रसब्रह्मसमर्थनम्
विपश्चिता तेन भरते वात्सल्यरसस्याभावः प्रदर्शितः[1]। नायं नूतनाक्षेपः । सर्वेऽपि विवेकिनो विशदानुभवशीलिनो निर्विवादमङ्गीकुर्वन्ति यद्रससङ्ख्यामीमांसापेक्षया रससिद्धान्तः परमं गरीयानिति । मुनिनापि भरतेन तत्र तत्र प्रादर्शि स्वागमे यच्छास्त्रविस्तरणं गच्छता कालेन यथोचितरीत्या सूरिभिः कार्यमिति । प्रायेण विधिमिममेव शिरसिकृत्वा नैक आलङ्कारिकमूर्धन्याः स्वं स्वं विचारं यद्भरतोपज्ञोपष्ठम्भकं प्राचीकटन् । समग्रमिदं शास्त्रमखण्डैकवृत्त्या जङ्गमशीलतया च ग्राह्यमिति सुधीमतां मतम् । तदिदं सर्वविद्यानामपि निर्वर्णनलक्षणमिति च गम्यते । अन्यच्च रतिर्नाम