४.६. उदाहरणपद्यानि
भोगनाथविरचितानि उदाहरणपद्यानि सायणाचार्यविजयनगरसाम्राज्यसम्बद्धानेकविषयस्फोरकाणीति प्रागेव प्रत्यपादि। अत्र विप्रतिपद्यमानाः केचिदाचक्षीरन्—काव्यसहजया नैकालङ्कारभूषितया शैल्या सन्दृब्धानि पद्यानीमानि सत्यदूराणीति। नैवं युक्तं वक्तुम्। सालङ्कारा शैली भूषणमेव न दूषणमिति इहोदाहरिष्यमाणानि पद्यान्यवलोक्य बोद्धुम् अर्हन्ति सन्तः॥








