अलङ्कारसुधानिधिः श्रौत्रार्हन्तीचणेन वेदभाष्यकृता तत्रभवता श्रीसायणाचार्येण विरचितो ग्रन्थः। काव्यमीमांसां विशदयतानेन कारिका-वृत्ति-उदाहरणपद्यात्मकः साम्प्रदायिकः समश्रायि सन्दर्भणक्रमः। सायणाचार्यानुजेन भोगनाथेन प्रणीतान्यत्रत्यानि सम्यञ्चि उदाहरणपद्यानि ग्रन्थकर्तुरनितरसाधारणं मनोवाक्कायपटिमानं परिचाययन्ति, विजयनगरसाम्राज्यसम्बद्धान् नैकान् विशिष्टान् विषयान् अभिव्यञ्जयन्ति च। आनन्दवर्धनोद्घाटितेन विवेकवीध्रेण शास्त्रवर्त्मना क्रममाणः सायणाचार्यः स्वीयं सिद्धान्तं प्रतिपिपादयिषुः काव्यप्रकाश-साहित्यचूडामणि-दशरूपकप्रभृतीन् ग्रन्थान् अन्वसार्षीत्। अलङ्कारशास्त्रगतानि प्रमुखाणि प्रमेयाणि सम्यगुपस्थापयन्तम् अलङ्कारसुधानिधिम् अधीत्य महद्भिर्विद्वद्भिः परस्परपरिष्कृतां तात्कालिकीं विद्यापद्धतिं विज्ञातुं पार्यते॥
अलङ्कारसुधानिधिः संशोधकप्रवरेण रा. नरसिंहाचार्यवर्येण १९०८ तमे वर्षे प्राथम्येन आविरकारि।[1] इत्थम् आ शताधिकेभ्यो वत्सरेभ्यो लब्धवर्णनिकाये लब्धप्रथोऽयं सूरिभिरनेकैः खण्डशः परामृष्टोऽपि नाद्यावधि कार्त्स्न्येन प्रकाशपथमानीत इति विस्मयामहे। एकान्तदुर्लभे तत्सम्पादनकर्मणि आत्मानं व्यापारयितुम् अस्माभिरवसरः प्राप्त इति जीवितस्य कार्तार्थ्यं कलयामः। तदेवम् अलङ्कारसुधानिधिं मातृकाभ्यः सम्पाद्य संशोध्य यथाप्रतिभानं विमृश्य च लोकाय समर्पयन्तो वयं कामपि धन्यताम् अनुभवामः॥
१. मातृकाः सम्पादनसूत्राणि च
अलङ्कारसुधानिधेः सन्ति चतस्रो मातृकाः, या मैसूरुनगरस्थिते प्राच्यविद्यासंशोधनालये परिरक्षिता इति मातृकासूच्या विज्ञायते।[2] अथ च चेन्नैनगरस्थिते अड्यार्-ग्रन्थालये मातृकाद्वयं समस्तीत्यनुश्रूयते।[3] अलङ्कारसुधानिधिनामा गणपतिविरचितः कश्चिदन्यो ग्रन्थः पुण्यपत्तनस्थिते भण्डारकरप्राच्यविद्यासंशोधनालये परिरक्षितः (४०९/१८९२–९५) इत्यन्यदेतत्॥
अद्यत्वे उपलभ्यमाना अलङ्कारसुधानिधेर्मातृकाः सम्प्रति परिचिचायिषामः। तद्यथा—
अङ्कः |
उपलब्धिस्थानम् |
लेख्यसामग्री लिपिः सञ्ज्ञा च |
परिमाणम् (से.मी.) |
पुटसङ्ख्या |
प्रतिपुटं पङ्क्तिसङ्ख्या प्रतिपङ्क्ति अक्षरसङ्ख्या च |
स्थितिः |
पि. ८२६ |
प्राच्य-विद्या-संशोधनालयः, मैसूरु |
तालः, ग्रन्थः (ग०) |
४५×३ |
१–१०२ |
७, ५८ |
त्रुटिबहुला कृमिदष्टा च |
पि. २२२३/२ |
प्राच्य-विद्या-संशोधनालयः, मैसूरु |
तालः, कन्नडम् (क०) |
४६.५×५ |
२–३४ |
१२, ८० |
साधारणी |
बि. ७१८ |
प्राच्य-विद्या-संशोधनालयः, मैसूरु |
पत्त्रम् (कर्गजम्), कन्नडम् (उपरि स्थितायाः प्रतिकृतिः) |
१६×१९.५ |
१–१७३ |
११, २४ |
उत्तमा |
ए.एल्.बि. ३४ वि.आर्. २६ |
अड्यार्-ग्रन्थालयः, चेन्नै |
पत्त्रम् (कर्गजम्), तेलुगु (ते०) |
२४×१४ |
२–४० |
२१, ४७ |
उत्तमा |
ए.एल्.बि. १३९ वि.आर्. ४७ |
अड्यार्-ग्रन्थालयः, चेन्नै |
पत्त्रम् (कर्गजम्), देवनागरी (दे०) |
१४.२×२२ |
१–२८० |
२०, १७ |
उत्तमा |
यदा वयं सम्पादनकर्मेदं प्रारप्स्महि मैसूरुनगरस्थिते प्राच्यविद्यासंशोधनालये परिरक्षितां मातृकासामग्रीं केवलाम् अलप्स्महि। दे०-मातृका डि. सि. सरस्वतीनाम्न्या विदुष्या दृष्टा निपुणमुपयुक्ता चेति यद्यपि अज्ञासिष्म,[4] तथापि न सा नो हस्तापचेया समभूत्। ते०-मातृकापि खलेन कालेन क्वाप्यपह्नुतेव समभूत्। अस्मदधीना क०-मातृका नातित्रुटितेति उच्छ्वसितं नो हृदयं प्राचीनान् समीचीनांश्च भूयसः पाठान् परिरक्षन्ती ग०-मातृका अतिमात्रं त्रुटिता कृमिदष्टा चेति खिन्नतामगमत्। अथापि लब्धमन्नं परित्यक्तुमसाम्प्रतमिति मनसिकृत्य, कार्यं चारभ्य प्राथमिकं संशोधनं निरवर्तिष्महि॥
तदा हि रामचन्द्रसूनुना अस्मत्सुहृदा श्रीनिधिना वे. राघवन्-वर्यस्य कश्चन मातृकाराशिः चेन्नैनगरस्थे अड्यार्-ग्रन्थालये परिरक्षित इति वयं बोधिताः। कृते विमर्शे ज्ञातं यत् तदवधि निमीलनक्रीडामिव विदधत्यौ अलङ्कारसुधानिधेः ते०-दे०-मातृके तस्मिन् राशौ अन्तर्गते इति! एवं स्थिते ग्रन्थालयस्य अधिकृतेभ्यस्ते मातृके तूर्णम् उपादिष्महि। अनयोर्मूलभूते तालपत्त्रलिखिते मातृके मैसूरुस्थिते प्राच्यविद्यासंशोधनालये पूर्वमभूताम्, केनापि हेतुना ततः कदाचित् प्रणष्टे चेत्यनुमिमीमहे॥
दिष्ट्या दे०-मातृकायाम् इतरमातृकास्थिता अपि पाठाः सङ्गृहीताः सन्ति। विशिष्य ग०-मातृकामात्रपठिता भूयांसो ग्रन्थभागा अत्र विद्यन्ते। वे. राघवन्-वर्येण प्रार्थितौ प्राच्यविद्यासंशोधनालयस्थितौ विद्वांसौ एन्. एस्. वेङ्कटनाथाचार्यः के. एस्. वरदाचार्यश्च सर्वा अपि मातृकाः परिशील्य दे०-मातृकाम् विलिख्य पाठान्तराणि च अवीविदताम्। पाण्डितीमण्डितेन तयोः परिश्रमेण महदस्माकं साह्यम् उपकल्पितमिति तेभ्यः सकार्तज्ञ्यं नमोवाकं प्रशास्महे। यदा तु ग०-मातृका साम्प्रतं प्राप्यमाणायाः साधीयस्यां स्थिताववर्तिष्ट तदैव तत्पाठा दे०-मातृकायां न्यवेशिषतेति महद्भागधेयं नः॥
मातृकाणां वंशादिकं निश्चप्रचं निर्धारयितुं नेशाना अपि वयं पाठानां परिशीलनेन एतावदभ्यूहितुं प्रभवामः—(१) ग० एव प्राचीनतमा मातृका, यतस्तस्याम् अन्यत्र अदृष्टाः शुद्धाश्च बहवः सन्ति पाठाः। (२) ते० क० च समानस्रोतस्के मातृके। (३) क० प्रायेण स्वतन्त्रा मातृका॥
प्राचीनतमा ग०-मातृका साम्प्रतम् अतितरां त्रुटितेति हेतोः क०-मातृकां मूलत्वेन निरणैष्म। इतरमातृकास्थितान् पाठान् यथोचितं ग्रन्थभागे निवेश्य प्रमुखाणि पाठान्तराणि टिप्पणीषु असुसूचाम॥
क०-मातृका द्वाभ्यां लेखकाभ्यां लिपिबद्धेति प्रतीयते। यतः खल्वादितो दृश्यमाना अक्षरशैली पञ्चविंशे पत्त्रे परिवृत्य ग्रन्थान्तं यावत् तथैव अवतिष्ठते। चतुस्त्रिंशे पत्त्रे ग्रन्थ एकपदे अवसितः, तत उत्तरं शृङ्गारतिलकाभिधं ग्रन्थान्तरं च लिखितं दृश्यते। अन्या अपि मातृकाः प्रायेण एतावतैव समाप्तिमगुः। तस्मात् अलङ्कारसुधानिधेः पार्यन्तिको भागो न सामस्त्येन उपलभ्यते। अथ च अमुष्य उपोद्घातः केवलं दे०-मातृकायां परिरक्षिते ग०-मातृकायाः पाठे उपलभ्यते॥
श्रीनिवासाचार्यनाम्ना विदुषा विरचिते कस्मिंश्चित् अल्पप्रचुरे अभिज्ञानशाकुन्तलस्य व्याख्याने अलङ्कारसुधानिधेरुद्धृताः कारिका वृत्तिभागाश्च लक्ष्यन्ते। मैसूरुगतस्य परकालमठस्य एकत्रिंशेन अधिपतिना श्रीकृष्णब्रह्मतन्त्रयतीन्द्रेण विरचिते लक्ष्मीसहस्रस्य व्याख्याने च इहत्याः काश्चन कारिका निभाल्यन्ते। अथ च भास्कराचार्याभिधेन केरलीयेन विदुषा प्रणीतायां साहित्यकल्लोलिन्यां काव्येन प्रसूतां कीर्तिं वर्णयन्त्यः सन्ति काश्चन कारिकाः, या हि अत्रत्या एवेत्यनुमातुं शक्यते। यतस्ता एताः श्रीनिवासाचार्यकृते अभिज्ञानशाकुन्तलव्याख्याने इहत्यैः सह ग्रन्थभागैः सन्दृश्यन्ते। साहित्यकल्लोलिन्या लिपिकर्तुर्नामापि श्रीनिवासाचार्य[5] इति विस्मयं नस्तनोति। वेङ्कटसुन्दरासानीनाम्न्या मैसूरुवास्तव्यया विदुष्या सङ्कलिते रसिकजनमनोल्लासिनीसारसङ्ग्रहभरतशास्त्रनामके कन्नडलिप्या मुद्रिते ग्रन्थेऽपि अलङ्कारसुधानिधेः बह्व्यः कारिका उद्धृताः सन्ति। एतेषु नैकोऽपि ग्रन्थः अलङ्कारसुधानिधिं नाम्ना आमनतीति किमपि वैलक्षण्यम्॥
सायणाचार्यः प्राचीनान् कांश्चन ग्रन्थानुपजीव्य अलङ्कारसुधानिधिं प्राणैषीत्। एषु भट्टगोपालोपज्ञं साहित्यचूडामणिनामकं काव्यप्रकाशस्य व्याख्यानं धनञ्जयविरचितं दशरूपकं धनिकप्रणीतं तद्व्याख्यानं च प्रामुख्यं भजन्ते। अलङ्कारसुधानिधौ कतिपये ग्रन्थाः क्रियासमभिहारेण उल्लिखिताः सन्ति—काव्यालङ्कारसारसङ्ग्रहः काव्यालङ्कारसूत्रवृत्तिः ध्वन्यालोकः अलङ्कारसर्वस्वम् एकावली च। यत्र हि अलङ्कारसुधानिधेर्मातृकाः त्रुटिताः सत्यः पाठनिर्धारणं दुःसाधमकार्षुः, तत्र उपरि निर्दिष्टान् ग्रन्थान् समाश्रित्यास्माभिः साधीयांसः पाठाः समायोजिषत॥
यद्यपि क०-मातृकाया लेखनरीतिः स्फुटैव, अथापि तस्यां सन्ति काश्चन दुरुन्नेया विधाः। अस्या लेखकः कानिचित् अक्षराणि मिथो व्यामिश्र्य व्याकुलयति। तद्यथा—त-कारे लेखितव्ये न-कारं लिखति, न-कारस्य स्थाने ण-कारं प्रयुङ्क्ते, ड-कारं ढ-कारं विधत्ते, रलयोः डलयोश्च अभेदतां सम्पादयति, य-कारे प्रयोक्तव्ये य्य-कारं लिखति च। एवमेव अयोगवाहौ बहुत्र न योजयति। अत्र ग्रन्थे सन्ति भूयांसो लेखनदोषाः, येषु कञ्चिदेकं प्रदिदर्शयिषामः—नायिकास्वभावनिरूपणावसरे क्वचित् “रमणं प्रति रमणीनाम्” इति दृश्यमानं वाक्यखण्डं “मरणं प्रति रमणीनाम्” इति पर्यवीवृतत् लेखकः! लीलायितमिदं भगवत्या भ्रान्तेः। तत्तादृशा दोषा अस्माभिर्यत्नेन निवारिताः। ल-कारस्य स्थाने ळ-कारस्य यल्लेखनं तद्ग्रन्थस्य दक्षिणभारतोद्भूतिं पिशुनयति। अस्माभिस्तु सर्वत्र ल-कार एव प्रयुक्तः। सायणाचार्यः क्वचन कारिकाः सूत्रसञ्ज्ञया निर्दिशति। एतादृशाः प्रयोगा नास्माभिः परिष्कृताः॥
अथ च केषुचित् स्थलेषु लेखकेन संहिता न पालिता। सास्माभिः साधिता। पूर्वरूपसन्धिं निर्देष्टुम् अवग्रहचिह्नम् अस्माभिरेव सर्वत्र योजितम्। यत्र हि कारिकासु उदाहरणपद्येषु वा छन्दोभङ्गः संलक्षितः, तत्रास्माभिः प्रायेण स दोषो निवारितः। ग्रन्थेऽस्मिन् कतिपये व्याकृतिदोषा अपि दृश्यन्ते। तद्यथा—धामेन, विवदन्तम्, युक्तिमदेव समर्थितमर्थम्, अनवलोकतः इत्यादयः। अस्माभिस्तु साधुरूपाणि टिप्पणीषु सूचितानि। तद्यथा—धाम्ना, विवदमानम्, युक्तिमन्तमेव समर्थितमर्थम्, अनवलोकमानस्य इत्यादयः। इत्थमेव द्विस्त्रिर्वा पठितानि उदाहरणपद्यानि टिप्पणीषु निर्दिष्टानीति बोध्यम्॥
ग्रन्थेऽस्मिन् अस्माभिर्योजिताः पाठा आवरणचिह्नेन “[ ]” सूचिताः। मातृकासु मिथो विद्यमानानि पाठान्तराणि, ग्रन्थान्तरसाहाय्येन पुनारचितान् ग्रन्थभागांश्च निर्देष्टुम् अन्यत् किमप्यावरणचिह्नं “{ }” योजितम्। भृशं परिश्रम्यापि वयं कांश्चन ग्रन्थलोपान् पूरयितुं नाशकाम। ग्रन्थलोपस्थानेषु मातृकाः त्रुटिताः कृमिदष्टा वेति, नैकापि मातृका सम्पूर्णं ग्रन्थं स्वस्मिन् निधत्त इति चात्र कारणम्। यद्यपि कारिकासु उदाहरणपद्येषु वा दृश्यमानान् लोपान् प्रायेण अपूरयाम, अथापि वृत्तौ दृश्यमानांस्तान् समीकर्तुं क्वचिन्न प्राभवाम। पद्यानि हि निर्दिष्टच्छन्दोगतिभाञ्जि भवन्तीति कारणात् गुरुलघुक्रमम् अनुसृत्य लोपान् पूरयितुं पार्यते। वृत्तिस्तु अनिर्बद्धप्रसरा सती लोपस्य परिमाणम् अपह्नुवाना दुष्पूरा भवति। इत्थङ्कारम् अपूरितान् ग्रन्थलोपान् सूचयितुं छिन्ना अधोरेखा “_ _ _” निवेशिता। क्वचिद्विद्यमानानि दुर्बोधानि वाक्यानि निर्देष्टुं प्रश्नचिह्नं “?” च योजितम्॥
ग्रन्थाध्ययनं सुकरं विधातुमस्भाभिः उपशीर्षकाणि प्रत्तानि, वृत्तिः कण्डिकासु विभक्ता, कारिकाश्च यथानुक्रमं सङ्ख्याभिः सञ्ज्ञिताः। अत्रत्या भूयस्यः कारिकाः चतुष्पद्यः। काश्चन षट्पद्यः काश्चिच्च द्विपद्यः। पादद्वयम् आधिक्येन बिभ्रतीः षट्पदीः कारिकाः निर्देष्टुं पद्यसङ्ख्याया उपरि किञ्चिदक्षरं योजितम्। यथा—५६अ। क्वचिच्च द्विपद्यः कारिकाः स्वातन्त्र्येण परिगणिताः सङ्ख्यया च योजिताः। सायणाचार्यो बहुभ्यः काव्यशास्त्रग्रन्थेभ्यः प्रमाणवाक्यानि उददीधरत्। इमे ग्रन्था अस्माभिः प्रायशोऽभिज्ञाय टिप्पणीषु सूचिताः। ग्रन्थान्ते च अष्टावनुबन्धाः संयोजिताः—कारिकानुक्रमणी, उदाहॄतपद्यानुक्रमणी, विषयानुसारिणी उदाहॄतपद्यानुक्रमणी, उदाहृतपद्यच्छन्दोऽनुक्रमणी, उद्धृतपद्यानुक्रमणी, अलङ्कारसुधानिध्युदाहर्तारो ग्रन्थाः, सन्दर्भसूची, चित्रबन्धाः॥
[1] Annual Report of the Mysore Archaeological Department, 1908. p. 27
[2] New Catalogus Catalogorum (Vol. 1), p. 406
[3] तया संस्थया प्रकाशितायां मातृकासूच्यां नैतद्दृश्यते।
[4] Alaṅkāra-sudhānidhi Attributed to Sāyaṇa: A Hitherto Unpublished Treatise in Sanskrit Poetics. Sarasvati, D C. Annals of the Bhandarkar Oriental Research Institute, Vol. 48/49 (Golden Jubilee Volume). pp. 253–82
[5] A Descriptive Catalogue of the Sanskrit Manuscripts in the Government Oriental Manuscripts Library, Madras, pp. 8706–08
To be continued.