समस्याख्यानम् - 1
समस्याख्यानम् अवधानस्य प्रमुखेष्वङ्गेष्वन्यतममनन्यञ्च । अनर्था असङ्गतार्था वा काचन पद्यपङ्क्तिः कविसम्मुखे प्रक्षिप्यते या च तेन प्रत्यग्रप्रतिभया अर्थसङ्गतिर्यथा स्यात् तथा पूरणीया । अयं च काव्यप्रकारः चिरात् प्रथतेतरां वाङ्मयप्रपञ्चे । सोऽयं प्रकारो न केवलं संस्कृते, प्रत्युत बह्वीषु भारतीयभाषासु प्राप्तप्रतिष्ठो विराजति । विशेषतः चित्रकाव्यप्रकारेषु अमुष्य अग्रपूजा सर्वसम्मता । वात्स्यायनेन चतुःषष्ट्यां कलासु काव्यसमस्यापूरणम् अपि सन्दृब्धं विद्यते । भूयःसु च सङ्ग्रहग्रन्थेषु एतत्प्रकारकाणि पद्यानि उल्लिखितान्यलं विलोकितुम् । यथा, सुभाषितरत्नभाण्डागारे चित्रप्रकरणे समस्याख्यानाख्यो विभाग