वर्णनेतिवृत्तमीमांसा—भाविकम्

This article is part 3 of 5 in the series Varnana-itivrutta

सम्प्रति भाविकाभिधानं किञ्चन साहित्यतत्त्वमवगाहामहे।

भाविकमिति सम्भाविततत्त्वं दण्ड्यादिभिस्तु मौलिकमेवम्।
इतिवृत्तश्रीकारणमतिलोकमनोज्ञवर्णनेङ्गितयुक्तम्॥७॥

तत्त्वस्यास्य स्वरूपनिरूपणं भामहेन सम्यगकारि। यथा—

“भाविकत्वमिति प्राहुः प्रबन्धविषयं गुणम्।
प्रत्यक्षा इव दृश्यन्ते यत्रार्था भूतभाविनः”॥ (काव्यालङ्कारः, ३.५३)

एतदनुसारं भाविकमितीदं काव्यतत्त्वं न केवलम् अलङ्कारमात्रपर्यवसायि, अपि तु काव्यप्रपञ्चे प्रकृष्टं सर्वङ्कषं च किमपि प्रबन्धगुणभूतम्। अस्मिन्नेव हि संनिवेशचातुर्यं निषीदति। अतोऽस्य प्रभावाद्भूतभविष्यत्सम्बद्धा अपि घटना वर्तमाना इव भासन्ते। काव्यस्य परमस्वारस्यभूमिस्तु कालपरिच्छेदमतीत्य यथा घटना आस्वाद्यतामाप्नुयुस्तथा प्रकल्पने वर्तते। परमत्र मन्तव्यं यद्घटना वास्तवभिन्नाः साक्षात्कृता इव स्युः। वास्तवैकविश्रान्तायां घटनायां, तस्याः साधारणीकरणयोग्यं ताटस्थ्यं नैव सिद्ध्यति। सोदाहरणं निरूपयामश्चेत्तदित्थम्—विद्युच्चापस्य (Electric Arc) स्फुरणार्थं द्वयोर्विद्युद्ध्रुवयोः (Electrodes) मध्ये क्लृप्तं किञ्चिदन्तरं भवेत्। अन्तरस्यास्य दूराद्वाऽदूराद् विद्युत्प्रवहणमशक्यम्। तथैव जगत्सापेक्षे काव्ये संनिवेशाः “तत्सदृशाः” भवेयुः, न तु “तदेव”। घटनाः “प्रत्यक्षा इव” लसेयुरिति दिक्।

देश-कालावुत्तीर्य कविः स्वयमेव यद्दर्शनं साक्षात्करोति, तत्सहृदयेभ्यो वर्णनमाध्यमेन व्यक्तं भवति[1]। तथा च भाविकं न केवलम् इतिवृत्तसम्बद्धं काव्यस्य बहिर्भागं वर्णयति, अपि तु तस्य वर्णनसत्त्वं, सर्वाङ्गसामञ्जस्यं, रस-भावनैरन्तर्यं च सुनिपुणमभिव्यञ्जयति। इदं भामहेनापि समभिप्रेतम्। यतः स भाविकत्वस्य “चित्रोदात्ताद्भुतार्थत्वं” प्रापपञ्चत। चित्रत्वम्, उदात्तत्वम्, अद्भुतार्थत्वमितीमानि सर्वाणि सात्त्वतीवृत्तिपरिपुष्टानि चमत्कारविश्रान्तानि चेति वक्तुमलम्।

अत्रेदं भणितव्यम्। भाविकत्वविषये भामह इव तावदुद्भटोऽपि स्वमतमगादीत्। किं चास्य वादो न क्षोदक्षमः। स हि भामहवादापेक्षया नूनमवरः। परमुद्भटस्य व्याख्याकर्तुः प्रतीहारेन्दुराजस्य विवरणमस्यां दिशि सर्वग्रासीव भाति। विवरणस्यास्य विस्पष्टावगमार्थम् इतिवृत्तं “काव्यार्थः” इत्यङ्गीकार्यं, येन भाविकत्वं काव्यस्य रसानुभूतिसर्वस्वप्रतीकं जायते। अत्र स्यादियं संशीतिः—भाविकत्वे प्रबन्धगुणसिद्धिस्तु वर्णनेतिवृत्तयोः परस्पसंसर्गेणैव सम्भवतीति ज्ञातं; कथं तर्हीदानीम् इतिवृत्तेनैकेनालमिति घुष्यते? इति। वर्णनस्य शब्दत्वम् इतिवृत्तस्य चार्थत्वमवगमय्य प्रश्नमिदमुत्तरामः। काव्ये नियुक्तः शब्दग्रामः सारतोऽनाविलः स्यात्। सोऽयं शब्दग्रामः पुनरितिवृत्तं निरूपयितुं प्रयुज्यते। अतो हि व्यष्टिवर्णनापेक्षया समष्टिवर्णनमेव गरीयः। तस्मादयमत्र मथितार्थो यद्भाविकत्वं नाम कश्चिदनाकुलशब्दग्रामघटितः, चित्रोदात्ताद्भुतार्थसंविधानसम्पन्नः काव्यास्वादगुणः। ओमित्याह दण्डी—

“तद्भाविकमिति प्राहुः प्रबन्धविषयं गुणम्।
भावः कवेरभिप्रायः काव्येष्टासिद्धिसंस्थितः॥

परस्परोपकारित्वं सर्वेषां वस्तुपर्वणाम्।
विशेषणानां व्यर्थानामक्रिया स्थानवर्णना॥

व्यक्तिरुक्तिक्रमबलाद्गभीरस्यापि वस्तुनः।
भावायत्तमिदं सर्वमिति तद्भाविकं विदुः॥

यच्च सन्ध्यङ्गवृत्त्यङ्गलक्षणाद्यागमान्तरे।
व्यावर्णितमिदं चेष्टमलङ्कारतयैव नः”॥(काव्यादर्शः, २.३६४-३६६)

अन्तिमे श्लोके तावदितिवृत्तमलङ्कारत्वेन स्वीकृतमिव भासेत। अत्रेदं समाधानम्—वस्तुमूलस्य संविधानस्य सन्ध्यङ्गानि वृत्त्यङ्गानि च विविधाङ्गोपाङ्गकल्पानि; तानि पुनरितिवृत्तस्यालङ्कार्यस्य परमालङ्कारभूतानि। तदिदमत्र तात्पर्यं यद्दण्डिना भाविकत्वनिरूपणे वर्णनेतिवृत्तयोरुचिता संपृक्तिः साधिता। इदं च भाविकत्वं जयदेवेन सङ्क्षिप्तेनापि सर्वङ्कषेण विधिना लक्षणीकृतम्, “देशात्मविप्रकृष्टस्य दर्शनं भाविकच्छविः” (चन्द्रालोकः, ५.११४) इति। अर्वाचीनालङ्कारिकाः केचन रुय्यकप्रमुखा भाविकत्वमर्थालङ्कारेष्वन्यतमं मेनिरे। एकदेशीयमेतन्निगमनम्। अन्यच्च भाविकस्तावदलङ्कार एव, भाविकत्वं हि प्रबन्धगुणसम्बद्धमिति केचिदाशशङ्किरे। अनादरणीयोऽयं वादः सर्वथा। यतो भाविकं भाविकत्वमिति शब्दद्वयं समान एवार्थे प्रत्नैराचार्यरत्नैः प्रयुक्तम्। अपि च कथं नाम वादोऽयं भाविक-भाविकत्वविषय एव गणनामर्हति? किमनेन शिष्टानलङ्कारान्निर्देष्टुं शक्यते? यद्येवं तर्हि रूपकत्वम्, काव्यलिङ्गत्वम्, श्लेषत्वम्, अनन्वयत्वम् ... इति रीत्या प्रत्येकमप्यलङ्कार आकलनीयः। नितरां कण्टकितोऽयं पन्थाः काव्यमार्गजुषां पादन्यासं नार्हति।

अथवाऽमीषां निर्णये मास्तु विपुलः श्रमः। यतो हि दृष्टिभेदादलङ्कारालङ्कार्यसमस्या काचिद्दुरुद्धरा पर्याविला च। इदं चिन्त्यताम्—काव्यास्वादस्तु “आनन्द”रूपेण जायते; आनन्दं केन्द्रीकृत्य विचारिते सति रसादिरप्यलङ्कार एवेति शक्यमाख्यातुम्! अतस्तर्कपरिष्कारापेक्षया शास्त्रसद्भावग्रहणे क्रियतां यत्नः।

पर्यन्ततस्तु भाविकत्वमिति प्रबन्धगुणसम्बद्धं तत्त्वम्। विदांवरेण वेङ्कटराघवमहोदयेन विरचिते शोधप्रबन्धे भाविकत्वं सप्रपञ्चं प्रपञ्चितम्[2]। अमुं लेखं पठितुमर्हन्ति बुभुत्सवः। अपरेण विपश्चिता तिप्पेरुद्रस्वामिना भाविकत्वस्य “प्रबन्धालङ्कारः” इति सार्थकमभिधानमदायि[3]। एतदपि नः परीक्षायोग्यमित्युक्त्वा प्रकरणमिदमुपसंहरामः॥

किंस्वरूपं वर्णनेतिवृत्तयोर्विनियोगविधानम्? तद्धि सुतरामौचित्यपर्यवसायीति ब्रूमः। तथा हि परिकरश्लोकाः—

इतिवृत्तोचितं पात्रं पात्रानुसृतवर्णनम्।
कृतिलक्ष्यं रसोदारं वागर्थविवृतौ वरम्॥

संविधानविशेषत्वस्पन्दसौन्दर्यनिर्भरम्।
संविदानन्दसन्दर्भं वृत्तं सङ्घर्षणोद्भवम्॥

महोन्नतेतिवृत्तास्थिश्रितवर्णनविग्रहः।
सत्कविष्वेव सम्भाव्यो रसध्वन्यात्मसुन्दरः॥

अथ व्याप्तिमीमांसा। आधिकारिक-प्रासङ्गिकादिविभागसौलभ्यविवरणपुरस्सरं नाट्यशास्त्रे तथाऽभिनवभारत्याम् इतिवृत्तस्य व्याप्तिः सम्यङ्निरूपिता—

“इतिवृत्तं द्विधा चैव बुधस्तु परिकल्पयेत्।
आधिकारिकमेकं स्यात् प्रासङ्गिकमथापरम्॥

कारणात्फलयोगस्य वृत्तं स्यादाधिकारिकम्।
तस्योपकरणार्थं तु कीर्त्यते ह्यानुषङ्गिकम्॥

कवेः प्रयत्नान्नेतॄणां युक्तानां विध्यपाश्रयात्।
कल्प्यते हि फलप्राप्तिः समुत्कर्षात्फलस्य च”॥(नाट्यशास्त्रम्, १९.२,४-५)

“आधिकारिकं नाम यस्त्वितिवृत्तं फलसम्बन्धं करोति स कविना वर्णनोपायारोहमानीतः तत्समर्थाचरणेन प्रयुज्यते। ... कविर्यत्फलमुत्कर्षेण विवक्षति तत्प्रधानफलम्। ... तदुचितनायकग्रहणेन कविः प्रवर्तमानो न स्वेच्छया प्रवृत्तो भवति”।(अभिनवभारती, १९.२,४-५)

एवं च मुनिर्भरतो मनुते यन्महद्वस्तुग्रहणमात्रेण महाकाव्यं न सिद्ध्यति, वस्तुनिर्वहणे कापि कमनीयता समिन्धीतेति। अवसरेऽस्मिन्नितिवृत्तसम्बद्धानि सन्धिसन्ध्यङ्गादीनि सर्वाण्यपि तत्त्वानि तेन विशदीकृतानि। यथा—

“सन्धीनां यानि वृत्तानि प्रदेशेष्वनुपूर्वशः।
स्वसम्पद्गुणयुक्तानि तान्यङ्गान्युपधारयेत्॥

इष्टस्यार्थस्य रचना वृत्तान्तस्यानुपक्षयः।
रागप्राप्तिः प्रयोगस्य गुह्यानां चैव गूहनम्॥

आश्चर्यवदभिख्यानं प्रकाश्यानां प्रकाशनम्।
अङ्गानां षड्विधं ह्येतद्दृष्टं शास्त्रे प्रयोजनम्॥

उदात्तमपि यत्काव्यं स्यादङ्गैः परिवर्जितम्।
हीनत्वाद्धि प्रयोगस्य न सतां रञ्जयेन्मनः॥

काव्यं यदपि हीनार्थं सम्यगङ्गैः समन्वितम्।
दीप्तत्वात्तु प्रयोगस्य शोभामेति न संशय”॥(नाट्यशास्त्रम्, १९.५१-५२, ५४-५५)

“उदात्तमपीति—लक्षणगुणालङ्कृतियुक्तमित्यर्थः। हीनार्थमिति—स्वल्पमपि प्रयोजनं प्रहसननिदर्शनकथा-ख्यायिकादि। प्रयोगः प्रयुक्तिस्तत्राङ्गं प्रयोगं रञ्जनातिशयो व्युत्पत्त्यतिशयश्च तदुभयं तत्र काव्ये दीप्तं स्फुटमित्यर्थः।” (अभिनवभारती, १९.५१-५२, ५४-५५)

तस्माद्वस्तु, तद्वर्णनं चोभयमपि समं प्रामुख्यमञ्चति। प्रणयिषु वा दाक्षिण्यादथवा सद्वस्तुपुरुषबहुमानाद्वस्तुमाहात्म्यमतिवेलं समाश्रित्य निर्वहणसौन्दर्ये सावज्ञं वर्तनं महते खल्वनर्थाय कल्पते। किमिह कालायसेन विनिर्मितमाभरणं काञ्चनभूषणायते? इति कृत्वा वस्तुमात्रविश्रान्तचित्ताः कवयो न स्युः। काव्यनिर्वहणे महान्तमादरं प्रकटय्य वस्तुविचितौ तिरस्कारप्रदर्शनं पुनरसाम्प्रतम्। काञ्चनमुपयुज्य कमनीयं किमपि शिल्पं कल्पयेत्। स एव प्रथमः कल्पः। कनकसुमे हि परिमलत्वमापादयेत्। स तावदुदारः कल्पः। एतदर्थं वस्तुसदृशं संविधानं, संविधानसंनिभाः प्रकृतयः, प्रकृत्युचितानि वर्णनानि, वर्णनसदृक्षं च वाग्गुम्फनमत्यवश्यम्॥

Notes

[1] काव्ये जायमानं भूतभाविघटनानिरूपणम्, तद्रसास्वादस्य वार्तमानिकवैशिष्ट्यं च तौलनिकरीत्या परिशीलयामः। अत्र हि वेदान्तः साह्यं ददाति। तदनुसारं ज्ञायते यत्कालसापेक्षो देशाश्रितश्च गतागतभेदस्तावद्देशकालपरिच्छेदरहितस्थितौ प्रविलीय प्रस्तुतत्वमेकमवशेषरूपेण विलसति। अर्थात्, दृग्दृश्यद्वन्द्वभावः परावृत्त्य दर्शनं जागर्ति। तदुक्तं मुरारिणा—

“अविद्याबीजविध्वंसादयमार्षेण चक्षुषा।
कालौ भूतभविष्यन्तौ वर्तमानमवीविशत्”॥(अनर्घराघवम्, २.३४)

[2] Ref: Raghavan, V. Studies on Some Concepts of the Alaṅkāraśāstram. Madras: Adyar Library and Research Centre, 1973. pp.131-146

[3] Ref: Tippe Rudraswami, H. Taulanikakāvyamīmāṃse (Kannada). Mysore: DVK Murthy Publishers, 1990. p.202

To be continued. 

 

Author(s)

About:

Dr. Ganesh is a 'shatavadhani' and one of India’s foremost Sanskrit poets and scholars. He writes and lectures extensively on various subjects pertaining to India and Indian cultural heritage. He is a master of the ancient art of avadhana and is credited with reviving the art in Kannada. He is a recipient of the Badarayana-Vyasa Puraskar from the President of India for his contribution to the Sanskrit language.

Translator(s)

About:

Shashi Kiran B N holds a bachelor’s degree in Mechanical Engineering and a master's degree in Sanskrit. His interests include Indian aesthetics, Hindu scriptures, Sanskrit and Kannada literature, and philosophy. A literary aficionado, Shashi enjoys composing poetry set to classical meters in Sanskrit. He co-wrote a translation of Śatāvadhāni Dr. R Ganesh’s Kannada work Kavitegondu Kathe.