक्रियाशक्तिद्वयात्मकहिरण्यगर्भाङ्कुरः सर्वप्राणिलिङ्गभेदस्कन्धः तत्तत्तृष्णाजलासेकोद्भूतदर्पः बुद्धीन्द्रियविषयप्रवालाङ्कुरः श्रुतिस्मृतिन्यायविद्योपदेशपलाशः यज्ञदानतपआद्यनेकक्रियासुपुष्पः सुखदुःखवेदनानेकरसः प्राण्युपजीव्यानन्तफलः तत्तृष्णासलिलावसेकप्ररूढजटिलीकृतदृढबद्धमूलः सत्यनामादिसप्तलोकब्रह्मादिभूतपक्षिकृतनीडः प्राणिसुखदुःखोद्भूतहर्षशोकजातनृत्यगीतवादित्रक्ष्वेलितास्फोटितहसिताक्रुष्टरुदितहाहामुञ्चमुञ्चेत्याद्यनेकशब्दकृततुमुलीभूतमहारवः वेदान्तविहितब्रह्मात्मदर्शनासङ्गशस्त्रकृतोच्छेदः एष संसारवृक्ष अश्वत्थः अश्वत्थवत्कामकर्मवातेरितनित्यप्रचलितस्वभावः... ”॥ (कठोपनिषद्भाष्यम्, २.६.१)

लौकिकसम्भाषणचमत्क्रियोत्पादनोदाहरणं यथा—

“न हि अग्निरुष्णः सन् स्वात्मानं दहति, न हि नटः शिक्षितः सन् स्वस्कन्धमधिरोक्ष्यति”॥ (शारीरकभाष्यम्, ३.३.५४)

“न हि पद्भ्यां पलायितुं पारयमाणो जानुभ्यां रंहितुमर्हति”॥ (शारीरकभाष्यम्, ३.१.१०)

“कश्चित्किल मनुष्यो मुग्धः कैश्चिदुक्तः कस्मिंश्चिदपराधे सति धिक्त्वां नासि मनुष्य इति। स मुग्धतया आत्मनो मनुष्यत्वं प्रत्याययितुं कञ्चिदुपेत्याह – ब्रवीतु भवान्कोऽहमस्मीति। स तस्य मुग्धतां ज्ञात्वा आह – क्रमेण बोधयिष्यामीति। स्थावराद्यात्मभावमपोह्य न त्वममनुष्य इत्युक्त्वोपरराम। स तं मुग्धः प्रत्याह – भवान्मां बोधयितुं प्रवृत्तस्तूष्णीं बभूव, किं न बोधयतीति। तादृगेव तद्भवतो वचनम्॥” (ऐतरेयोपनिषद्भाष्यम्, २.४)

भगवत्पादीयं वीध्रं वचः काव्यकौशलं च निदर्शयितुं शिवानन्दलहर्या एकयालम्। तत्र हि सन्ति बहूनि सम्यञ्चि रूपकरूपितानि भावनिर्भराणि पद्यानि। तत्रत्यमेकं पद्यं सहृदयचेतश्चमत्काराय उदाह्रियते—

अङ्कोलं निजबीजसन्ततिरयस्कान्तोपलं सूचिका

साध्वी नैजविभुं लता क्षितिरुहं सिन्धुः सरिद्वल्लभम्।

प्राप्नोतीह यथा तथा पशुपतेः पादारविन्दद्वयं

चेतोवृत्तिरुपेत्य तिष्ठति सदा सा भक्तिरित्युच्यते॥६१

अत्र हि भक्तेः स्वरूपं बहुभिरुपमानैः स्फारीकृतम्। पद्यस्यास्य स्वारस्यं आर्यगृह्येण तत्रभवता लङ्काभिजनेन कृष्णमूर्तिवर्येण निपुणं व्याख्यातम्। तदत्रानूद्यते। अङ्कोलबीजानि हि तन्मूलं वर्षाकाल एव श्रयन्ते। तस्मात् कालबाधितोऽयं समागमः। अयसः कान्तवलये वर्तमान एव अयस्कान्तोपलस्तम् आकर्ष्टुं प्रभवति। तस्मात् देशबाधितोऽयं समागमः। साध्वी नैजविभुं विवाहसंस्कारं विना प्राप्तुं न शक्नोति। तस्मात् निमित्तबाधितोऽयं समागमः। लताक्षितिरुहसङ्गमे सारूप्यं नास्ति। किञ्च यदा “नद्यः स्यन्दमानाः समुद्रेऽस्तं गच्छन्ति नामरूपे विहाय” तदा सायुज्यमेव संलक्ष्यते। इत्थं देश-काल-निमित्ताद्युपाधीन् अतीत्य नश्चेतोवृत्तिः परमेश्वरे लीयेत। सैषा प्रक्रिया भक्तिः कथ्यते। इयमेव ज्ञानाभिन्ना परा भक्तिः॥

*          *          *

इत्थं शताधिकवत्सराणि धरण्यां स्थितवतापि लोकेन कर्तुमशक्यानि महान्ति कार्याणि भगवत्पादेन केवलं द्वात्रिंशता वत्सरैः निर्वर्तितानि। वयमिह तदुपदिष्टं ज्ञानमाकलयितुं प्रयतमानाः स्वात्मानं कृतार्थयाम इति सर्वं शिवम्॥

“अज्ञानान्तर्गहनपतितानात्मविद्योपदेशै-

स्त्रातुं लोकान् भवदवशिखातापपापच्यमानान्।

मुक्त्वा मौनं वटविटपिनो मूलतो निष्पतन्ती

शम्भोमूर्तिश्चरति भुवने शङ्कराचार्यरूपा॥”

(माधवीयशङ्करदिग्विजयः, ४.६०)

                 



[1] एवमविद्याप्रत्युपस्थापितद्वैतसम्पृक्त आत्मा स्वप्नजागरितावस्थयोः कर्ता दुःखी भवति, सः तच्छ्रमापनुत्तये स्वमात्मानं परं ब्रह्म प्रविश्य विमुक्तकार्यकारणसङ्घातोऽकर्ता सुखी भवति सम्प्रसादावस्थायाम् – तथा मुक्त्यवस्थायामप्यविद्याध्वान्तं विद्याप्रदीपेन विधूय आत्मैव केवलो निर्वृतः सुखी भवति ॥ (शारीरकभाष्यम्, २.३.४०)

[2] न धर्मजिज्ञासायामिव श्रुत्यादय एव प्रमाणं ब्रह्मजिज्ञासायाम् । किन्तु श्रुत्यादयोऽनुभवादयश्च यथासम्भवमिह प्रमाणम्, अनुभवावसानत्वाद् भूतवस्तुविषयत्वाच्च ब्रह्मज्ञानस्य ॥ (शारीरकभाष्यम्, १.१.२)

[3] अनुभवारूढं तु ज्ञानफलम्॥ (शारीरकभाष्यम्, ३.३.३२); न हि श्रुतिशतमपि शीतोऽग्निरप्रकाशो वेति ब्रुवत्प्रामाण्यमुपैति॥ (भगवद्गीताभाष्यम्, १८.६६)

[4] भेदस्तु उपाधिनिमित्तो मिथ्याज्ञानकल्पितो न पारमार्थिकः॥ (शारीरकभाष्यम्, १.४.१०); सर्वं ह्यन्तःकरणविकारमेव जगत्। मनस्येव सुषुप्ते प्रलयदर्शनात्। जागरितेऽपि तत एवाग्निस्फुलिङ्गवद्विप्रतिष्ठानात्॥ (मुण्डकोपनिषद्भाष्यम्, २.१); प्राग्ब्रह्मात्मताप्रतिबोधादुपपन्नः सर्वो लौकिको वैदिकश्च व्यवहारः। यथा सुप्तस्य प्राकृतस्य जनस्य स्वप्ने उच्चावचान् भावान् पश्यतो निश्चितमेव प्रत्यक्षाभिमतं विज्ञानं भवति प्राक्प्रबोधात्। न च प्रत्यक्षाभासाभिप्रायस्तत्काले भवति तद्वत्॥ (शारीरकभाष्यम् , २.१.१४)

[5] उपाधिकृतं मिथ्यारूपमपि अस्तित्वाधिगमाय ज्ञेयधर्मवत् परिकल्प्य उच्यते ’सर्वतःपाणिपादम्’ इत्यादि (भगवद्गीताभाष्यम्, १३.१३); अपवादो नाम – यत्र कस्मिंश्चिद्वस्तुनि पूर्वनिविष्टायां मिथ्याबुद्धौ निश्चितायाम्, पश्चादुपजायमाना यथार्था बुद्धिः पूर्वनिविष्टाया मिथ्याबुद्धेः निवर्तिका भवति। यथा देहेन्द्रियसङ्घाते आत्मबुद्धिः, आत्मन्येव आत्मबुद्ध्या पश्चाद्भाविन्या ’तत्त्वमसि’ इत्यनया यथार्थबुद्ध्या निवर्त्यते। यथा वा दिग्भ्रान्तिबुद्धिः दिग्याथात्म्यबुद्ध्या निवर्त्यते (शारीरकभाष्यम्, ३.३.९)॥

[6] न हि अविकारेऽनन्ते ब्रह्मणि सर्वैः पुम्भिः शक्या बुद्धिः स्थापयितुम्, मन्दमध्यमोत्तमबुद्धित्वात् पुंसाम्॥ (शारीरकभाष्यम्, ३.२.३३)

[7] अयमप्युद्घोषोऽत्र अनुसन्धेयः—“सेयं ब्रह्मविद्यया सर्वभावापत्तिरासीन्महतां देवादीनां वीर्यातिशयात्, नेदानीमैदंयुगीनानां विशेषतो मनुष्याणाम्, अल्पवीर्यत्वात् – इति स्यात्कस्यचिद्बुद्धिः, तद्व्युत्थापनायाह – तदिदं प्रकृतं ब्रह्म यत्सर्वभूतानुप्रविष्टं दृष्टिक्रियादिलिङ्गम् , एतर्हि एतस्मिन्नपि वर्तमानकाले यः कश्चित् व्यावृत्तबाह्यौत्सुक्य आत्मानमेव एवं वेद अहं ब्रह्मास्मीति – अपोह्य उपाधिजनितभ्रान्तिविज्ञानाध्यारोपितान्विशेषान् संसारधर्मानागन्धितमनन्तरमबाह्यं ब्रह्मैवाहमस्मि केवलमिति – सः अविद्याकृतासर्वत्वनिवृत्तेर्ब्रह्मविज्ञानादिदं सर्वं भवति । न हि महावीर्येषु वामदेवादिषु हीनवीर्येषु वा वार्तमानिकेषु मनुष्येषु ब्रह्मणो विशेषः तद्विज्ञानस्य वास्ति॥” (बृहदारण्यकोपनिषद्भाष्यम्, १.४.१०)

 

Author(s)

About:

Shashi Kiran B N holds a bachelor’s degree in Mechanical Engineering and a master's degree in Sanskrit. His interests include Indian aesthetics, Hindu scriptures, Sanskrit and Kannada literature and philosophy.

Prekshaa Publications

Karnataka’s celebrated polymath, D V Gundappa brings together in the fourth volume, some character sketches of the Dewans of Mysore preceded by an account of the political framework of the State before Independence and followed by a review of the political conditions of the State after 1940. These remarkable leaders of Mysore lived in a period that spans from the mid-nineteenth century to the...

Bharatiya Kavya-mimamseya Hinnele is a monograph on Indian Aesthetics by Mahamahopadhyaya N. Ranganatha Sharma. The book discusses the history and significance of concepts pivotal to Indian literary theory. It is equally useful to the learned and the laity.

Sahitya-samhite is a collection of literary essays in Kannada. The book discusses aestheticians such as Ananda-vardhana and Rajashekhara; Sanskrit scholars such as Mena Ramakrishna Bhat, Sridhar Bhaskar Varnekar and K S Arjunwadkar; and Kannada litterateurs such as DVG, S L Bhyrappa and S R Ramaswamy. It has a foreword by Shatavadhani Dr. R Ganesh.

The Mahābhārata is the greatest epic in the world both in magnitude and profundity. A veritable cultural compendium of Bhārata-varṣa, it is a product of the creative genius of Maharṣi Kṛṣṇa-dvaipāyana Vyāsa. The epic captures the experiential wisdom of our civilization and all subsequent literary, artistic, and philosophical creations are indebted to it. To read the Mahābhārata is to...

Shiva Rama Krishna

சிவன். ராமன். கிருஷ்ணன்.
இந்திய பாரம்பரியத்தின் முப்பெரும் கதாநாயகர்கள்.
உயர் இந்தியாவில் தலைமுறைகள் பல கடந்தும் கடவுளர்களாக போற்றப்பட்டு வழிகாட்டிகளாக விளங்குபவர்கள்.
மனித ஒற்றுமை நூற்றாண்டுகால பரிணாம வளர்ச்சியின் பரிமாணம்.
தனிநபர்களாகவும், குடும்ப உறுப்பினர்களாகவும், சமுதாய பிரஜைகளாகவும் நாம் அனைவரும் பரிமளிக்கிறோம்.
சிவன் தனிமனித அடையாளமாக அமைகிறான்....

ऋतुभिः सह कवयः सदैव सम्बद्धाः। विशिष्य संस्कृतकवयः। यथा हि ऋतवः प्रतिसंवत्सरं प्रतिनवतामावहन्ति मानवेषु तथैव ऋतुवर्णनान्यपि काव्यरसिकेषु कामपि विच्छित्तिमातन्वते। ऋतुकल्याणं हि सत्यमिदमेव हृदि कृत्वा प्रवृत्तम्। नगरजीवनस्य यान्त्रिकतां मान्त्रिकतां च ध्वनदिदं चम्पूकाव्यं गद्यपद्यमिश्रितमिति सुव्यक्तमेव। ऐदम्पूर्वतया प्रायः पुरीपरिसरप्रसृतानाम् ऋतूनां विलासोऽत्र प्रपञ्चितः। बेङ्गलूरुनामके...

The Art and Science of Avadhānam in Sanskrit is a definitive work on Sāhityāvadhānam, a form of Indian classical art based on multitasking, lateral thinking, and extempore versification. Dotted throughout with tasteful examples, it expounds in great detail on the theory and practice of this unique performing art. It is as much a handbook of performance as it is an anthology of well-turned...

This anthology is a revised edition of the author's 1978 classic. This series of essays, containing his original research in various fields, throws light on the socio-cultural landscape of Tamil Nadu spanning several centuries. These compelling episodes will appeal to scholars and laymen alike.
“When superstitious mediaevalists mislead the country about its judicial past, we have to...

The cultural history of a nation, unlike the customary mainstream history, has a larger time-frame and encompasses the timeless ethos of a society undergirding the course of events and vicissitudes. A major key to the understanding of a society’s unique character is an appreciation of the far-reaching contributions by outstanding personalities of certain periods – especially in the realms of...

Prekṣaṇīyam is an anthology of essays on Indian classical dance and theatre authored by multifaceted scholar and creative genius, Śatāvadhānī Dr. R Ganesh. As a master of śāstra, a performing artiste (of the ancient art of Avadhānam), and a cultured rasika, he brings a unique, holistic perspective to every discussion. These essays deal with the philosophy, history, aesthetics, and practice of...

Yaugandharam

इदं किञ्चिद्यामलं काव्यं द्वयोः खण्डकाव्ययोः सङ्कलनरूपम्। रामानुरागानलं हि सीतापरित्यागाल्लक्ष्मणवियोगाच्च श्रीरामेणानुभूतं हृदयसङ्क्षोभं वर्णयति । वात्सल्यगोपालकं तु कदाचिद्भानूपरागसमये घटितं यशोदाश्रीकृष्णयोर्मेलनं वर्णयति । इदम्प्रथमतया संस्कृतसाहित्ये सम्पूर्णं काव्यं...

Vanitakavitotsavah

इदं खण्डकाव्यमान्तं मालिनीछन्दसोपनिबद्धं विलसति। मेनकाविश्वामित्रयोः समागमः, तत्फलतया शकुन्तलाया जननम्, मातापितृभ्यां त्यक्तस्य शिशोः कण्वमहर्षिणा परिपालनं चेति काव्यस्यास्येतिवृत्तसङ्क्षेपः।

Vaiphalyaphalam

इदं खण्डकाव्यमान्तं मालिनीछन्दसोपनिबद्धं विलसति। मेनकाविश्वामित्रयोः समागमः, तत्फलतया शकुन्तलाया जननम्, मातापितृभ्यां त्यक्तस्य शिशोः कण्वमहर्षिणा परिपालनं चेति काव्यस्यास्येतिवृत्तसङ्क्षेपः।

Nipunapraghunakam

इयं रचना दशसु रूपकेष्वन्यतमस्य भाणस्य निदर्शनतामुपैति। एकाङ्करूपकेऽस्मिन् शेखरकनामा चित्रोद्यमलेखकः केनापि हेतुना वियोगम् अनुभवतोश्चित्रलेखामिलिन्दकयोः समागमं सिसाधयिषुः कथामाकाशभाषणरूपेण निर्वहति।

Bharavatarastavah

अस्मिन् स्तोत्रकाव्ये भगवन्तं शिवं कविरभिष्टौति। वसन्ततिलकयोपनिबद्धस्य काव्यस्यास्य कविकृतम् उल्लाघनाभिधं व्याख्यानं च वर्तते।

Karnataka’s celebrated polymath, D V Gundappa brings together in the third volume, some character sketches of great literary savants responsible for Kannada renaissance during the first half of the twentieth century. These remarkable...

Karnataka’s celebrated polymath, D V Gundappa brings together in the second volume, episodes from the lives of remarkable exponents of classical music and dance, traditional storytellers, thespians, and connoisseurs; as well as his...

Karnataka’s celebrated polymath, D V Gundappa brings together in the first volume, episodes from the lives of great writers, poets, literary aficionados, exemplars of public life, literary scholars, noble-hearted common folk, advocates...

Evolution of Mahabharata and Other Writings on the Epic is the English translation of S R Ramaswamy's 1972 Kannada classic 'Mahabharatada Belavanige' along with seven of his essays on the great epic. It tells the riveting...

Shiva-Rama-Krishna is an English adaptation of Śatāvadhāni Dr. R Ganesh's popular lecture series on the three great...

Bharatilochana

ಮಹಾಮಾಹೇಶ್ವರ ಅಭಿನವಗುಪ್ತ ಜಗತ್ತಿನ ವಿದ್ಯಾವಲಯದಲ್ಲಿ ಮರೆಯಲಾಗದ ಹೆಸರು. ಮುಖ್ಯವಾಗಿ ಶೈವದರ್ಶನ ಮತ್ತು ಸೌಂದರ್ಯಮೀಮಾಂಸೆಗಳ ಪರಮಾಚಾರ್ಯನಾಗಿ  ಸಾವಿರ ವರ್ಷಗಳಿಂದ ಇವನು ಜ್ಞಾನಪ್ರಪಂಚವನ್ನು ಪ್ರಭಾವಿಸುತ್ತಲೇ ಇದ್ದಾನೆ. ಭರತಮುನಿಯ ನಾಟ್ಯಶಾಸ್ತ್ರವನ್ನು ಅರ್ಥಮಾಡಿಕೊಳ್ಳಲು ಇವನೊಬ್ಬನೇ ನಮಗಿರುವ ಆಲಂಬನ. ಇದೇ ರೀತಿ ರಸಧ್ವನಿಸಿದ್ಧಾಂತವನ್ನು...

Vagarthavismayasvadah

“वागर्थविस्मयास्वादः” प्रमुखतया साहित्यशास्त्रतत्त्वानि विमृशति । अत्र सौन्दर्यर्यशास्त्रीयमूलतत्त्वानि यथा रस-ध्वनि-वक्रता-औचित्यादीनि सुनिपुणं परामृष्टानि प्रतिनवे चिकित्सकप्रज्ञाप्रकाशे। तदन्तर एव संस्कृतवाङ्मयस्य सामर्थ्यसमाविष्कारोऽपि विहितः। क्वचिदिव च्छन्दोमीमांसा च...

The Best of Hiriyanna

The Best of Hiriyanna is a collection of forty-eight essays by Prof. M. Hiriyanna that sheds new light on Sanskrit Literature, Indian...

Stories Behind Verses

Stories Behind Verses is a remarkable collection of over a hundred anecdotes, each of which captures a story behind the composition of a Sanskrit verse. Collected over several years from...