अलङ्कारसुधानिधिः—मातृकाः सम्पादनसूत्राणि च
अलङ्कारसुधानिधिः श्रौत्रार्हन्तीचणेन वेदभाष्यकृता तत्रभवता श्रीसायणाचार्येण विरचितो ग्रन्थः। काव्यमीमांसां विशदयतानेन कारिका-वृत्ति-उदाहरणपद्यात्मकः साम्प्रदायिकः समश्रायि सन्दर्भणक्रमः। सायणाचार्यानुजेन भोगनाथेन प्रणीतान्यत्रत्यानि सम्यञ्चि उदाहरणपद्यानि ग्रन्थकर्तुरनितरसाधारणं मनोवाक्कायपटिमानं परिचाययन्ति, विजयनगरसाम्राज्यसम्बद्धान् नैकान् विशिष्टान् विषयान् अभिव्यञ्जयन्ति च। आनन्दवर्धनोद्घाटितेन विवेकवीध्रेण शास्त्रवर्त्मना क्रममाणः सायणाचार्यः स्वीयं सिद्धान्तं प्रतिपिपादयिषुः काव्यप्रकाश-साहित्यचूडामणि-दशरूपकप्रभृतीन् ग्रन्थान् अन्वसार्षीत्। अलङ्कारशास्त्रगतानि प्रमुखाणि प्रमेयाणि सम्
