संस्कृतसाहित्यचर्यासपर्या

VI

वयमिदानीं संक्षिप्तेनापि रूपेण साम्प्रतिकसंस्कृतकवीनां पुरस्स्थितान् प्रतिकूलांशान् विलोकयामः। एते तु काव्यनिर्माणकोणेन काव्यप्रचुरणकोणेन  च द्विधा भवन्ति। काव्यप्रचुरणस्यांशस्तु मुख्यतया व्यवहारजगत्सम्बन्धी लाभ-नष्टैकदृशा बर्बरार्थव्यवस्थामेवानुधावति। पुस्तकप्रकाशनोद्यमः परमार्थतो नान्यैरुद्यमैः प्रायेण भिद्यते। किन्तु शिक्षाऽशिक्षानिरपेक्षं लोकसामान्यसकलास्यप्रचुराणां भाषाणां रुचिल-सरल-सुलभसाहित्यप्रकाशने यावत्सौकर्यं न तावत्संस्कृतवाचः काव्यानां प्रकाशन इति मन्दोऽपि वेत्ति। अतो ह्यत्र नायमंशः प्रपञ्च्यते। अन्यच्च विषयेऽस्मिन् जनोऽयमपि नूनमनभिज्ञ एव। केवलमिदमेकमत्र वक्तुमलं यदन्तर्जालमाध्यमेन संप्रति संस्कृतकाव्यानां प्रचुरणाय प्रकाशनाय च कश्चन विहितावकाशो विद्यते। अत्रापि सन्ति सन्तस्तद्विदो वैपुल्येन। तस्मादिदमपि नास्माकं चुञ्चूप्रवेशभाजनमिति केवलं स्वानुभवसंवित्सिद्धं शुद्धञ्च काव्यनिर्माणकलावैशद्यमाश्रित्य तत्रत्यान्प्रतिकूलांशान् कांश्चन  विवेक्तुं प्रभवामः।

[contextly_sidebar id="NBz5n4MoJpxiK7fIqRe0ZngDayRcSfmv"]

लोकेऽस्मिन् शुद्धकाव्यस्य साक्षाद्रसिका एव विरलाः। सत्यमेव सर्वथा हि रसमयमूर्जस्वलं काव्यं स्निह्यन्ति महाजनाः। तथापि तादृशस्य काव्यस्य स्वारस्यसर्वस्वं, रूप-स्वरूपसौन्दर्यं, बोध-मोदमेदुरञ्च प्रतिपदं प्रतिनवं हृदा चिदा च भावयितुं न सर्वे शक्नुवन्तीति काव्यसूक्ष्मज्ञजनानुभवसिद्धमेव तथ्यम्। यदि विशुद्धं काव्यमन्वितं भवति गीतेन, नृत्येन, नाट्येन, चित्रेण वा; पुनस्सरलया सुलभया च वाचैव व्याख्यातं (यथा देशभाषासु रामायण-महाभारत-पञ्चतन्त्र-कालिदासीयादीनीव) च तर्हि नितरां बहुजनमनोग्राहि भवेत्। अन्यथा सुबोधं, रोचकं, प्रतिनवञ्च साहित्यं सामान्यतो जगति सदा जनप्रियं भवतीति श्रूयते। किञ्च साम्प्रतिके संस्कृतसाहितीजगति तत्त्वमिदं स्तोकमिव भिन्नमित्यपि गम्यते। यतः संस्कृताद्यभिजातभाषासु प्राचामेव ग्रन्थानां प्रशस्तिः पारम्यञ्च। न केऽपि वार्तमानिकं कमपि कविमाद्रियन्ते। अत एव नूतनानां काव्य-शास्त्राणां प्रकाशन-प्रचुरणादीनि बहुक्लेशावहानि।

अत एव केनापि कविना प्रागेवोक्तम् :

शैलैर्बन्धयति स्म वानरहृतैर्वाल्मीकिरम्भोनिधिं
व्यासः पार्थशरैस्तथापि न तयोरत्युक्तिरुद्भाव्यते।
वागर्थौ तु तुलाधृताविव तथाप्यस्मत्प्रबन्धानयं
लोको दूषयितुं प्रसारितमुखस्तुभ्यं प्रतिष्ठे नमः॥ (सुभाषितरत्नकोशः, १७२६)

कटुसत्यमिदमेव किलाधुनिकः कविरर्जुनः काव्यप्रकाशनक्लेशांश्च मनसि कृत्वा प्रकारान्तरेण प्रकटयत्येवम् :

कल्याणे यदि ते स्पृहास्ति सुमते मा पुस्तक् लिख्यतां
लेख्यं चेच्छिशुवाङ्मयं लिख सखे शास्त्रे रुचिस्त्यज्यताम्।
शास्त्रे साहसिकोऽपि मा जडमते ग्रन्थं बृहन्तं कुरु
तत्रापि स्खलितोऽसि चेद्धतमते भिक्षाटनं स्वीकुरु॥ (कण्टकाञ्जलिः पृ.१२९)

तस्मात् सर्वमिदं विचार्य ये काव्यप्रयोजनत्वेन केवलं सद्यःपरनिर्वृतिरूपं स्वानन्दमेव पर्याप्तभूतं प्रभूतं फलमिति स्वीकुर्वन्ति न तु यशोऽर्थादीनि त एव किल कवयितारो वार्तमानिकसंस्कृतसाहितीजगति सुखमनुभवन्तीति स्वमतम्। स्युर्नाम दिष्ट्या कीर्ति-काञ्चनादिभिः कन्दलिताः कविकेसरिणः स्वकाव्यनिर्मित्या; परमत्र वयमत्यन्तं तलातलं वास्तवमेव (ground reality) पुरस्कृत्य विवक्षवः। यदीदं विसंवदति तत्तर्हि सर्वथा स्वागतायैव भवेत्। अतो ह्यन्वितकाव्यवर्त्मनि कुतुकिनो गीत-नृत्त-चित्र-व्याख्यादिभिः स्वकाव्यानि ख्यापयितुमर्हन्ति यथारुचि यथौचित्यञ्च। परमिदमखिलं बहुसम्पन्मूलसाध्यं श्रमावहमपि। अत एव सर्वमिदं काव्यनिर्माणापेक्षया प्रायशः काव्यप्रचुरणमनुधावतीत्यलम्।

कलासर्जनशीलतायां प्रतिभैव परमं निधानमिति सिद्धान्त एव। तामिमां प्रतिभां न कथञ्चिदपि यत्नेन बाह्येन शतेनापि स्रष्टुं वा मार्ष्टुं वा शक्यम्। यदि शक्यमिदं तर्हि न सैव प्रतिभा खलु। अतो हि केवलं व्युत्पत्तिरभ्यासश्च बाह्येन यत्नेन प्राप्तुं शक्यौ। साम्प्रतिकसंस्कृतकाव्यनिर्माणे प्रतिभाशालिनां प्रभूतः प्रवेशस्स्यादित्यस्माकं भूयसी हृन्मनीषा। नवनवोन्मेषशालिनी प्रज्ञैव प्रतिभेति लक्षणप्राया किल परं प्रसिद्धा सूक्तिस्तत्रभवतो भट्टतौतस्य। अत्र नवनवोल्लेख इत्यपि कश्चन पाठः श्रूयते। उभावपि च पाठावस्माभिरिष्येते। यतो ह्यर्थप्रपञ्चमेवानुधावत्युन्मेषः शब्दप्रपञ्चमेवानुशीलयत्युल्लेखश्च। किन्त्वेतादृशाय नवनवोन्मेषाय नवनवोल्लेखाय च नवनवानुभवरसिकानां नवनवोक्तिविच्छित्तिप्रकाराणामपि विपुलावकाशः स्यात्। प्रथमस्यांशस्य सिद्धये साम्प्रतिकसंस्कृतसाहित्यनिर्मातृभिः सुतरां व्यापको लोकानुभवः प्राप्यः। देश-काल-वस्तु-भेदेन, भाषा-संस्कृति-समाज-भेदेन च विश्वरूपमेव समावहत्यनुभवसंसिद्धियत्नः। साम्प्रतिकसंस्कृतसाहित्यसमाजे तु प्रायेण कथञ्चिद्भाषाव्युत्पत्तिसाधनायामेव बहुकालो व्यतीयते। एवं सत्यथ कथं वा सिद्धिरनुभवस्य? व्यापकानुभवेन विना यत्केवलं वाग्व्युत्पत्तिबलेन लिख्यते तत्सर्वथा व्योमरोमन्थनमिव, शवोद्वर्तनमिव, पिष्टपेषणमिव श्रमं, वैयर्थ्यं वैरस्यञ्च जनयति। सर्वमिदं पूर्वमेव लेखेऽस्मिन् प्रपञ्चितमिति नात्र विस्तरं  समर्हति। विपुलानुभवस्तु व्यापकलोकसंपर्केनैव शक्यः। विशदानुभवः किञ्च प्रत्यक्प्रवणेन जगन्निरीक्षणेनैव लभ्यः। सुकविना द्वितयमिदमपि प्राप्यम्। एकेन भवसामग्री त्वपरेण भावसामग्री च तस्य हस्तवचेयविश्वद्रुमसुमायेते।

द्वितीयस्यांशस्य (तन्नाम, नवनवोल्लेखात्मकोक्तिविशेषस्य) संसिद्धये कोश-व्याकरण-च्छन्दोऽलङ्कारादीनि शास्त्राणि, संस्कृत-संस्कृतेतरासु च भाषासु निबद्धानि काव्य-शास्त्रादीनि परमं प्रयोजनमावहन्तीति विदितमेव। अत्रैव किल व्युत्पत्तिविषये सन्ति बहवः प्रश्नाः, सन्ति बह्व्यः समस्याश्च। न कोविदेन केनापि कृत्स्नमिदमधिकरणं प्रपञ्चयितुमलम्। अतः केवलमत्र शाखाशीतांशुन्यायेन कानिचन वाक्यानि प्रस्तुयन्ते।

यद्यपि सुकवेर्व्युत्पत्तिमधिकृत्य प्रत्नैराचार्यरत्नैः प्रास्तावि भूयसी नीतिः, सा च साध्वी मेध्या सत्यपि, साहित्यशास्त्रस्य तत्सम्बन्धीनि महाधिकरणानि किञ्चिदर्हन्ति विस्तरं; यद्यपि सत्यमेव पूर्वालङ्कारिकैर्यद्यदुक्तं तथापि साम्प्रतिकसाहित्यनिर्माणावसरे क्वचिदिव भिन्ना एव भवन्ति प्रतियोगिन (Challenges)इतीदं वास्तवं मनसि निधायास्माभिर्विवेचनीयमिति युक्तिः।

मुख्यतया गद्यमये काव्ये (यथा लघुकथा-बृहत्कथा-आत्मकथा-हास्यकणिका -ललितप्रबन्ध-प्रवासकथन-अनुभवकथन-विडम्बनकथन-गद्यरूपकादिषु), विशिष्य समसामयिकवस्तु-वृत्तान्तमये तु व्यावहारिकी काचिद्वाक्सरणिः परमावश्या। अत्र तावद्देश-काल-वक्तृ(पात्र-प्रकृति-भूमिका)-व्यवस्थानुसारं यथोचिता हि वाग्रीतयः समाश्रयणीयाः। नो चेत्काव्यनिर्माणे नैसर्गिकी साहजिकी च विच्छित्तिर्न पदं कुरुते। न च पात्राणां (प्रकृतीनां भूमिकानां वा) प्रत्यक्षायमाणत्वहेतुना विश्वसनीयतोत्पादनसामर्थ्येन च निर्मीयमाणा या काचिदपि रुचिरा परिणामरमणीयता समुपजायते। जानन्त्येव हि सर्वे सङ्क्ख्यावन्तो यत्कविप्रौढोक्त्यपेक्षया कविनिबद्धप्रौढोक्तिरेव स्वारस्यं समधिकं प्रसूत इति। अतः साम्प्रतिकं संस्कृतसाहित्यं पूर्वसूरिप्रयुक्तानां तत्तद्देश-कालोचितानानां प्राकृतानां (मागधी-महाराष्ट्री-शौरसेनी-प्रमुखाणां) सदृशं, किन्तु सुकरं सुबोधं च नूतनं किमपि प्राकृतं कल्पयित्वा प्रयोक्तुं वरमिति मे मतिः। येन केवलमधीतसंस्कृता अपि लीलया नवमिदं ’प्राकृतं’ समवगच्छेयुः। अत्र तावद्भाषिकरूपेण संस्कृतस्यान्त्यन्तं निकटं पालीति प्रथितं (तत्त्वतो मागधीति भगवता बुद्धेन व्यपदिष्टं) प्राकृतप्रभेदं मनसि निधाय तत्समीपवर्ति चेतोऽपि (च+इतः+अपि) संस्कृततरं भाषितं निर्मेयम्। अस्यां नवीनप्राकृतभाषायां स्युर्नाम प्राचीनप्राकृतानामपि नैके पदानि यानि संस्कृतनिकटानि। किञ्चास्याः प्रत्येकं व्याकरणमिति न कोऽपि विशिष्टः प्रयासः कार्यः। यतो हि संस्कृतस्यैव सर्वात्मना छायारूपेण नवमिदं प्राकृतं कल्प्यते, येन विना निश्चितव्याकरणनियमनिगलं सर्वापि सा भाषा स्वयमेव सुकरमवगम्यत एव। सत्यर्थबोधेऽपि सुलभेऽपि, विहितव्याकरणव्यवस्थया विना कथमैकरूप्यं पाठे प्रयोगे चेति सन्देहैरलं; यतः प्राकृतं खल्विदं परमार्थेन, व्यपदेशमर्हति भूयसा। अनेनैवास्य प्राकृतत्वमपि सिद्ध्यति। अन्यच्च, मूलरूपेण संस्कृतं तु सर्वत्र भवत्येव। केवलं पूर्वोक्तनां नैकविधानां साहित्यस्वारस्यानां समाधानायैव नवमिदं प्राकृतं छायामात्रेण समुपयुज्यते।      अत्र देशभाषाणां कन्नड-तेलुगु-मराठी-हिन्दीत्यादीनां पामरजनव्यवहाररूपाणि  निदर्शनत्वेनावधेयानि। एतेषां वाग्रूपाणां न किञ्चिदपि विद्यते निर्दिष्टं व्याकरणम्। तथापि तेषां सुगमावगमे न केषामपि क्लेशोऽवभासते। केवलं ह्युदाहरणाय पश्यामो वाक्यमेकम्।“अस्ति मम मातामही शारदाम्बा यस्याः स्नेहवात्सल्यपूरे नित्यमिवाभिषिक्तोऽस्मि नप्ताहम्”। नवप्राकृतच्छायामस्य च पस्यामः।“अत्ति मे मातामई सारदाम्बा यस्सा णेअवाच्चल्लपूरे णिच्चं व अविसित्तो अम्मि नप्पाहम्”। अस्यां नवीनप्राकृतच्छायायां सन्ति कतिचन   प्राचीनप्राकृतप्रसिद्धाश्शब्दाः। सन्त्यन्ये तु केचन नूतनास्स्वोपज्ञाश्च। किञ्च सर्वेऽपि चैते शब्दा अनधीतप्राकृतानामप्यवबोधसुलभा एवेति मन्ये। अत्र कारणं तु प्राकृतच्छायासमस्तस्य ससंस्कृतत्वं ससन्दर्भत्वम्। तथैव हि प्रायेण प्राकृतशब्दरूपाणां सर्वेषामपि मूलसंस्कृतस्वरूपात् स्वल्पमात्रदूरगमनं; तन्नाम, न्यून्नीभूतविकृतिकरणमित्यन्यत्कारणम्। संस्कृतव्यासङ्गिना  सुपरिचितप्राचीनप्राकृतेनापि मया त्वीदृशः प्रयोगः पूर्वमेव स्वकृतिषु क्वचित् प्रवर्तित एव। सन्त्यन्ये स्युश्च वा मत्सगोत्राः प्रयोगप्रयासेष्वीदृशेषु सम्प्रति। अतोऽहं दिश्यस्यां वार्तमानिकसंस्कृतगद्यकवीनां लेखकानामप्यवधानानि गमयितुमीहे।

इदमन्यदपि काकतालीयमविस्मर्तव्यमिति प्रार्थये; तदेवमास्ते। भारतीयाङ्ग्लं साहित्यमिति (Indian English Literature) यदस्ति तदपि वाङ्मयं वार्तमानिकं संस्कृतसाहित्यमिव समग्रभारतीयसमाजस्य समस्तस्तरगतानां  जनानां (आबालगोपालमिति यावत्, आपण्डितपामरमिति यावद्वा) भावानां चाभिव्यक्तिसमर्थेन लक्षणावृत्तिबहलेन, लोकोक्तिरक्तिलटभेन च प्राकृतेन रहितमिति दृढमवधेयम्। अत एव भारतीयाङ्ग्ले साहित्ये न कापि कृतिः देशस्यास्य प्रभूतजानपदजीवनगतं गाम्भीर्यं वैविद्ध्यं वैचित्र्यं च निरूपयितुं नाशकत्। वार्तमानिकसंस्कृतसाहित्यस्यापि क्वचिद्गतिरेवमेवेति संशीतिः स्यादभियुक्तेषु। किन्तु भारतीयाङ्ग्लस्य सामर्थ्यं केवलं लौकिके नागरके विज्ञान-तन्त्रज्ञान-वाणिज्य-व्यवहारस्तरे हि लालसीति न तु भावुके ग्रामीणे संस्कृतिनिष्ठे श्रद्धास्तरे। अत्र केवलं परमार्थतः संस्कृतमूलीया काचित्सुषमा चिरन्तनचमत्क्रिया खलु नानटीति। अतो ह्यस्मिन्नवसरे भावायाममिमं समाविष्कर्तुं संस्कृतमूलेन सह कयापि किल प्रतिनवप्राकृतच्छायया क्वचिदभिव्यक्तिवैदुषी यतनीया।

एवमेव संस्कृतस्य समर्थसुन्दरविनियोगाय लेखकैस्तस्य जीवनाडीगतिर्ज्ञेया। सा तु प्रायेण वाचोयुक्तिरिति वचोविच्छित्तिरिति वा नव्यैर्वाणीपश्चिद्भिः प्रतिपादिते विशिष्टवाग्विभूषणे सुतरां विलसति। इममेव भाषाऽऽकल्पं Idiom इत्याङ्ग्लवाचि व्यपदिशन्ति। महावैयाकरणवरेण्यैश्चारुदेवशास्त्रि-रङ्गनाथशर्म-पुल्लेलश्रीरामचन्द्रुडुप्रभृतिभिः स्वकृति-लेखनादिषु वाचोयुक्त्या विवेचनमितिहासस्सङ्ग्रहश्चेति सुतरां स्तवनीयानि कार्याणि कृतान्येव। किञ्च विद्वत्कविपरम्परामात्रप्राप्तानां सहस्राधिकानां वचोविच्छित्तीनां परिपणेनैव नास्माकं वार्तमानिकसाहितीकुसीदं सौभाग्यमञ्चमञ्चति। अत्र तावदस्मदुपज्ञासमष्टिपरिपाकप्रसूता वृद्धिरूपेण प्रयुज्यमाना काप्यभिनवा  चमत्कारचञ्चुरा च व्याहारवैदग्धी समपेक्षिता। वाणीसरणिरियं साम्प्रतिकं भारतीयं वा जागतं समाजं, तद्गतानां नानाभाषाणां भणितीश्च पुरस्कृत्यैव प्रकटयन्त्यपि न तत्र मनागपि संस्कृतस्य साहजिकशैलीसुषमात्रुटिर्भवेत्। एवं हि साधनीया स्थितिः काचित्तु साधीयसी।

व्याकरणविचारे च किञ्चिदस्ति वक्तव्यम्। यद्यपि सर्वथा परमप्रमाणतया मुनित्रयमतमेव शरण्यं, तथापि समयान्तरप्रमाणान्यपि सविमर्शं ग्राह्याणि। विशिष्य महाकवीनां प्रसिद्धसुन्दरार्षकृतीनां च विलक्षणमनोहराः प्रयोगा उपादेयतामेव यान्ति। अत्र पूर्वमेव मुखभूषण-आर्षप्रयोगसाधुत्वनिरूपणमुखाः कृतयः काश्चन कल्पिता एव। एतासां पदपद्धतिमनुधावन्तस्तत्रभवन्तो वैयाकरणाः साम्प्रतिकाः स्थितस्य गतिश्चिन्तनीयेति न्यायेन विदांकुर्वन्तु व्याहारव्यवहारमित्याशासे।

Vidwan N. Ranganatha Sharma

अत्रास्मदुपाध्यानां महामहोपाध्यायानां श्रीमतां रङ्गनाथशर्मणामाशय एवं भवति स्म सामान्यत इति निवेदयितुमीहे। ते च तदा तदा तु वदन्ति स्म “इदं साधु इदमसाधु पदमिति शुक्लकृष्णक्रमेण वाङ्मयमखिलं मण्डलाग्रेण विभज्य वक्तुं कृतपरिश्रमस्य वैयाकरणवरेण्यस्य सुतरां नास्त्यपेक्षा। रसभरितानां सत्काव्यानां प्रज्ञाफलानां बहुशास्त्राणां च निर्मातृभिः सारस्वतसाधकैर्लोकहितविधायकैः प्रयुक्तानां क्वचिदपाणिनीयानां शब्दानामपि कथञ्चित् साधुत्वमापादनीयं, शिष्टत्वमुत्पादनीयं च। नो चेत् प्रायेण वाणीरक्षणार्थं हि विहिता महतीयं व्यवस्थावृतिः काव्यकृषीवलानामेव पथि कण्टकविक्षेपिणी स्यादि”ति। अतः संस्कृतस्य सौन्दर्यसामर्थ्याविरुद्धं  वार्तमानिकसत्कविकुलानुकूलं काले काले च देयं भागदेयं शब्दसमयविद्भिः।

तात्पर्यरूपेणावधेयमिदमत्र : संस्कृतस्याभिजात्यानुरोधिना तद्रौक्ष्यमपि सौम्यतां नेयमिति येन युगपदेव सरसता, सरलता, सुभगता, सुलभता च हस्तावचेयवासन्तनमेरुप्रसवगुच्छसच्छायतां समधिगच्छन्ति।  सांप्रतिकसंस्कृतस्योपरि संस्कृतेतरवाचां प्रभावचिन्तनमित्यपरश्च विद्यते विवेचनांशः। अत्रैव कथञ्चिदनुवादविधानमीमांसा च संगच्छते यतो हि प्रायेण भाषान्तराणां प्रभावस्य प्रधानहेतुरनुवाद एव।  प्रायेण संस्कृतवाणी चिराय स्वोपज्ञतयैव प्रवृद्धा प्रबुद्धा च। सत्स्वपि राजकीयाक्रमणेषु नैकविधेषु नैककालेषु च नास्यां यवन-पार्शव-हूणादिभाषाः स्वप्रभावान् निपुणं निरूपयामासुः। किञ्च गतशताब्दावधौ भूयानिवाङ्ग्लः  प्रभावो दरीदृश्यते। अनेनैव सह देशभाषाणामपि विपुलः प्रभाव आलोक्यते। तत्त्वतः प्रभावः त्रिविधः। एकस्तु मुख्यतया साहित्यवस्तुगतस्तथा तदनुसृत्य निर्मीयमाणविविधकाव्यप्रकारगतश्च। अन्यस्तु प्रधानतया काव्येषु हीदृशेषु प्रस्तूयमानानां भौतानां भावानां च द्रव्याणां निर्देशनार्थं प्रयुज्यमानशब्दानां

यथावद्वा प्रकारान्तरेणापि वा स्वीकृत्या समुद्भूतः। अपरस्तावद्विशिष्य वाक्यरचनागतो वाचोयुक्तिविन्यासगतश्च। अत्र प्रथम-द्वितीयांशौ प्रायेण निरपवादमिवाङ्ग्लेयसाहित्य-संस्कृति-नागरकताधीनौ। एतौ तु सर्वासामपि भारतीयभाषाणां समानावेव प्रभावांशौ। अतो ह्यत्र नास्ति किमपि वैशिष्ट्यं यत्संस्कृतैकसम्बद्धमिति। अन्यच्च प्रभावेनेदृशेन कस्यचिदपि साहित्यस्य स्वरूपं परिवर्तितमिव भवति न तु रूपम्। यतो हि रूपं तावत्सर्वदा सर्वथा तत्तद्भाषाधीनम्। प्रविशन्तु नाम नैकानि भौत-भावद्रव्यवाचीनि पदानि। नैतैः  प्रधानतया वाक्यसरणिर्भिद्यते; वाचोयुक्तिर्व्यत्यस्यते। अन्यच्च वयं प्रायेण सर्वथा परकीयमित्याङ्ग्लवाणीप्रभावं जागरूकतयैव; सभयं साश्चर्यं सदैन्यं सावलेपं ससम्भ्रमं सबहुमानं च पश्याम। अत एव संस्कृतस्योपरि वा कस्या अपि भारतीयभाषाया उपर्याङ्ग्लवाक्प्रभावस्तु साहित्यादिषु क्षेत्रेषु वस्तु च वस्तुविन्यासं शब्दं शब्दोच्चारणमेव मुख्यतया कटाक्षीकुरुते न तु वाक्यं वाक्यविच्छित्तिम्। अन्यच्च कर्मणिप्रयोगबहलत्वादाङ्ग्लवाणी क्वचिदिव संस्कृतसरणिमेव ज्ञापयतीत्यलम्। परमत्र देशभाषाणां प्रभावस्तु नैतादृशः।

सर्वाश्च भारतीयभाषा अचिन्त्यसाहोदर्यं वा चिरन्तनसाहचर्यं वा भजन्तीति सविस्रम्भं वाक्यरचनास्तर एव परप्रभावः प्रचुरतया स्वीक्रियते। अन्यच्चेदृक् प्रभावस्तु भवन्नास्त इत्येव प्रज्ञापि न प्रत्यभिज्ञायते। अत एव सम्प्रति संस्कृतसाहित्यवाणी यद्यपि व्याकरणशुद्धा मुनिमतनिबद्धा तथापि दैवेन देशभाषासंस्कारवासनावासिता ह्यभिजातरीतिरसिकानां घ्राणेन्द्रियाणि क्वचिदाकुलयतीति दृष्टचरमेव। दशामिमां नैकेऽपि दोषज्ञाः पूर्वमेव स्वलेखेषु समुद्घाटयामासुरिति नात्र विस्तर इष्यते। अन्यच्च प्रभाव एष तु प्रतिभाषं भिद्यत इति हेतुना व्यपदेशस्तु भूयसा भाययति भाषाप्रयोगविमर्शकान्। अन्ततस्तात्पर्येण तदिदमवधेयं कविबुभूषुभिर्यदन्यभाषाणां प्रभावस्तु यत्नेन परिहरणीयः। यत्रेतिवृत्तानुरोधिना परवाग्व्यवहारेष्वावहत्यौचित्यं तत्र सर्वमपि यथारसं समीचीनमेव चकास्ति। किञ्च यत्र नयोऽयं नश्यति तत्र समस्तमपि हिनस्तीत्येव सिद्धान्तः।

अनुवादविधानानि बहूनि किल कालेन गच्छता समाविष्कृतानि। परन्तु न केवलं संस्कृतवाङ्मये, समस्तेऽपि भारतीयसाहित्यप्रपञ्चे प्रत्यक्षरं प्रतिवाक्यं वा प्रतिकृतिसदृशं त्वनुवादविधानं प्रायेण नैव पश्यामः। केवलं सर्जनशीलं रचनात्मकं पुनस्सृष्टिरूपं वा रूपान्तरक्रमेणानुवादवर्तनं वयं विलोकयामः। अत्र तु लेखकस्य महदस्ति स्वातन्त्र्यं, बहु भवति कल्पनाप्रावण्यम्। अपि च संस्कृतस्याभिजात्यरक्षणं शालीनताशिक्षणं वाप्यात्मसाद्भविष्यति। यद्यपि सन्ति सहस्राधिकान्युदाहरणान्यस्य समर्थनार्थं केवलमेकं सरसोदाहरणमिव  षेक्स्पियर् कवेः ह्याम्लेट् रूपकस्य संस्कृतावतरणं “चन्द्रसेनः” इत्यङ्कितं दृश्यकाव्यं स्मरामः। अनेन विधिना न वयं निष्ठुरस्य यथामूलानुवादक्रमस्य व्यतिरेकिण इति भाव्यम्। वयमेव क्रमेऽस्मिन् क्वचिदिव कृतपरिश्रमा अपि। केवलं साध्यताबाहुल्यनिरूपणार्थं दर्शिताः किल नैके नयाः। तत्त्वतः सर्वमपि प्रतिभाबलवतां पथ्यमेव। आस्तां, अलमतिविस्तस्तरेण। अधिकरणान्तरं वयं यामो येन काव्यकलाया अपरमाननं निशम्यते।

केवलपद्यकाव्यरचनायां प्रायेण नातीव सन्ति सन्देहाः। यतः संस्कृतवाचः पारम्पारिकी छन्दोविचितिः सर्वथा समर्था, सर्वकर्मक्षमा च। विश्ववाङ्मयेषु विश्रुतमश्रुतं वा यत्किमपि स्याच्छन्दोवर्त्म तत्संस्कृतसाहितीस्यन्दनयानाय निराघाटं निर्णिबन्धं च सञ्चारसौकर्यं सौन्दर्यमपि कल्पयति। परमपरस्य प्रतीपसाध्यता प्रायेण दुश्शक्या यतः संस्कृतवाक्पोषणरहितानां नैकभाषाणां काव्यकन्यकास्तु गीर्वाणवाणीवृत्तविचितिवेदिकायां नर्तितुं स्यान्नाम, तूष्णीं स्थातुमपि, स्रागिव सर्तुमपि कष्टमतिमात्रमनुभवन्ति। नैष संस्कृतवाग्दोषः, प्रत्युत तद्भिन्नानां भाषाणामेव नैसर्गिकी मितिः। यद्यपि साम्प्रतिके संस्कृतसाहित्ये पाश्चात्यसंपर्कवशादिव सानेट्, ओड्, ब्ल्याङ्क् वर्स्, फ्री वर्स्, हाय्कु (जपानीयोऽपि बन्धः प्रायेणाङ्लमाध्यमद्वारात्र स्वीकृतः) इत्यादीनि;  त्रिपदी साङ्गत्य अक्कर चौपदी षट्पदी रगळे (कन्नड), सीसमु गीतमु पदमु (तेलुगु), विरुत्तं कुरुट्पा अगवल् वञ्जि (तमिळु), दोहा रोला सोरठा चौपायी घनाक्षारी (हिन्दी), शायरी घजल् (उर्दू) इत्यादीनि च बहूनि देशभाषाछन्दांसि (प्रायेण संस्कृतोपजीवितान्येव) प्रयुक्तानि, कवि-पण्डितानुमोदनं प्राप्तानि तथापि नैतानि संस्कृतैकमूलीयानां वृत्तानां जातीनामपि शोभां कलयापि न संस्पृशन्ति। इदं तु पूर्वोक्तानां देश-विदेशमूलीयानां प्रायेण सर्वेषामपि च्छन्दःप्रभेदानां तत्त्व-प्रयोगपाटवपुरस्सरं स्वयं संस्कृतकाव्ये विनियोजितं निजं निशितानुभवं पुरस्कृत्य विवृतं तथ्यम्। सत्यमेवान्यमूलीयान्येतानि च्छन्दांसि नैजं किमपि किमपि श्रवणाभिरामत्वं वहन्ति, प्रयोगेऽपि सौकर्यं कलयन्ति, परिणामे तु रूपमात्रेणापि नव्यतामापादयन्ति। तथापि ममैषा मनीषिता। अत्राभिप्रायभेदोऽपि स्यात्। सर्वथा भिन्नरुचिर्हि लोकः। रुचीनां वैचित्र्यं वैपुलयञ्च को वा कार्त्स्न्येन वक्ष्यति? अस्मदायत्तमिदमल्पमर्पितं सुधीनिबोधाय मोदाय च।

समाप्ताविदमस्ति महातात्पर्यं संस्कृतवाणी सर्वकर्मक्षमा। अस्याः परमार्थतः प्राक्तनाद्यतनादीनि परिच्छेदविधानानि स्वप्नेऽपि न निर्बध्नन्ति। केवलं प्रतिभैका नियन्त्रिका। ये खलु परयाऽनया समनुगृहीतास्ते व्युत्पत्तिमितंपचा अपि विवेकिभिर्विपश्चिद्भिः क्रमेण समुन्नेया आभिजात्यजित्वरे व्योम्नि। यत्र शब्दगुणगण्ये पुण्याङ्गणे कालेन रसवन्ति फलन्ति काव्यानि दिव्यानि।

नयमिमं विहाय न केनापि व्युत्पत्तिमात्रमूढेन नितरां नीरसं निष्ठुरं दुर्भरञ्च काव्याभासकन्थावयनं कार्यमिति जागरणजयघण्टा रारण्यते।

अन्यैरनुल्लिखितपूर्वमिदं ब्रुवाणो
नूनं स्मृतेर्विषयतां विदुषामुपेयाम्।
हासैककारणगवेषणया नवार्थ-
तत्त्वावमर्शपरितोषसमीहया वा॥ (व्यक्तिविवेकः ३-३८)

[This formed the content of the author’s Presidential Address in the symposium on ‘Modern Sanskrit Writing’ held at Shringeri.]

CONCLUDED 

Author(s)

About:

Dr. Ganesh is a 'shatavadhani' and one of India’s foremost Sanskrit poets and scholars. He writes and lectures extensively on various subjects pertaining to India and Indian cultural heritage. He is a master of the ancient art of avadhana and is credited with reviving the art in Kannada. He is a recipient of the Badarayana-Vyasa Puraskar from the President of India for his contribution to the Sanskrit language.