रसाभासो निरस्यते—३

रसाभासरूपेण नूनं किलैतान्प्रवच्मो वयं नान्यथा विद्यमानान्। यदा वाऽऽग्रहास्तादृशा लोकबाह्या भवेयुस्तदा ते जने नीरसास्स्युः॥३३॥

अतो ह्यवादीद्ध्वनिकृत्पुरैव रसास्तदाभासमुखास्समस्ताः। रसादिरुपेण कृतौ प्रतिष्ठा व्यङ्ग्याध्वनि स्वादपरा भवन्ति[1]॥३४॥

रावणव्यपदेशेन यल्लोचनकृदीरितम्। तत्कवेस्तु विवक्षाया अधीनमिति मन्मतम् [2]॥३५॥

यद्यपि रावणे भट्टाभिनवगुप्तस्सीतावैषयिकीं शृङ्गारप्रसक्तिं निराकुरुते तथापि तस्मिन् रसान्ताराणां सम्भवं प्रत्याक्षेप्तुं न शक्यमिति पूर्वमेव निरूपितमस्माभिः। अन्यच्च कुवेम्पुवर्यस्य रावणोदात्तीकरणलालसापि न रसावहेति न्यरूपि। किन्तु यत्र सीतारामयोः प्रस्तावः सुतरामपि न दृश्यते दशकण्ठकथानके तत्र शृङ्गारवीरादीनामपि सम्भावना स्यात्। यतो हि दण्ड्यादयः प्रतिनायकपारम्यकथनमपि नायकाभ्युदयात्पूर्वं स्वारस्यकरमिति मन्यन्ते। तदतिरिच्य स्वतन्त्रेष्वपि प्रबन्धेष्वभिनवप्रकारेण रावणस्य सीतावैषयिकं विक्षोभं दुरन्तगम्भीरकाव्यधर्मतः प्रतिपादयितुं शक्यमेव। यथा पाश्चात्येषु “ट्राजिडि” इति काव्यप्रकारः प्रसिद्धो यत्र नायकस्य कश्चन लोप एव भावुकहृदयेषु करुण-भयानकमुखरसान् व्यञ्जयित्वा शान्तपर्यवसायेन साधयति सौन्दर्यं बोधयति नीतिञ्च सर्वथा महाकविक्षुण्णघण्टापथ इति विश्वविदित एव। ऐस्खुलस्-सोफोक्लेस्-यूरिपिदेस्-शेक्सपियर्-मुखाः कवितल्लजा एवात्र प्रमाणाम्[3]। पूर्वमेवास्माभिः प्रबन्धस्यास्य प्रारम्भे रससिद्धान्तस्य सर्वान्वयता व्यपदिष्टेति हेतुना सर्वमिदं विश्वसाहित्यवैविध्यं रसवत्तरमिति स्वीकृतम्।

सहृदयहृदयानुभूतिरारात्प्रभवति यत्र निराकुलं निलीनम्। कविकृतकथनेषु पात्रवर्गेष्वथ रसपुष्टिरुदेति तत्र नूनम्॥३६॥

व्युत्पत्तिभागं तु कृतौ कदाचिद्ब्रूमो रसाभासतया यतो हि। जगत्समाराधनतत्परेण कृतप्रयासः कविना हि स स्यात्[4]॥३७॥

मन्दाधिकारिणः प्रायो रसाभासनिषेवणे। उद्दिष्टा इति चाकूतिः प्रकारान्तरसंमता॥३८॥

मन्द-मध्याधिकारिणां रञ्जनार्थं कल्पितेषु लघुप्रायेषु कला-काव्येषु न तावती ध्वननशीलता। प्रयेणात्र संलक्ष्यक्रमव्यङ्ग्य एव परमसिद्धित्वेन गम्यते । अत एव वस्त्वलङ्कारध्वन्योः पारम्यमित्यपि मन्तव्यम्। तथापि रसप्रसक्तिस्तु दुर्निवार्यैव। यतो हि तया विना कुत्र वास्ति सुखं कलालोके? अतो यदि रसाभासत्वेन सङ्गतिरियं व्यपदिश्यते चेन्न हानिरिति केचित्। परमस्मदुपज्ञैवम्—रसाभास इत्ययं शब्दः क्वचिद्रसविरोधिन्यनौचित्ये क्वचिद्रसादिध्वनिवलये च सव्यभिचारमालङ्कारिकैरुपयुज्यते। नैतदभीप्सितम्। यतो हि विभिन्नतत्त्वानां परिकल्पनार्थं पृथक्पारिभाषिकपदान्येव सूरिभिरिष्यन्ते। तस्माद्रसाभास इति व्यपदेशं नार्हत्यनौचित्यमयं काव्यम्।

यदि पुष्टरसा काव्ये समासोक्त्याद्यलङ्कृतिः। रसाभासतया नात्र व्यपदेशो विधीयताम्॥३९॥

स्वप्नेऽपि समासोक्त्यादिवक्रोक्तिमयी कविसहानुभूतिभास्वती कविता रसाभासतामर्हति। यतो हि निसर्गवर्णनं तु समासोक्त्यैव परां काष्ठामधिवसति । अत्र पुनर्मानुषव्यापारः परमस्पृहणीयविधानेन ध्वन्यत एव। अनेन रसपुष्टिरपि स्वयं सिद्धा स्यात्। यथा “चञ्चच्चन्द्रकरस्पर्श ...” (वाल्मीकिरामायणम्, ४.३०.४५), “अङ्गुलीभिरिव ...” (कुमारसम्भवम्, ८.६३), “अनुरागवती सन्ध्या ...” (ध्वन्यालोकः, १.१३) इत्यादिषु पद्येषु गम्यमानं नायिकानायकवृत्तान्तं के वा न सहृदयशिरोमणयः शिरसि कुर्वन्ति सन्तोषेण?

भावप्रकाशने प्रोक्तो यो रसाभासविस्तरः। कवेर्विवक्षावैविध्यादन्यथात्वं प्रयास्यति[5]॥४०॥

शारदातनयं भोजं चानुयास्य पदे पदे। एवमेव निरस्तस्स्याद्रसार्णवसुधाकरः[6]॥४१॥

विद्याधराभिप्रायस्तु सुतरां युज्यते यतः। कवेर्विवक्षास्वारस्यं तन्मते द्योतते तमाम्[7]॥४२॥

तिर्यक्षु जडेष्वपि वा विभावभावादिविज्ञतापत्तिः। स्यान्न स्यादिति नास्ते विचिकित्सा काव्यतत्त्वरसिकानाम् ॥४३॥

“अस्ति वस्तुषु मा वाभूत्कविवाचि स्थितो रसः”। इति न्यायेन तिर्यक्षु भवेद्भावावलोकनम्॥४४॥

आलम्बनविभावेषु विरुद्धरसकल्पनम्। रसाभासाय वीथीति जगन्नाथोऽपि दूषितः[8]॥४५॥

यतो ह्युचितसन्दर्भे विभावादिविशेषतः। वैरुद्ध्यानां तिरोधानं रसिकानुभवेऽस्ति हि ॥४६॥

शारदातनय-सिंहभूपाल-जगन्नाथादयस्तु प्रकृतिषु विरुद्धरसयोजनं रसाभासत्वेन मन्यन्ते। अत्र तु रसाभासो नाम कदाचिद्रसदोष एव तेषां तात्पर्यमिति गम्यते। हन्त! पुनश्च रसाभास इति संज्ञायामेव स्पष्टताराहित्यम्! तदिदमास्तां, विरुद्धरसकल्पनं यदि कविप्रतिभानुप्राणितं तर्हि न दोषायेति सहृदयालोककारः। अस्मन्मनीषितमपि तथैव। यतस्त्रिलोकविजयी विजयः कुरुक्षेत्रसङ्ग्रामे निजवीरे करुणं भयानकञ्च समाकलयति येन गीतोपदेशभूमिका स्पृहणीयतया निरमायि। धर्मव्याधे वेदान्तदर्शनं यच्छान्तपर्यवसितं न मनागपि दोषायेति सर्वेऽपि सहृदया विदाङ्कुर्वन्ति। महामेधावी च हनूमान्मन्दोदरीं सीतेति कृत्वा विभ्रन्त्या स्वां शाखामृगप्रकृतिं विद्योतयन्विषमगम्भीरसन्दर्भे हास्यकारी न दुष्यति। एवमेव सिद्धरसेषु रामायण-महाभारतादिषु भूमकाव्येषु विरुद्धरसानामप्यविरुद्धमनिरुद्धं रससमिद्धं सौन्दर्यं समनुभूतं शक्यमिति प्रेक्षावतामपरोक्षमेव। तिर्यग्जन्तुषु मृग-विहग-मृगेन्द्रादिषु स्थावरेषु जीविषु तरु-लता-शाद्वलादिषु जडेषु नद-नदी-पर्वतादिषु च रसप्रसक्तिर्नास्तीति प्रजल्पद्भिः कुठारकठोरचेतस्कैः कविवरेण्यानां कालिदास-कुमारदास-भट्टबाण-भवभूति-प्रमुखानां काव्यकल्पतरव एव खलीकृता इति मन्ये। वाल्मीकिरामायणे ऋतुवर्णनं, पूर्वमेघे तु जीमूतपथं, कुमारसम्भवे प्रतिकूलवसन्तवैभवं, कादम्बर्यां विन्ध्याटवीं, उत्तररामचरिते जनस्थानञ्च तत्रत्यं प्राणिजीवनं, रामायणदर्शने नैकत्र नैकविधनिसर्गचित्रणं सर्वञ्च पश्यतां प्रायेण मानुषव्यापारापेक्षया मानुषेतरलीलानिरूपणमेव सुतरां रोचकमिति मनसि केऽपि मधुरभावाः समुद्भवन्तीति स्वानुभवप्रमाणपुरस्सरं शपामहे वयम्। अत्रोदाहरणानि समुद्धरणार्हानि सन्ति भूयांसि पद्यगद्यरत्नानि। किन्तु ग्रन्थविस्तरभयात्तथा तादृशानामनवद्यहृद्यकाव्यसन्दर्भानां परिचितिप्राचुर्याद्रसिकवर्गे च विरमामो वयमितः। परमिदमवधेयं यत्पाश्चात्यकाव्यलोके च वर्ड्स्वर्त्-कीट्स्-षेल्ली-हार्डि-प्रमुखानां गद्यपद्यविद्याधराणां वचस्सु निसर्गनिरूपणं समर्हत्यग्रताम्बूलमिति जगत्साहित्यवेदिनां मतम्। आधुनिकेषु चालेख्य-शिल्पादिषु, छायाचित्रेषु, चलच्चित्रादिषु सस्य-जन्तु-निसर्गलीलाविलसितं नितरां हृदयङ्गमं निरूपणं नैकधा कल्पितमिति जानन्त्येव सङ्ख्यावन्त इति सूचनया जिह्वा नः प्रह्वीक्रियते।

कर्णपूरस्य वादोऽपि न विचारसहो यतः। नास्तिकेष्वथ कृष्णेर्ष्यायुक्तेषु रसिकेष्वपि[9]॥४७॥

नायं क्षोदक्षमो भाति काव्यतत्त्वबहिष्कृतः। केवलं मतमुग्धानां स्निग्धभावाय कल्पितः॥४८॥

काव्यमीमांसा तु सार्वभौमभूता काचित्कलासौन्दर्यवरिवस्यासंवित्। नात्र श्रद्धाजाड्यानां मनागपि प्रवेशः कल्पितः। तथा च प्रीतिरहितानामपि निरोधो जागर्त्येव। तस्मादेषा नास्तिकानामास्तिकानां वा क्रीडनीयकतां न भजते। यतोऽस्या मीमांसाया मूलत्वेन भासमाना काव्यकला वा या कापि कला परमार्थतो रसिकानुभवमात्रमेया। नेयं कदाप्यनुभवदूरे विश्वासे वाप्यविश्वासे रतिङ्कुरुते। अतो हि श्रीकृष्णः साक्षाल्लीलामयः परमपुरुषो वा मर्त्यमात्रो जातु नास्माकं तत्र वादः। केवलं तस्य राधादिवल्लवीवाल्लभ्यं स्वरसं वा विरसं चेति विविदिषास्माकम्। येन केनापि निर्मलान्तःकरणेन सहृदयेन यदि पठ्यन्ते गीतगोविन्दादीनि गोपीगोपालकविलसितानि महाकविमनोमुकुरप्रतिफलितानि तर्हि तत्रावश्यं शृङ्गारादिरसचर्वणा भाविन्येव। न तेन रसिकवरेण वैष्णवेन भाव्यमास्यास्वादाय। नो चेत्कथमिव सनातनधर्मबद्धादरा वयं बुद्धचरितं (अश्वघोषप्रणीतं) वा गोल्गोथा-खण्डकाव्यं (गोविन्दपै-कविप्रणीतं) वा पारडैस् लास्ट् महाकाव्यं (मिल्टन्-कविप्रणीतं) वा भरतेशवैभवं (रत्नाकरवर्णिप्रणीतं) समास्वादयितुं पारयेम? अतो हि निगमनमिदं भाव्यं—व्युत्पत्तिमता सहृदयतल्लजेन स्वीयरसास्वादसंस्कारानुसारं महाकवि-महाकलावित्प्रणीतं किमप्युत्तमं निर्माणं हृदयसात्कर्तुं मतादीनां श्रद्धया वाऽश्रद्धया न किञ्चिदपि करणीयम्। अतो हि बिभीषिकारूपेण न केऽप्यत्र कलालोकबाह्यभूता लगन्तीति निगद्यते। अनेन विचारजातेन प्रेक्षावतामपरोक्षतामजनीति मन्महे रसाभासविवेकः। तदिदमस्तु माङ्गलिकमुपसंहृतिवचनम्—

पूर्वाचार्याचारचारुत्वचिन्तासन्तापघ्ना जानुदघ्नाप्यनिघ्ना। मत्कोपज्ञा तुष्टये स्यादभिज्ञा विद्वत्पारावारकुम्भोद्भवानाम्[10]॥४९॥

अदर्शितादरोऽप्यहं प्रदर्शितादरः परं सुधीपरम्परापुरःप्रसादाने न तत्परः। प्रबुद्धवक्रवाग्रसौचितीध्वनिप्रतिष्ठितौ निबद्धबुद्धयस्सनाभितां भजन्तु मच्चिति॥५०॥

टिपन्न्यः

[1] रसभावतदाभासतत्प्रशान्त्यादिरक्रमः। ध्वनेरात्माङ्गिभावेन भासमानो व्यवस्थितः॥ (२.३) रसादिरर्थो हि सहेव वाच्येनावभासते। स चाङ्गित्वेनावभासमानो ध्वनेरात्मा। ... रसादिपरता यत्र स ध्वनेर्विषयो मतः। (२.४) रसभावतदाभासतत्प्रशमलक्षणं मुख्यमर्थमनुवर्तमाना यत्र शब्दार्थालङ्कारा गुणाश्च परस्परं ध्वन्यपेक्षया विभिन्नरूपा व्यवस्थितास्तत्र काव्ये ध्वनिरिति व्यपदेशः।—Dhvanyālokaḥ. New Delhi: Motilal Banarasidass Publishers, 1982. pp. 40-42. [2] ... अत्र न तु हास्यचर्वणावसरः। ननु नात्र रतिस्स्थायिभावोऽस्ति। रत्याभासो हि सः। अतश्चाभासता एनास्य सीता मय्युपेक्षिका द्विष्टा वेति प्रतिपत्तिर्हृदयं न स्पृशत्येव। तत्स्पर्शे तस्याप्यनभिलाषो भवेत्। न च मदीयमनुरक्तेत्यपि निश्चयेन कृतं कामकृतान्मोहात्। अत एव तदाभासत्वं वस्तुतस्तत्र स्थाप्यते शुक्तौ रजताभासवत्। एतच्च शृङ्गारानुकृतिशब्दं प्रयुञ्जानो मुनिरपि सूचितवान्। अनुकृतिरमुख्यताभास इति ह्येकोऽर्थः। अत एवाभिलाष एकतरनिष्ठेऽपि  शृङ्गारशब्देन तत्र तत्र व्यवहारस्तदाभासतया मन्तव्यः। शृङ्गारेण वीरादीनामप्याभासतोपलक्षितैव।—Dhvanyālokalocanam, Varanasi: Chaukhamba Sanskrit Series, 1940. pp. 177-179. [3] न केवलं पाश्चात्यसाहित्यप्रपञ्चे तथा च तन्मीमांसावसरे (अरिस्तातल्-लाञ्जैनस्-होरेस्-इत्यादीनां विमर्शनग्रन्थजाते) परिमिता भवन्ति इदृशा विचाराः, किञ्च भारतीयसाहित्यमीमांसायामपि संवादिनः केचन दृश्यन्ते हि गमकाः। यथा—भट्टाभिनवगुप्तस्य नाट्यवेदोपाध्यायेन तत्रभवता भट्टतौतेन तावदेवं प्रायशस्स्वीये काव्यकौतुके सन्दृब्धम्—“यथादर्शान्मलेनेव मलमेवोपहन्यते। तथा रागावबोधेन पश्यतां शोध्यते मनः॥”—Kāvyaprakāśavivekaḥ. Calcutta: Calcutta Sanskrit College Research Series, 1959. p. 9. सङ्गतिरियं सर्वथा ग्रीस्-देशीयस्य बहुमुखप्रज्ञाशालिनः अरिस्तातल्-महोदयस्य विरेचनसिद्धान्तं (Catharsis), सहानुभूतिसिद्धान्तञ्च (Hamartia) विस्मयावहरूपेणानुगच्छतीति के वा न परिगणयन्ति। तदत्रास्मद्गुरुवर्येण केरळापुराभिजनेन कृष्णमूर्तिवर्येण पूर्वमेव प्रत्यपादीति स्मर्यते।—Krishnamoorthy, K. Essays in Sanskrit Literary Criticism, Dharwad: Karnatak University, 1974. pp. 47-50. [4] ... रसा वाच्यविशेषैरेवाक्षेप्तव्याः। ... वाच्यविशेषा एव रूपकादयोऽलङ्काराः। तस्मान्न तेषां बहिरङ्गत्वं रसाभिव्यक्तौ; यमकदुष्करमार्गेषु तु तत्स्थितमेव। यत्तु रसवन्ति कानिचिद्यमकानि दृश्यन्ते तत्र रसादीनामङ्गता, यमकादीनां त्वङ्गितैव। रसाभासे चाङ्गत्वमप्यविरुद्धम्। ... रसाभासाङ्गभावस्तु यमकादेर्न वार्यते। ध्वन्यात्मभूते शृङ्गारे त्वङ्गतां नोपपद्यते ।—Dhvanyālokaḥ. New Delhi: Motilal Banarasidass Publishers, 1982. pp. 58-60. [5] हास्याभिभूतः शृङ्गारस्तदाभासो भविष्यति। हास्यो बीभत्समिलितो हास्याभास उदाहृतः।। वीरो भयानकाविष्टो वीराभास इतीरितः। बीभत्सकरुणाष्लेषादद्भुताभास उच्यते। बीभत्सोद्भुतशृङ्गारो बीभत्साभास उच्यते। रौद्रवीरानुषक्तश्चेदाभासः स्याद्भयानके।। रक्तापरक्तयोश्चेष्टा यतो हासकरी नृणाम्। दृष्टा श्रुता सूचितापि शृङ्गाराभासकारिका। … भागद्वयं प्रविष्टस्य प्रधानस्यैकभागता। रसानां दृश्यते यत्र तत्स्यादाभासलक्षणम्।—Bhāvaprakāśanam. Baroda: Gaekwad Oriental Series, 1968. pp. 132-134. [6] न तावत्तिरश्चां विभावत्वमुत्पद्यते, शृङ्गारे हि समुज्ज्वलस्य शुचिनो दर्शनीयस्यैव वस्तुनो मुनिना विभावत्वेनाम्नानात् । तिरश्चामुद्वर्तनमज्जनाकल्परचनाद्यभावादुज्ज्वलशुचिदर्शनीयत्वानामसम्भावना प्रसिद्धैव। ... किञ्च जातियोग्यैर्धर्मैर्वस्तुनो न विभावत्वं, अपि तु भावकचित्तोल्लासहेतुभी रतिविशिष्टैव। विभावादिज्ञानं नामौचित्यविवेकस्तेन शून्यास्तिर्यञ्चो न विभावतां यान्ति। तर्हि विभावादिज्ञानरहितेषु मनुष्येषु रसाभासप्रसङ्ग इति चेन्नैष दोषः। विवेकरहितजनोपलक्षणम्लेच्छगतस्य रसाभासत्वे स्वेष्टावाप्तेः।—Rasārṇavasudhākaraḥ.  Tiruvananthapuram: Trivandrum Sanskrit Series, 1916.  p. 202. [7] अपरे तु रसाभासं तिर्यक्षु प्रचक्षते तन्न परीक्षार्हम्। तेष्वपि विभावादिसम्भवात्। विभावादिज्ञानशून्यास्तिर्यञ्चो न भाजनं भवितुमर्हन्ति रसस्येति चेन्न। मनुष्येष्वपि केषुचित्तथाभूतेषु रसविषयाभासप्रसङ्गात्। अत्र विभावादिसम्भवोऽपि रसं प्रति प्रयोजको न विभावादिज्ञानम्। ततश्च तिरश्चामस्त्येव रस इति।—Ekavalī. Hyderabad: Osmania University, 1981. p. 104. [8] एवं गुर्वाद्यालंबनतया, वीतरागाद्याश्रयतया करुणरसस्य, पित्राद्यालंबनतया रौद्रवीरयोः, वीरगतत्वेन भयानकस्य, यज्ञीयपशुवसाद्यालंबनतया बीभत्सस्य, ऐन्द्रजालिकाद्यालंबनतयाद्भुतस्य, चण्डालादिगतत्वेन शान्तस्य चाभासमूह्यम्।—Kāvyapradīpaḥ. Mumbai: Kavyamala Series, 1933. p. 93. अनुचितविभावालंबनत्वं रसाभासत्वम्। विभावाद्यौचित्यं पुनर्लोकानां व्यवहारतो विज्ञेयम् ...  ब्रह्मविद्यानधिकारिचण्डालाधिगतत्वे च निर्वेदः ... महावीरगतत्वेन भयं, यज्ञीयपशुवसासृङ्मांसाद्यालंबनतया वर्तमाना जुगुप्सा च रसाभासाः।—Rasagaṅgādharaḥ, Vol. 1. Varanasi: Sampurnananda Sanskrit University, 1977. pp. 218-224. [9] यद्यप्ययं रसाभासः परोढारमणीरतिः। तथापि ध्वनिवैशिष्ट्यादुत्तमं काव्यमेव तत्।।—अलङ्कारकौस्तुभम् (५७२). [10] Krishnamoorthy, K. Essays in Sanskrit Literary Criticism, Dharwad: Karnatak University, 1974. pp. 114-136. यद्यपि ममालङ्कारशास्त्रनौकायानाय वेलाशैलसमारूढदीपस्तम्भायितेन तत्रभवता केरळापुराभिजनेन कृष्णमूर्तिना चुलुकीकृतसाहित्यविद्यावाराशिना रसाभासविषये नितरां बोधप्रदं लेखनमेकं पूर्वमेव निरमायि चानेन मत्प्रेक्षा प्रौढिमानमभाजि तथापि तत्र पूर्वाचार्याणां मतेषु विद्यमानानां गुण-दोषमीमांसा प्रायेण न विहिता। अत एव तस्यां दिशि प्रकल्पोऽयं प्रवर्तितः। अनेन शास्त्रपूरणप्रयत्नेन प्रीणातु स विदांवरः।

Concluded.

 

Author(s)

About:

Dr. Ganesh is a 'shatavadhani' and one of India’s foremost Sanskrit poets and scholars. He writes and lectures extensively on various subjects pertaining to India and Indian cultural heritage. He is a master of the ancient art of avadhana and is credited with reviving the art in Kannada. He is a recipient of the Badarayana-Vyasa Puraskar from the President of India for his contribution to the Sanskrit language.