रसब्रह्मसमर्थनम्

विपश्चिता तेन भरते वात्सल्यरसस्याभावः प्रदर्शितः[1]। नायं नूतनाक्षेपः । सर्वेऽपि विवेकिनो विशदानुभवशीलिनो निर्विवादमङ्गीकुर्वन्ति यद्रससङ्ख्यामीमांसापेक्षया रससिद्धान्तः परमं गरीयानिति । मुनिनापि भरतेन तत्र तत्र प्रादर्शि स्वागमे यच्छास्त्रविस्तरणं गच्छता कालेन यथोचितरीत्या सूरिभिः कार्यमिति । प्रायेण विधिमिममेव शिरसिकृत्वा नैक आलङ्कारिकमूर्धन्याः स्वं स्वं विचारं यद्भरतोपज्ञोपष्ठम्भकं प्राचीकटन् । समग्रमिदं शास्त्रमखण्डैकवृत्त्या जङ्गमशीलतया च ग्राह्यमिति सुधीमतां मतम् । तदिदं सर्वविद्यानामपि निर्वर्णनलक्षणमिति च गम्यते । अन्यच्च रतिर्नाम स्वात्मसंतर्पणभाव इति चिन्तयामश्चेदन्यैव या कापि संविद्विच्छित्तिः प्रस्फुरेद्यथा –

रतिः सकामा शृङ्गारो निष्कामा वत्सलत्वभाक् ।
अन्यच्च सर्वभावानां रसत्वाप्तिः क्वचिन्मता ॥

श्लोकोऽयं व्यापकं व्याख्यानमपेक्षत इति नात्र विस्तृतिरिष्यते ।

नाट्यवेदे रसस्तु कलाकृन्निष्ठो न तु सहृदयस्येति कोऽप्याक्षेपः[2]। अत्र कृष्णमूर्तिमहोदयस्यापि सहमतिरस्तीति सूचनापि काचिच्चकास्ति । अश्रद्धेयमिदं परमार्थतः । यतः -

नाभिज्ञाते सहृदये रसः किं वा प्रयोजनम् ।
कलालोकस्य सर्वस्य वक्रतावर्त्मनः परम् ॥

कलाकृद्यदि भोक्ता स्याद्रसस्यानन्यमात्रकः ।
तर्हि सोऽपि भवेत्स्वस्य निर्मितेः सहृदेव हि ॥

सर्वसामान्यविवेकवेद्यं यच्चरमगत्या रसो यदि न सहृदयहृदय आविष्कृतो न भवति तर्हि सर्वदा सर्वथा च तस्य वैतथ्यं वैयर्थ्यं च सिद्धम् । रसस्य मूलं वस्तुनि वा कलाकृति वा पात्रे वाप्यनुकर्तरि वा  यत्र कुत्रापि स्यान्नाम ; परं तत्पर्यन्तभूमिः सहृदय एव । अस्याः सरण्याः साधनकाले प्रायेण लोल्लट-शङ्कुक-भट्टनायिकादीनां वादाः प्रसृताः स्युः । परं सर्वेऽपि तात्पर्येण सहृदयनिष्ठा इति निभालनीयम् । यथा सर्वाण्यपि भारतीयदर्शनानि वेदान्तपर्यवसायीनीति हिरियण्णवर्यमतं तथैवात्रापि ज्ञेयम् । किं बहुना भरतागमस्य प्रथमाध्याय एव विधातरि देवदानवमानवानां क्रीडनीयकाभ्यर्थनावधौ रूपकप्रेक्षकलक्षणनिरूपणे च तत्त्वमिदमेव स्फुरति ।

पुनश्च पोल्लाक् वर्यः अलङ्कारशास्त्रं नाट्यमीमांसापेक्षया क्वचिदर्वाचीनमपि मनुते[3]। एतदस्माकं विचारमूढमिति प्रतिभाति । यतः –

साहित्यगीतचित्राद्याः कला नाट्ये प्रतिष्ठिताः ।
अतस्तासां च मीमांसा तत्त्वदृष्ट्या सनातनी ॥

अन्यच्च लक्षणादीनां वृत्तीनां चिन्तने मुनिः ।
इतिवृत्तेऽपि तद्ब्रूते छन्दसां विवृतावपि ॥

प्रायेण बहवोऽपि विपश्चिदपश्चिमाः प्राच्यभारतीयसंस्कृतौ कालानुपूर्वीविषये विविधतत्त्वानां वादानामुपजीव्योपजीवित्वप्रसक्तौ विविधविषयानधिकृत्य तत्तद्ग्रन्थेषु समुपकल्पितस्थलपरिमाणतारतम्यविचारे च महतीं विचिकित्सां जनयन्तो विवादशालीनतायामेव स्वात्मानं धन्यं मन्यन्ते । किञ्च भारतीयनैसर्गिकभावरीतिः काचिद्विभिन्नैव । नूनमेतेषामुपरि निर्दिष्टानां विचाराणां महत्वं किमप्यस्त्येव । तथापि सर्वे च ते भारतीयसंवेदनस्य हृद्भागं न कदाप्यधिवसन्तीति तथ्यम् । केवलमङ्गभूताः खल्वेते । विवेकमिमं भूयोऽप्युपप्लावयन्तो महान्तोऽपि मुह्यन्ति मोहयन्ति च । तदिदमत्राप्यापतितम् । सर्वमिदं श्रीनरसिंहभट्टेन सम्यक्प्राबोधि स्वीयकृतिषु । नाट्यशास्त्रे षट्त्रिशल्लक्षणानां विवरणे व्याकरणालङ्कारच्छन्दोविचित्यादिषु काव्यमात्रस्य नैकान्यङ्गानि प्रपञ्चितानि । तथा चेतिवृत्त-वृत्ति-रूपकप्रभेद-सन्धि-सन्ध्यङ्गादिष्वपि काव्यसंबन्धीनि भूयांसि तत्त्वानि तत्र तत्र प्रस्फुरन्तीति प्रकटमेव ।

मान्यलेखकः क्वचित्काव्योक्तिर्नाट्यप्रयोगापेक्षया गरीयसीति मनुते[4] । अत्र तस्येङ्गितं तु श्रव्य-दृश्यकाव्ययोर्मध्ये किमपि वैमनस्यं जनयितुमिव प्रतिभाति । रुचीनां वैविध्ये यत्किमपि कथञ्चिदपि भवितुमर्हति । परं विशुद्धशास्त्रचिन्तनावसरे सर्वासामपि कलानां तत्तन्मात्रा कापि सार्वभौमिकी स्थितिर्जागर्तीति निःसंशयः । अन्यच्च प्रत्येकोऽपि कलाविशेषः स्वकीयं वैशिष्ट्यं यन्निजमितिमहितं बिभ्रतीति दृष्टचरमेव । यथा गाने याऽमूर्तता  विशुद्धभावैकप्रवणता वर्वर्ति सा प्रायेण शब्दार्थमयकथनात्मकसाहित्ये मनागिव कनीयसी स्यात् । किञ्च वस्तुन एकस्य स्वभावप्रस्तावे नानाविधानां मूर्तामूर्तानां वस्तूनां वा भावानां क्रियाणां वा स्थलानां प्रस्तावमपि वक्रवाग्व्यापररूपेण सुलभतया समानेतुं साहित्ये शक्यं स्यात् । परमिदं गीते क्वचिन्नृत्ते वा सर्वथा दुःशकमिति दृष्टचरमेव । अथ च नृत्ये सकलानामपि सात्त्विकभावानां सूक्ष्मातिसूक्ष्मसुविशदसुनिपुणप्रकटीकरणं रससिद्धेन केनापि कलाविदा शक्यत एव । अस्याच्छमाक्षिकरसास्वादसदृक्षस्य तीव्रानुभवस्य जानुदघ्नमपि नायाति कदाचित्साहित्यरसचर्वणा । चित्र-शिल्पेषु या काप्यधिष्ठानसुषमा सुविस्तृता विलसति सा प्रतिक्षणोन्मीलितनिमीलितमधुरिम्णि कालप्रवाहतरलिम्नि गाने कथं वा परिलब्धुम्? अतः सर्वास्वपि कलासु या काप्यनिर्वचनीयविच्छित्तिरनन्या नानटीतीति निश्चप्रचम् । तदेव भङ्ग्यन्तरेण ब्रूते तत्रभवान्काव्यादर्शकारः[5] । अन्यच्च मनोरङ्गस्थले नाट्यायमानत्वेन विना न कासामपि कलानां कलात्वं, तन्नाम रसास्वादत्वं, शक्यत इति लोकत्रयानुभवः । तदेव पुनरत्र व्यपदिष्टं । यथा –

प्रयोगत्वमनापन्ने काव्ये नास्वादसंभवः ।
इति तौतीयवाक्येनाद्वैतं सर्वकलास्वपि ॥

दृढसंशयालुना विदुषा रसः कृतिगतो वा पात्रगतो वा सहृदयगतो वेति पुनश्च संशीतिमुत्थापयति[6]। तदिदमस्माभिः पौनःपुन्येन स्पष्टीकृतम् । हन्त! पुनश्च परापतति प्रकारान्तरेण पिशाचिकेयं समुच्चाटनार्थम् । उक्तं हि महतः शास्त्रस्य शतशताब्दविस्तृतस्य निर्माणान्वयकालस्य विविधानि चिन्तनानि महीयसापि विवेकेन स्वीकार्याणि परीक्ष्याणि निरूप्याणि च ।तदा ज्ञायत एवेदं तथ्यं यत्कविर्वा गायनो वा नटो वा चित्रशिल्पी वा स्वकलानिर्माणचिकीर्षायां यदा प्रेरितश्चान्तर्बहिश्च तदा बाह्यमिदं जगदान्तरमात्मनश्चित्तवृत्तीः कोऽपि सहृदय इव विविधकलाविशेषान्प्रतिमुहुर्निर्वर्ण्य तत्पश्चान्निजकलारचनायां व्यग्रो भवति । अस्मिन्नपि काले तदा तदा कर्तृत्वेन भोक्तृत्वेन ज्ञातृत्वेन विमृशयितृत्वेन चैवं बहुभूमिकामयेन भावेन स्वमेव निर्माणं परिशीलयन्ननुशीलयन्कामपि लोक-लोकोत्तरभावनामनुभवति । तत्पश्चादवसिते सति तत्कार्ये (काव्य-चित्र-शिल्पादिषु) प्रयोज्यमाणे वा (आशुकविता-गीत-नृत्यादिषु) सहृदयस्तद्रसं समास्वादयति । सर्वेष्वेतेषु स्तरेषु कारयित्री-भावयित्रीप्रतिभयोः पर्यायपातीनि कटाक्षाणि यद्यपि प्रविलसन्ति तथापि सहृदय एव समग्रसमास्वादनसंभवः । यतः कलाकृदेकः स्वीयकलाप्रेरणावधौ निर्माणावधौ वापि यदि रसानन्दं समनुभवति सहृदयास्तु नूनमसङ्ख्याका एव तस्य कलाकृतो निर्माणेन सर्वदा सर्वत्र च स्वादमास्वादयेयुः । अनेनापि विधिना ज्ञायते यत्पर्यन्ततो रसः सहृदयनिष्ठो यतः कलाकृदपि मूलतस्तत्त्वतः सहृदय एव । संदिहानाः केचन मन्येरन्यत्हृदयोऽपि स्वीयभावयित्रीप्रतिभात्वात्कलाविदेव किलेति । तदत्रास्माकं समाधानं कलाविदि द्वे अपि प्रतिभे स्थे । किञ्च सहृदये तावदेकैव । अनयोः सामानाधिकरण्याद्भावयित्रीति ह्येकैव तिष्ठति । अतः सर्वेऽपि सहृदयाः । अन्यच्च सहृदयत्वेन परमार्थत आस्वाद एव चिरं स्थास्यति सत्त्वोद्रेकस्वरूपी ; न तु रजःस्पर्शमयी निर्माणशक्तिरित्यभ्युपगम्यते ।इदमेव भारतीयसंवेदनसारं यदास्वादः साधनापेक्षया वरमिति । सर्वमिदमत्र सङ्क्षिप्तमेवम् –

कवेः कल्पनकाले तु वस्तुनिष्ठा रसादृतिः ।
काव्यनिर्माणवेलायां कृतिनिष्ठा भविष्यति ॥

रसिकस्य समास्वादे तन्निष्ठैवेति कथ्यते ।
परं सर्वमिदं स्वस्मिन्सर्वथा सर्वदा स्थितम् ॥

सङ्ख्यावानसौ ख्यापयति क्वचिदत्र भारतीयकाव्यपरम्परा बौद्धमूलीयेति[7]। इदं तु कौटिल्यवैकल्यभ्रान्त्यादिनैकेषां व्यभिचारिणां दुर्विलसितमिति सर्वथा भाव्यम् । यतः –

बौद्धानां काव्यमूलत्वं न कदाचन कल्प्यते ।
यतो वेदेषु तद्दृश्यं कलानामपि भूरिशः ॥

सर्वथा चित्तवृत्तीनां कलाद्वाराऽनुशीलनम् ।
समस्तनरलोकाप्तिर्मतं नात्र विशिष्यते ॥

इह जगति सर्वास्वपि नागरकतासु संस्कृतिषु च मूलभूताः कलाः स्वस्वोपज्ञा एवेति प्रेक्षावतामपरोक्षम् । काव्यं गीतं नृत्तं चित्रं वा प्रागैतिहासिकमानवा अपि कल्पयन्तः रञ्जयन्ति स्म स्वात्मान इति समूह्यमेव । कापि संस्कृतिः कस्मादपि जनसमुदायात्काव्यप्रकारं वा छन्दःप्रभेदं वा वक्रोक्तिभङ्ग्यन्तरं वा स्वीकुर्यान्न तु साक्षात्काव्यकलामेव । विशिष्य वेद-वेदाङ्ग-कथेतिहासवाङ्मयसमृद्धे सनातनधर्मे निवृत्तिमात्रमुग्धाद्बौद्धात्कथमिव शृङ्गारादिपुरुषार्थचतुष्टयप्रतिपादकरसमयस्य काव्यकलाप्रवरस्य सङ्ग्रहणसंभवः? अस्माभिः पूर्वमेव चिरन्तनतमस्य बौद्धकवेरश्वघोषस्य रामायणानृण्यता प्रत्यपादि । तथा च भारतीयकाव्यस्य सनातनधर्ममूलत्वं च प्रादर्शि नैकेषु प्रकरणेष्वित्यलम्[8]

वेदान्तदर्शनं नूनं रससिद्धान्तहृद्गतम् ।
अस्यार्वाचीनता नैव व्याख्याभिर्युज्यतेतमाम् ॥

काव्यशास्त्रकाञ्चनकशाश्ममानिना माननीयेन रसमीमांसा तु गच्छता कालेन 'वेदान्तीकृते’ति च कोऽप्यभियोगः कल्पितः[9] । इदं तावदत्यन्तमसन्मृगमरीचिकेवेति वच्मो वयम् । अवस्थात्रयमीमांसाकेन्द्रभूतस्य माण्डूक्योपनिषदो मूलस्रोतसस्तावदथर्ववेदस्य किल रसमूलत्वं मुनिना भाषितं पुरा! स्कम्भोच्छिष्टादिसूक्तेषु मुण्डकादिष्वप्युपनिषत्सु रससिद्धान्तस्य जीवातुभूतं ब्रह्मानन्दाद्वैततत्त्वं सुप्रसिद्धमेव । सर्वमिदं समीक्ष्य किं न केनापि याथार्थ्यं ज्ञायते? विचारोऽयं प्रथितयशोभिरानन्दकुमारस्वामिप्रमुखैर्नैकत्र नैकधा प्रपञ्चितमिति नास्माभिरत्र पुनर्विपुलीक्रियते ।

सहृदयंमन्येन तेन विदुषा क्वचिद्भारतीयानां रुचिभेदपरिज्ञानं नासीद्रसास्वादे लोकनीति-भावनीतीनामपि संवेदनं नासीच्चेति साकूतं समाक्षिप्यते[10]। विशिष्योदाहरणरूपेण मुग्धामन्तर्वत्नीं शकुन्तलां निराकुर्वता दष्यन्तेनानुष्ठिते निर्घृणकर्मणि रससिद्धान्तस्य किं वा दायित्वमिव च पृच्छति । हन्त! सर्वेषामीदृषामाक्षेपाणां मूलं तु कलास्वाद-लोकास्वादयोरद्वैतं कल्पयतां प्रयोजनैकलोलुपानां सत्त्वातिशायिनि साक्षिभावेऽपि रजोरूषितकर्तृत्व-भोक्तृत्व-मदाहङ्कारहुङ्कारिणां रसवैमुख्यमेव । तदिदं पर्यन्ततो ब्रह्मनिराकरणमेव, प्रत्युत निजानन्दन्यक्कारणमेव भवतीति पौनःपुन्येन प्रतिष्ठितमस्माभिः । यदि विश्वस्मिन्सत्यस्य सौन्दर्यस्य शिवस्य चापि भारतीयार्षभावस्य विरोधि किमप्यस्ति चेत्तदिदमेव रसविद्वेषणं व्युत्पत्त्याभासभावनं समाजसुधारणाभासदुरहङ्कारदुर्विलसितमिति निरूपयामो यथा –

रसास्वादनसंस्कारः शनैर्व्यञ्जनवर्त्मना ।
व्युत्पत्तिं विविधां सूते तत्र का परिदेवना ॥

परन्त्वानन्दमात्रेण सर्वसङ्कल्पताऽदृतिः ।
सिद्ध्यतीति स्वयं वेद्यं रसस्त्वव्याज एव हि ॥

नीतिः सामाजिकी रीतिर्व्याख्या वापि यदृच्छया ।
रसानन्दस्य न क्वापि कर्मदुर्वार्यमुच्यते ॥

यथा ब्रह्म समस्तानां कर्मणामुत्तरं तथा ।
रसानन्दोऽपि सर्वासां व्युत्पत्तीनामिति स्थितिः ॥

कदाचिदौचित्यं रसस्य नैतिक-सामाजिकमौल्यमार्गदर्शीत्यनुबुद्ध्यता साध्वनेन धीमता पुनरलङ्कृत्यशिरश्छेदन्याय इवास्य तत्त्वस्य कृपणतामपि कथयति[11]। परं न कारणानि विवृणोति । किञ्चास्मदविकलनिश्चयस्तावदौचित्यं सर्वासामपि व्युत्पत्तीनां परमायतनमिति । यतो दर्शनशास्त्रेषु विवेक इव साहित्यविद्यायामौचित्यम् । अत एव यथा नास्तिकास्तिकादिभेदानतिरिच्य सर्वाण्यपि दर्शनानि नित्यानित्यविवेकादिकं स्वस्वचिन्तनश्रेण्यां मोक्षोपायत्वेन स्वीकुर्वन्ति तथा समस्तान्याप्यालङ्कारिकप्रस्थानानि समामनौचित्यम् । विवेकमतीत्य नैतिक-सामाजिकादिमौल्यानां को वान्यः प्रबलतमो विद्यते विज्ञानदण्डः? तस्मादभियोगोऽयमप्यपास्त एव । तद्यथा –

कार्यकारणभावानां व्युत्पत्तीनां तथैव च ।
भूमिका त्वौचिती ह्येकाऽप्यनयाऽलं विवेकिनाम् ॥

ग्रन्थारण्यगन्धेभस्तावदसौ ग्रथनकुशलः स्वस्यालङ्कारशास्त्रपाण्डित्यतपसः परमं फलमिव रससिद्धान्त एव यातयाम इति गतरस इति चतुरतया कथयति[12]। तदिदं तस्य कृतिगीतस्य निगूढध्रुवपदमिव प्रतिभाति प्रेक्षावताम् ।

Vidwan N. Ranganatha Sharma

सावधिर्विवेकः परमविवेको निरविधिरिति प्रत्यहं प्रत्यूचुरस्मदुपाध्याया महामहोपाध्यायाः श्रीरङ्गनाथशर्माणः साहित्यालङ्कारवेदान्तवर्माणः । तदत्रान्वेयमित्यस्माकं भागधेयम् । अद्यापि वाल्मीकिरस्मान्रञ्जयति व्यासो निरञ्जयति चेति कालिदासः समञ्जयति ; कतिपयसहस्रवर्षप्राचीनाः केचन मोहन-हिन्दोल-मध्यमावतीत्यादिरागा अनुरागेण निबध्नन्ति ; भारतीयं नाट्यशास्त्रं नैकनट-नर्तकाभिनीतिभिरनुबध्नाति ; साञ्ची-एल्लोरा-बादामि-देवगडीयादीनि शिल्पानि समाह्लादयन्ति । एवमेवाधुनाधुननिर्मितानि कथानकानि चलच्चित्राणि गेयानि चास्मान्सममेव सन्तोषयन्ति भूषयन्ति च । सर्वत्र वयं रससूत्रेणैकेन सर्वानपि सुन्दरान्कलामणीन्स्वदेशीयान्विदेशीयान्वा समकालीनानन्यकालीनान्वा निरुपाधिकं निबध्नीमो निजहृदये च बध्नीमः । किमिदं नालं निदर्शनं रसतत्त्वस्य सदातनत्वार्थम्? नूनमिदं दर्शनमेव । रस-ध्वन्यौचित्य-वक्रतेति चतुःस्कन्धात्मकं भारतीयं सौन्दर्यशास्त्रं वस्तुतन्त्रत्वेन समग्रस्य विश्वस्यापि गर्वास्पदमिति निवेद्य विरम्यते । तदत्र सङ्ग्रहः –

यातयामं गतरसं रसतत्त्वं यदि स्वयम् ।
तर्हि मानुषसर्वस्वं नष्टमित्यवधार्यताम् ॥

मनसा मानवाः सर्वे मनोवृत्तिः सदातनी ।
विभावा यदि भिद्यन्ते भावानां का नु वा क्षतिः ॥

विभावा अर्थमात्रा हि भावा वै कामरूपिणः ।
अतः सर्वोऽप्यर्थजातः कामसेवापरायणः ॥

पाकपात्राणि भिद्यन्तां पाक एको हि सोऽप्यथा ।
भिद्यते यदि चैकैव बुभुक्षा तर्पणा तथा ॥

चोद्यं तावदभियोगकण्टकमालामध्ये क्वापि निजनम्रताकम्रकुसुमान्यपि स्रगाभासपरिपूर्त्यै गुम्फति माननीयो मनीषी[13]

स्वाभिप्रायविशुद्धीनां मितिसंशीतयोऽसकृत् ।
विदुषा भणिता आदाविति काचिद्विलक्ष्यता ॥

तदिदं सत्यमिति वयं श्रद्धधाना विरमामः ।

Notes

[1] Pollock, Sheldon. A Rasa Reader. New York: Columbia University Press, 2016. pp. 28-29

[2] Ibid. p. 29

[3] Ibid. p. 30

[4] Ibid. p. 32

[5] इक्षुक्षीरगुडादीनां माधुर्यस्यान्तरं महत् । तथापि न तदाख्यातुं सरस्वत्यापि शक्यते॥(१.१०२)

[6] Pollock, Sheldon. A Rasa Reader. New York: Columbia University Press, 2016. p. 34

[7] Ibid. p. 37

[8] Ganesh, R., Ravikumar, Hari. The Bhagavad-Gita Before The Battle

[9] Pollock, Sheldon. A Rasa Reader. New York: Columbia University Press, 2016. pp. 39-40

[10] Ibid. p. 47, 53

[11] Ibid. p. 54

[12] Ibid. 54-55

[13] Ibid. p. 48

Concluded.

Author(s)

About:

Dr. Ganesh is a 'shatavadhani' and one of India’s foremost Sanskrit poets and scholars. He writes and lectures extensively on various subjects pertaining to India and Indian cultural heritage. He is a master of the ancient art of avadhana and is credited with reviving the art in Kannada. He is a recipient of the Badarayana-Vyasa Puraskar from the President of India for his contribution to the Sanskrit language.

Prekshaa Publications

Shiva Rama Krishna

சிவன். ராமன். கிருஷ்ணன்.
இந்திய பாரம்பரியத்தின் முப்பெரும் கதாநாயகர்கள்.
உயர் இந்தியாவில் தலைமுறைகள் பல கடந்தும் கடவுளர்களாக போற்றப்பட்டு வழிகாட்டிகளாக விளங்குபவர்கள்.
மனித ஒற்றுமை நூற்றாண்டுகால பரிணாம வளர்ச்சியின் பரிமாணம்.
தனிநபர்களாகவும், குடும்ப உறுப்பினர்களாகவும், சமுதாய பிரஜைகளாகவும் நாம் அனைவரும் பரிமளிக்கிறோம்.
சிவன் தனிமனித அடையாளமாக அமைகிறான்....

ऋतुभिः सह कवयः सदैव सम्बद्धाः। विशिष्य संस्कृतकवयः। यथा हि ऋतवः प्रतिसंवत्सरं प्रतिनवतामावहन्ति मानवेषु तथैव ऋतुवर्णनान्यपि काव्यरसिकेषु कामपि विच्छित्तिमातन्वते। ऋतुकल्याणं हि सत्यमिदमेव हृदि कृत्वा प्रवृत्तम्। नगरजीवनस्य यान्त्रिकतां मान्त्रिकतां च ध्वनदिदं चम्पूकाव्यं गद्यपद्यमिश्रितमिति सुव्यक्तमेव। ऐदम्पूर्वतया प्रायः पुरीपरिसरप्रसृतानाम् ऋतूनां विलासोऽत्र प्रपञ्चितः। बेङ्गलूरुनामके...

The Art and Science of Avadhānam in Sanskrit is a definitive work on Sāhityāvadhānam, a form of Indian classical art based on multitasking, lateral thinking, and extempore versification. Dotted throughout with tasteful examples, it expounds in great detail on the theory and practice of this unique performing art. It is as much a handbook of performance as it is an anthology of well-turned...

This anthology is a revised edition of the author's 1978 classic. This series of essays, containing his original research in various fields, throws light on the socio-cultural landscape of Tamil Nadu spanning several centuries. These compelling episodes will appeal to scholars and laymen alike.
“When superstitious mediaevalists mislead the country about its judicial past, we have to...

The cultural history of a nation, unlike the customary mainstream history, has a larger time-frame and encompasses the timeless ethos of a society undergirding the course of events and vicissitudes. A major key to the understanding of a society’s unique character is an appreciation of the far-reaching contributions by outstanding personalities of certain periods – especially in the realms of...

Prekṣaṇīyam is an anthology of essays on Indian classical dance and theatre authored by multifaceted scholar and creative genius, Śatāvadhāni Dr. R Ganesh. As a master of śāstra, a performing artiste (of the ancient art of Avadhānam), and a cultured rasika, he brings a unique, holistic perspective...

Yaugandharam

इदं किञ्चिद्यामलं काव्यं द्वयोः खण्डकाव्ययोः सङ्कलनरूपम्। रामानुरागानलं हि सीतापरित्यागाल्लक्ष्मणवियोगाच्च श्रीरामेणानुभूतं हृदयसङ्क्षोभं वर्णयति । वात्सल्यगोपालकं तु कदाचिद्भानूपरागसमये घटितं यशोदाश्रीकृष्णयोर्मेलनं वर्णयति । इदम्प्रथमतया संस्कृतसाहित्ये सम्पूर्णं काव्यं...

Vanitakavitotsavah

इदं खण्डकाव्यमान्तं मालिनीछन्दसोपनिबद्धं विलसति। मेनकाविश्वामित्रयोः समागमः, तत्फलतया शकुन्तलाया जननम्, मातापितृभ्यां त्यक्तस्य शिशोः कण्वमहर्षिणा परिपालनं चेति काव्यस्यास्येतिवृत्तसङ्क्षेपः।

Vaiphalyaphalam

इदं खण्डकाव्यमान्तं मालिनीछन्दसोपनिबद्धं विलसति। मेनकाविश्वामित्रयोः समागमः, तत्फलतया शकुन्तलाया जननम्, मातापितृभ्यां त्यक्तस्य शिशोः कण्वमहर्षिणा परिपालनं चेति काव्यस्यास्येतिवृत्तसङ्क्षेपः।

Nipunapraghunakam

इयं रचना दशसु रूपकेष्वन्यतमस्य भाणस्य निदर्शनतामुपैति। एकाङ्करूपकेऽस्मिन् शेखरकनामा चित्रोद्यमलेखकः केनापि हेतुना वियोगम् अनुभवतोश्चित्रलेखामिलिन्दकयोः समागमं सिसाधयिषुः कथामाकाशभाषणरूपेण निर्वहति।

Bharavatarastavah

अस्मिन् स्तोत्रकाव्ये भगवन्तं शिवं कविरभिष्टौति। वसन्ततिलकयोपनिबद्धस्य काव्यस्यास्य कविकृतम् उल्लाघनाभिधं व्याख्यानं च वर्तते।

Karnataka’s celebrated polymath, D V Gundappa brings together in the third volume, some character sketches of great literary savants responsible for Kannada renaissance during the first half of the twentieth century. These remarkable...

Karnataka’s celebrated polymath, D V Gundappa brings together in the second volume, episodes from the lives of remarkable exponents of classical music and dance, traditional storytellers, thespians, and connoisseurs; as well as his...

Karnataka’s celebrated polymath, D V Gundappa brings together in the first volume, episodes from the lives of great writers, poets, literary aficionados, exemplars of public life, literary scholars, noble-hearted common folk, advocates...

Evolution of Mahabharata and Other Writings on the Epic is the English translation of S R Ramaswamy's 1972 Kannada classic 'Mahabharatada Belavanige' along with seven of his essays on the great epic. It tells the riveting...

Shiva-Rama-Krishna is an English adaptation of Śatāvadhāni Dr. R Ganesh's popular lecture series on the three great...

Bharatilochana

ಮಹಾಮಾಹೇಶ್ವರ ಅಭಿನವಗುಪ್ತ ಜಗತ್ತಿನ ವಿದ್ಯಾವಲಯದಲ್ಲಿ ಮರೆಯಲಾಗದ ಹೆಸರು. ಮುಖ್ಯವಾಗಿ ಶೈವದರ್ಶನ ಮತ್ತು ಸೌಂದರ್ಯಮೀಮಾಂಸೆಗಳ ಪರಮಾಚಾರ್ಯನಾಗಿ  ಸಾವಿರ ವರ್ಷಗಳಿಂದ ಇವನು ಜ್ಞಾನಪ್ರಪಂಚವನ್ನು ಪ್ರಭಾವಿಸುತ್ತಲೇ ಇದ್ದಾನೆ. ಭರತಮುನಿಯ ನಾಟ್ಯಶಾಸ್ತ್ರವನ್ನು ಅರ್ಥಮಾಡಿಕೊಳ್ಳಲು ಇವನೊಬ್ಬನೇ ನಮಗಿರುವ ಆಲಂಬನ. ಇದೇ ರೀತಿ ರಸಧ್ವನಿಸಿದ್ಧಾಂತವನ್ನು...

Vagarthavismayasvadah

“वागर्थविस्मयास्वादः” प्रमुखतया साहित्यशास्त्रतत्त्वानि विमृशति । अत्र सौन्दर्यर्यशास्त्रीयमूलतत्त्वानि यथा रस-ध्वनि-वक्रता-औचित्यादीनि सुनिपुणं परामृष्टानि प्रतिनवे चिकित्सकप्रज्ञाप्रकाशे। तदन्तर एव संस्कृतवाङ्मयस्य सामर्थ्यसमाविष्कारोऽपि विहितः। क्वचिदिव च्छन्दोमीमांसा च...

The Best of Hiriyanna

The Best of Hiriyanna is a collection of forty-eight essays by Prof. M. Hiriyanna that sheds new light on Sanskrit Literature, Indian...

Stories Behind Verses

Stories Behind Verses is a remarkable collection of over a hundred anecdotes, each of which captures a story behind the composition of a Sanskrit verse. Collected over several years from...