वर्णनेतिवृत्तमीमांसा—उपसंहारः

This article is part 5 of 5 in the series Varnana-itivrutta

तदयं सङ्क्षेपः—निर्विशिष्टक्लैब्यसन्त्रस्ते सति समाजे, तेन विशिष्टो व्यक्तिगुणः सुतरां नावगम्यते[1]। तादृशस्तु भित्तीतिवृत्तवियुक्तो वाग्व्यापारः सरस्वतीविडम्बनाय रसविध्वंसनाय च कल्पते। अनुलक्षिते सत्यस्मिन्, साम्प्रतिकसमाजे कथानायकार्हता न कस्मिन्नपि मनुजे विद्यत इत्युत्प्रेक्षितुमलम्[2]। भारतीयकाव्यमीमांसादृशा रसः सदैव नायकाश्रितः। अन्यच्च “नायकस्य कवेः श्रोतुः समानोऽनुभवः स्मृतः” इत्यमुं तौतीयमभिप्रायमनुरुध्य पश्यामश्चेत्, साम्प्रतिकं साहित्यं रसशून्यमेवेति सहृदयाय प्रतीयते। यतो हि नायकसत्त्वरहितं यं कमपि नायकीकृत्य वितीर्यमाणं वाङ्मयम्—अनायकमेव साहित्यमथवा—साम्प्रतिकसारस्वतप्रकल्पलक्षणायितं ननु। यन्त्रव्यापारसदृशे यातयामेऽस्मिन् समाजे नायकराहित्यमेव साहित्यपथं निर्दिशतीति स्यादत्र प्रतिवादः। तदिदमद्यतनीयसाहित्यस्य वैशिष्ट्यमेवेति च व्याख्यातुमलम्। किं बहुना, साहित्यसमस्तस्य निरन्तरप्रवर्धमानगुणस्य ध्वनिरेवात्र निहित इति प्रतिपादनं शक्यम्। तथापि रसराहित्यमेव साहित्यस्य पर्यन्तभूमिर्वा? बोध-मोदविच्छिन्ना वाङ्मयव्याहृतिरेव कला वा? हृदयसंवादशून्यतैव प्रतिभानुप्राणिता कविता वा? अद्य काव्यं लुप्तादरणं लोकसामान्यैरुपेक्ष्यमाणं च प्रतिभाति। अत्र कारणं प्रधानतया रसवैरस्यमेव। वाचि स्पष्टतां व्यस्थामपि नियच्छदितिवृत्तं कवितां वाच्यतादोषवलये पातयतीति मिषेण वस्त्वेव परित्यक्तं कविब्रुवैः। वर्णकम् (“लिरिक्” इति पाश्चात्यैर्व्यपदिष्टं) एव परिशुद्धकाव्यमिति घोषणावसरे कथनात्मकानि रचनानि सनिकारं धिक्कृतानि। व्यञ्जनाव्यापारमात्रमहितेति कवितामुत्प्रेक्ष्य, प्रहेलिकाप्रायं गूढचित्रात्मकं च वाग्विग्लापनं तात्पर्येणाप्यनवगम्यं काव्यमिति पुरस्कृतम्। अनेन वर्णकत्वं हि शशविषाणायितम्। किमधिकं, वर्णनास्वपि गुणीभूतव्यङ्ग्यविभवैरेव वाच्यालङ्कारविशेषै रसादयो व्यञ्जयितव्या इत्यानन्दवर्धनीयं दर्शनं कविमानिभिर्विस्मृतम्। अस्य प्रतिकोटित्वेन भावानां रूक्षगुणशामकं चित्तविश्रान्तिदायकं च मार्गमवगणय्य, तेषामपक्वोग्रस्वरूपेण निरूपणं साहित्यमिति व्यपदिष्टमपरैः कुकविभिः। एवं च काव्ये स्वभावमात्रपर्यवसानं स्वभावोक्तित्वेन प्राशस्त्यमभजत। वाङ्मयमीदृशं चित्तोद्रेकान्नापरं हृदयविक्षोभादन्यन्न किञ्चिदपि सहृदयस्य प्रयच्छति। अतो हि विश्वनाथस्य रसनिर्वचनं यत्—

“सत्त्वोद्रेकादखण्डस्वप्रकाशानन्दचिन्मयः।
वेद्यान्तरस्पर्शशून्यो ब्रह्मास्वादसहोदरः॥

लोकोत्तरचमत्कारप्राणः कैश्चित्प्रमातृभिः।
स्वाकारवदभिन्नत्वेनायमास्वाद्यते रसः”॥(साहित्यदर्पणः, ३.२-३)

तन्न मनसाऽपि स्पृशन्त्यमी प्रकल्पाः।

सर्वमिदं साम्प्रतिकस्य पद्यकाव्यस्य विपाकजातम्। अथ गद्यकाव्यं विलोकयामः। अत्र तावत्कथाऽऽख्यायिकादिषु रमणीयवर्णनावैधुर्यं सर्वथा दरीदृश्यते। क्वचिदिव दृश्यमानमितिवृत्तराहित्यमपि। उक्तिचमत्कार एव जीवातुर्वर्णनायाः। अनेन विरहितमितिवृत्तं रुचिरहितमनास्वाद्यं च भवति। सत्यपि कथासंविधानचमत्कारबाहुल्ये, इतिवृत्तं कान्तिमद्भवति वचोविच्छित्तिभिरेव। ईदृशी तावदुक्तिसुषमा समस्तालङ्कारमातृका।

एवं साहित्यं वार्तमानिकं वर्णनेतिवृत्तयोर्वागर्थाद्वैतं, अलङ्कृत्यलङ्कार्ययोर्भाविकत्वं च परित्यज्य साङ्ख्यदर्शनस्य प्रकृति-पुरुषयोः स्वतन्त्रवैलक्षण्यमिव पङ्गुत्वमन्धत्वं च भजते। अस्मिन्नवसरे स्त्रीपरसाहित्यं, दलितपरसाहित्यं, प्रगतिपरसाहित्यं, प्रतिगामिसाहित्यं चेति नैकान्निष्प्रयोजकानुपाधीनुपकल्प्य वाङ्मये, तन्मूलतत्त्वं परमं लक्ष्यं च विस्मृतमिति शोचनीयमेतत्। स्वादुपराङ्मुखत्व-बोधृबोध्यनियोगभाक्त्वादिषु विषवलयेषु सकलोऽपि काव्यलोकः पर्याकुलः। परन्तु “काव्ये रसयिता सर्वो न बोद्धा न नियोगभाक्!”

रसेतरोपाधिलोलुपता हि सर्वथा षष्ठाङ्ग्लुरिव विकृता वितथा भारभूता च। अतः पुनरस्माभिर्भारतीयकाव्यमीमांसाया मूलतत्त्वानि यथा रस-ध्वनि-वर्णन-इतिवृत्त-औचित्य-वक्रोक्तिमुखानि शरण्यानि सार्थकसाहित्यसृष्टये[3]

शक्तिशुक्तिभवं भक्तिकान्तिमद्व्यक्तिविद्धहृत्।
सूक्तिमुक्ताफलं स्तुत्यं वृत्तसूत्रसमादृतम्॥

 Notes

[1] अत्रानुसन्धेयं प्रख्यातस्य राजकीयविडम्बनचित्रकारस्य आर्.के.लक्ष्मण्-वर्यस्य वचनम्। तदनुसारं व्यक्तिवैशिष्ट्यं विना विडम्बनचित्राणि बाहुल्येन नोद्यन्ति। साम्प्रतिके तु राजकीयक्षेत्रे नितरां निर्विशष्टाः प्रजापालाः। सर्वत्र जरीजागर्ति क्लीबसमता शुष्कसाधारणता च। नाधुना गान्धि-चर्चिल्-मुखा विशिष्टव्यक्तयः सन्ति विडम्बनचित्रजीवातुभूताः। अत इमानि चित्राणि नचिरान्मृत्युसाद्भवन्ति।

[2] सत्यमेव यदीदृशी परिस्थितिर्न केवलमस्मत्कालीना, अपि तु सार्वकालीनेति। परमस्मच्चिरन्तनाः समस्यामिमां सम्यगज्ञासिषुः। तस्मादेव ते समकालीनसाहित्यस्य समकालीना एव व्यक्ति-संनिवेशा आवश्यका इति निस्सारं वादमनङ्गीकृत्य, साधारणीकरणसुलभान् विशिष्टगुणगण्यान्नायकान् देश-कालपरिधिनिरपेक्षमादृत्य कृतकृत्यतां भेजुः। अतः खलु सत्सु निखिलेषु रघुवंशराजेषु राम एव नायकत्वेन स्वीकृतः प्राचेतसेन कविना। नृपत्व-देवत्व-ब्राह्मत्वादिभिः साधारणधर्मैः सार्धं केचन विशेषधर्मा अपि नायकेषु भवेयुरिति साहित्यसिद्धान्तः।

[3] देशभाषासु विषयेऽस्मिन्नैके शोधलेखाः स्युः। प्रकृतलेखकस्य लोचनगोचरीभूताः केचन स्तुत्यर्हाः प्रबन्धा आन्ध्रदेशाभिजनेन विदुषा काळूरि-हनुमन्तरावुमहोदयेन रचिताः। अत्र तस्य “साहितीजगति” तथा “वाङ्मयसमालोचनमु” इति ग्रन्थद्वयमुल्लेख्यम्।

Concluded. 

Author(s)

About:

Dr. Ganesh is a 'shatavadhani' and one of India’s foremost Sanskrit poets and scholars. He writes and lectures extensively on various subjects pertaining to India and Indian cultural heritage. He is a master of the ancient art of avadhana and is credited with reviving the art in Kannada. He is a recipient of the Badarayana-Vyasa Puraskar from the President of India for his contribution to the Sanskrit language.

Translator(s)

About:

Shashi Kiran B N holds a bachelor’s degree in Mechanical Engineering and a master's degree in Sanskrit. His interests include Indian aesthetics, Hindu scriptures, Sanskrit and Kannada literature, and philosophy. A literary aficionado, Shashi enjoys composing poetry set to classical meters in Sanskrit. He co-wrote a translation of Śatāvadhāni Dr. R Ganesh’s Kannada work Kavitegondu Kathe.