संस्कृतस्य रुपस्वरुपमाहात्म्यम् - Part 1

"भारतस्य प्रतिष्ठे द्वे संस्कृतं संस्कृतिस्तथा"

"संस्कृतं नाम दैवी वागन्वाख्याता महर्षिभिः"

शास्त्र-काव्यप्रतिभाविलासानां व्यक्तीकरणाय परमं माध्यमं संस्कृतम्

यद्यपि भगवता पाणिनिना भाषेत्येव व्यवहृता तथापि तस्यैव महर्षेः प्रभावात् संस्कृतमिति भूत्वा राजलोह (Royal Metal) इति गीयमानस्य सुवर्णस्य नित्यकान्तिलकायमिव स्वीयं नित्यनिर्विकारशरीरं प्राप्य परिपूर्णतायाः पर्यायवत्, निस्सन्दिग्धतायाः प्रतिरूपवत्, निरुपमानसाध्यतानां साकारवत् विजृम्भते। अतो हि केवलं संस्कृतभाषायां विद्यमानं ज्ञानराशिं विहाय तस्याः शब्दरूपाणां, वाग्रूढीनां विन्यासमात्रमेव पश्यामश्चेदपि विस्मयः संजायते। कति धातवः! कति प्रत्ययाः! कति पर्यायपदानि ! कति समासभेदाः! कति वाक्यविन्यासक्रमाः! डुकृञ् इति धातुमेकमेव स्वीकृत्य केवलं कृदन्तमाश्रित्य कति कति वा शब्दा निस्सरन्ति ! कर्म, करणं, कारणं, कार्यं, कृतिः, कर्ता, कर्त्री, कृत्वा, कारं कारं, कृतं, कृतः, कृता, कारितं, कारितः, कारिता, कारकं, कारिका ... हन्त! न पारमेति ।सोपसर्गस्तु परमूहातीत एव। यथा आकृतिः, प्रकृतिः, स्वीकृतिः, विकृतिः, संस्कृतिः, उपकारः, अपकारः, प्रकारः, प्राकारः, परिकरः, निकारः, अधिकारः, अनुकारः ... इतोऽपि यात्येवानन्त्यम् ।

सन्नन्तादिषु, यङ्लुगादिष्वपि एवमेव। यथा चिकीर्षा, चिकीर्षुः, चर्कर्ति, चर्करीति, चरीकर्ति, चेक्रियते इत्येवं प्रसरत्येव सुविस्तरम्। एवमेव पर्यायशब्दानामपि निर्माणे संस्कृतस्य सुविस्मयावहा काचित्सारणिर्दृश्यते। उदाहरणार्थं  कमलं इत्यस्य पर्यायत्वेन कोषेषु कानिचन पदानि विद्यन्ते यथा पद्मं, नलिनं, अरविन्दं, महोत्पलं, शतपत्रं, सहस्रपत्रं, कुशेशयं, पङ्केरुहं, पङ्कजं, सारसं, सरसीरुहं, तामरसं, बिसप्रसूनं, राजीवं, पुष्करं, अम्भोरुहं इत्यादि। परमस्माभिः केवलं कमलस्य जलसम्भवत्वादेव नैकानि पदानि निर्मातुं सुकरम्। यथा जलजं, सलिलजं, नीरजं, वारिजं, जीवनजं, उदकजं ; जलेशयं, नीरेशयं, सलिलेशयं ; जलरुहं, जीवनरुहं, वारिभवं, भुवनभवं इत्यादि निर्विरामं निरुच्छिन्नं च प्रवहति पर्यायपदवाहिनी। एवं कमलवाचकानि प्रायशः सहस्राधिकानि निमेषमात्रेण साक्षात्कुर्वन्ति।

एषैव कथा खल्वन्येषां धातूनां, प्रत्ययानां, पर्यायपदानामपि। अत एव खल्विदमुच्यते यत् संस्कृतभाषायां विद्यमानानां शब्दानां सङ्ख्या त्वगणितैव। एवमेव संस्कृतस्य संक्षेपणशक्तिः। नो चेत् कथं वा सूत्राणां सम्भवः? सूत्राणां प्रसक्तिरास्तां, केवलं समासानामेव सामर्थ्यं पश्यामश्चेत्  "आफलोदयकर्मा " इतीदं कालिदासस्य पदमेकं भाषान्तरेण कथयितुं सप्ताष्टौ वा पदान्यावश्यकानि यथा " One who continues to work till he begets the fruits". हन्त ! कियती संस्कृतस्य सारवत्ता ।एवमेव विस्तरक्रमोऽप्यस्य विस्मयावहः। " शिवधनुः " इति सरलतया यदुच्यते तत्  "शैलाधिराज-तनया-दयित-शिलीमुखासनं " इत्यपि व्यासवर्त्मना वक्तुमलम् ।

यदि वयं तिङन्तानां  विषयमेव विलोकयामश्चेत् केवलं त्वेकस्मिन् भूतकालद्योतने निष्कृष्टतावाप्त्यै कियान् संरम्भः। अद्यतन-अनद्यतन-परोक्षादीनां सूक्ष्मसूक्ष्मतरविभागास्तेषु विकल्पाश्च लङ्-लुङ्-लिट्-लकारादीनां रूपेण भाषामीमांसकं कमपि रोमाञ्चकञ्चुकितं कुर्वन्ति। एवमेव भविष्यति, विध्याशीरित्यादिषु च विज्ञेयाः। तथैव तत्पुरुष-बहुव्रीहि-कर्मधारयादीनां समासानां विग्रहवाक्यविन्यासाः कथमिवार्थप्रपञ्चं सुतरामभिरामं कल्पयन्तीति परिशीलनीयम्। कारकलोकं पश्यामश्चेत् नूनं मूकीभवति मानसम् । प्रत्येकविभक्तीनां रूपवैविध्यानि नान्यतो दर्शनीयानि विस्फारयन्ति चेतांसि।

एषैव कथा धातूनां परस्मैपद्यात्मनेपद्युभयपद्यादिषु सेट्-वेट्-अनिट्-इत्यादिषु च विविधविभागेषु नितरां जागर्ति। विशिष्य शिक्षाशास्त्रानुसारं विविधानामुदात्तानुदात्तस्वरितादीनां स्वराणामपि प्रक्रियां वयं स्मरामश्चेत् सुबन्त-तिङन्त-कृदन्त-तद्धितादीनां समासानां चार्थनिर्धारणे कीदृशी महती निस्सन्दिग्धता, निश्चयात्मिकता, निस्सामान्यता च साधितेति विज्ञायते।

अनेन वयं संस्कृतस्य  सामर्थ्यविकत्थनमात्रासक्ता इति न भाव्यं भवद्भिः। यतः पदसंपदस्तस्य परिज्ञानेन विचारसरणिश्च निशिता निश्चिता च भवेत् ; चिन्तनक्रमश्च प्रौढः प्रखरः सर्वतोमुखश्च स्यात्। श्रूयते हि लोकेषु यदुत्तमैः सूक्ष्मसंवेदिभिरुपकरणैः कार्यक्षमत्वं सृष्टिसामर्थ्यं च प्रवर्धते। यथा प्रौढतरगणिताख्येन साधनेन नवीनं भौतशास्त्रं (Modern Physics) स्वतत्त्वनिरूपणे परमां नैपुणीं प्रादर्शयत्, उपग्रहाणां साध्यतया खल्वन्तर्जालसंपर्कः समाविष्कृतः, विशिष्टविद्युन्मानसूक्ष्मयन्त्र (Electron Microscope) निर्माणेन जीव-लोहशस्त्रादिषु नैकेषु क्षेत्रेषु पुरोभिवृद्धिरभवत् तथैव हि वाण्याः कस्या अपि सूक्ष्मसूक्ष्मतरसामर्थ्यप्रवर्धनेन तया साध्यानि सर्वाण्यपि प्रायशः कार्याणि नैशित्यं, नैर्भर्यं, नैर्दिष्ट्यं, नैर्दुष्ट्यं च प्राप्नुवन्तीति दिक्। अतः कापि भाषा खल्वन्ततो रूपमात्रा, स्वरूपदर्शनायैव सर्वथा यतते। परमुत्तमस्वरूपाकलनाय यथार्हं श्रेष्ठं रूपं च समीहितम्। संस्कृते सर्वमिदं समृद्धं, समग्रं, सुन्दरं च वर्तत इति जानन्त्यनुभवरसिका विद्वद्भावुकाः।

पिङ्गल-हेमचन्द्र-जयकीर्ति-केदारभट्टादिभिः प्रवर्तिता वर्णवृत्त-मात्राजाति-त्रिमूर्तिगणघटितानां पद्यबन्धोपयोगीनां छन्दसां विद्या च जगति नान्यतो दृष्टा किलैतावन्मात्रा गुण-गात्रवैविध्यमयी। अत्र शास्त्रैकदृशा यद्यपि सन्ति पर-परार्धसङ्ख्याकानि च्छन्दांसि, तथापि सौन्दर्यदृशा, सौलभ्यदृशा च सामान्यतो ह्युपशतं बन्धाः प्रगल्भाः सर्वरस-भावक्षमा इति विदुषामुपज्ञा। परन्त्वेतावती समृद्धिर्न क्वापि दृश्यत इत्यपि तथ्यमेव शिष्टे साहित्यजगति।

ईदृशां वृत्त-जातीत्यादीनां वैपुल्य-वैविध्यसाध्यता, तन्निर्वाहशीलता च केवलं संस्कृतस्य मूलभूतभाषापाकवशादेव संपन्नेति नात्र संशीतिलेशः। उदाहरणार्थं पश्यामश्चेदत्यन्तकठिनेषु परमसुन्दरगतिमहितेषु मालिनी-पृथ्वी-हरिणी-शिखरिणी-मन्दाक्रान्ता-शार्दूलविक्रीडित-स्रग्धरादीनां वृत्तानां निरर्गलनिर्वाहाय, चैतेषु लक्षाधिकपद्यानां सहज-सुन्दरनिर्माणाय नूनमपेक्षिता या कापि भाषा  यस्यां खल्वव्यवहितक्रमेण समधिकलघूनां गुरूणां वा निर्यत्नविन्यसनेन युता निस्सीमपदपद्धतिः। एतत्तु केवलं संस्कृतेन साध्यमथवा तेनानुप्राणितास्वेव भाषास्विति सम्यगवगच्छन्ति प्रेक्षावन्तः। वृत्तविलासस्तिष्ठतु पार्श्वे, गद्य-पद्य-गीतादिषु सर्वत्र वर्तमानान् गुणानेव (यथा केवलं शब्दशय्या, पदपाकः, कोमल-परुष-उपनागरिकादिवृत्तयः) यदि वयं विलोकयामश्चेत् तत्रापि भाषायाः पदविच्छित्तिरेव निर्णायिका भवति। तथैव शब्दालङ्कारेष्वन्यतमा यथा प्रास-यमकादयः, चित्रकवितानां शताधिकप्रकाराः (वर्ण-स्थान-श्लेष-गूढ-गर्भ-गति-बन्धवर्गेषु विद्यमानाः) विना भाषामूलीयं बलं न पदमेकमपि स्थापयितुं शक्नुवन्ति। अत्र सर्वत्र संस्कृतस्य निर्णिबन्धा गतिश्चकास्तीति वाङ्मयपारदृश्वनां करबदरसत्यम्।

भाषासामान्यस्य शक्तिर्द्वेधा भवति। एका तु तस्या राचनिकी वा रूपप्रतिष्ठा। इमामेव वयं रूपं वा आकृतिं मन्यामहे। अन्या तावत्  तस्यां विद्यमाना ज्ञान-विज्ञानानां शास्त्र-काव्यानां व्यपदेशेन विद्यमाना मौल्यसंपत्तिः। एनां वयं  स्वरूपं वाऽऽशयं मन्महे। प्रथमा शक्तिस्तु  तत्तद्भाषाया आन्तरिकी या काप्यूर्जा। द्वितीया तु यया कयापि भाषया केवलं तत्र व्यवसायं कुर्वतां कवि-पण्डित-विज्ञानि-कलाविदां परिश्रमेण, मतीय-राजकीय-वाणिज्यकार्थिक-सामाजिक-सांस्कृतिकसंन्दर्भवशादासाद्यते। अत्र साक्षित्वेन समग्रं जगदितिहासमेव पश्यामश्चेत् सर्वं स्पष्टं भवति सुधीमताम्। अतो हि यद्यपि ज्ञानमेव परं बलं, तथापि नानेन कामपि भाषां राचनिकदृशा निरतिशयसामर्थ्यशालिनीं कर्तुं न पार्यते। तस्मादस्मिन् विषये संस्कृतं नूनमप्रतिहतमद्वितीयमिति न केवलमभिमानमात्रविश्रान्तवार्ता।

यथा कथयन्ति प्रथितयशसो विद्वांसः सर्वं सविशिष्टं ज्ञानं कालेन यातयामं गतरसं च परिणमतीति तथैव प्रायेण संस्कृते विद्यमाना बहुमुखी ज्ञान-विज्ञानसंपत्तिः कालबाह्यतां व्रजेत् तथापि तस्य शास्त्रनिर्माणमेदुरा काव्यसर्जनशालिनी च शक्तिः सर्वदा सर्वथा देदीप्यमाना वरीवर्ति। विशिष्य ये नितरामनन्यमनुभवमेव तस्य रचनाश्रितं काव्यकर्मीणं प्राप्तुमभिलषन्ति ते तु न कदाचन कदर्थिता रिक्तहस्तेन निर्यान्ति।

न केवलं शिक्षा-कोष-व्याकरणदृशा संस्कृतस्य नितरां रूपानन्त्यमवगम्यते प्रत्युत साहित्यशास्त्रमुखेनापि तथ्यमिदं प्रकारानन्तरेण – परमितोऽपि स्पृहणीयेन विधिना – समधिगन्तुमलम्। सर्वार्थालङ्काराणां – विवर्तमात्रजगतां नित्यानन्याधिष्ठानं परब्रह्मसत्तेव – मूलमातृकाभूतायास्तावदुपमाया वाचकशब्दानामेव वैविध्य-वैपुल्य-वैचित्र्य-विच्छित्तीनां सकृत्परिशीलनेन सुनिपुणं प्रतीयते। विश्रुतेन कविपण्डितेन दण्डिना किल पूर्वमेवेदं प्रपञ्चितं तद्यथा –

इव वद्वा यथा शब्दाः समान-निभ-संनिभाः।
तुल्य-सङ्काश-नीकाश-प्रकाश-प्रतिरूपकाः॥

प्रतिपक्ष-प्रतिद्वन्द्वि-प्रत्यनीक-विरोधिनः।
सदृक्-सदृश-संवादि-सजातीयानुवादिनः॥

प्रतिबिम्ब-प्रतिच्छन्द-सरूप-सम-संमिताः।
सलक्षण-सदृक्षाभ-सपक्षोपमितोपमाः।

कल्प-देशीय-देश्यादिः प्रख्य-प्रतिनिधी अपि।
सवर्ण-तुलितौ शब्दौ ये चान्यूनार्थवादिनः॥

समासाश्च बहुव्रीहिः शशाङ्कवदनादिषु।
स्पर्धते जयति द्वेष्टि द्रुह्यति प्रतिगर्जति॥

तस्य मुष्णाति सौभाग्यं तस्य कान्तिं विलुम्पति।
तेन सार्धं विगृह्णाति तुलां तेनाधिरोहति॥

तत्पदव्यां पदं धत्ते तस्य कक्षां विगाहते।
तमन्वेत्यनुबध्नाति तच्छीलं तन्निषेधति॥

तस्य चानुकरोतीति शब्दाः सादृश्यसूचकाः।
उपमायामिमे प्रोक्ताः कवीनां बुद्धिसौख्यदाः॥ (काव्यादर्शः २.५७-६५)

पाठान्तरत्वेनात्र विश्वेश्वरस्यालङ्कारकौस्तुभे श्लोकोऽपरोऽपि विद्यते यथा –

बन्धुश्चौरः सुहृद् वादी कल्पः प्रख्यः समप्रभः।
देशीय-देश्य-हृद्याम-सोदराद्या इवार्थकाः॥ (पृ. ९९-१००)

एवमेव सुप्रसिद्धे त्वमरकोषे (श्लो. १०३४-१०३५) चास्मिन् विषये किञ्चिदिवोक्तम्। यथा –

वाच्यलिङ्गास्समस्तुल्यस्सदृक्षसदृशस्सदृक्।
साधारणस्समानश्च स्युरुत्तरपदे त्वमी॥

निभसङ्काशनीकाशप्रतीकाशोपमादयः।

अस्मिन्नेव पथि  नैके च पूर्वसूरयो निरमासत परश्शतानि पदानि। तथा च तेषां चरणचञ्चरीकव्रतिनी मितम्पचापि निजा प्रेक्षा पुनरन्यांश्च कांश्चन शब्दानटङ्कयत्। तान् सर्वानिह सम्प्रति श्लोकीक्रियते। यथा –

अन्वादेशस्त्वनुप्रासः सगोत्रः सहजः सखा।
सब्रह्मचारि-सकुलौ सच्छायः सहभूः सधीः॥

सवंशः सरुचिः सार्थः सश्रुतिः सलयः सगः।
सनाभिर्यमलः साम्यः सवर्णः सकलः सभः॥

साजात्यः सहवासी च सारूप्यः सरसः सभूः।
सनादः सध्वनिः साध्वा समार्गः सहयात्रिकः॥

प्रतिरूपः प्रतिनिधिः प्रतिचर्यः प्रतिक्रियः।
प्रतीकाशः प्रतिपणं प्रतिमः प्रतिनिर्मितिः॥

प्रतिच्छायः प्रतिख्यातिः प्रतिवादी प्रतीपकृत्।
प्रतियोगी प्रतिस्पर्धी प्रतिबिम्बः प्रतिच्छविः॥

एवमिदं निष्पादनं निरन्तरायं निर्वेलं च प्रगतिपथमध्यास्त इति नास्ति मनागपि संशीतिः। अत्र केवलमौपम्यवाचकानां शब्दानामेव काङ्क्षाया परिमितमतिभिः कविभिर्न सर्वमिदं साधितमिति प्रेक्षावतामपरोक्षमेव। यतः प्रधानामभिधां वृत्तिमतीत्य गौणीमपि लक्षणामादृत्य नैके सरसार्था गुणीभूतव्यङ्ग्यसामग्रीसनाथा अत्र समुन्मिषन्ति बहुधा। एतैरतिवेलस्वारस्यैः सामान्यानां यातयामानां प्रतिभास्पन्दविदूराणामप्युपमानलोकानां काचन वचोगोचविचारातीतसुरुचिरसुषमा समापद्यते।

अतो यद्यपि नास्ति कविकर्मणि तावती प्रतिभा तथापि कामपि काव्यभ्रान्तिं सतृणाभ्यवहारिषु जनयति। अनेन चेक्षुदण्डस्य साक्षाच्चर्वणाभावेऽपि तत्पर्वस्थितगडुखण्डनसौख्यमिव किमपि स्वारस्यक्लेशं द्योतयितुमलमिति विस्तरमस्यां दिशि पुनर्न यतेमहि। अन्यच्च कोष-व्याकरणादीनामपेक्षयांशोऽयं नाधिकतया प्रास्तावि संस्कृतभाषाया रूपसामर्थ्यप्रपञ्चनावसरे सङ्ख्यावद्भिरिति कृत्वा प्रयासोऽयं विहित इत्यलम्।

आस्तामिदं, संप्रति वयं संस्कृतवाङ्मयाश्रितं किमपि ज्ञेयराशिं पल्लवग्राहित्वेन स्तोकमिव पश्यामः।

To be continued

Author(s)

About:

Dr. Ganesh is a 'shatavadhani' and one of India’s foremost Sanskrit poets and scholars. He writes and lectures extensively on various subjects pertaining to India and Indian cultural heritage. He is a master of the ancient art of avadhana and is credited with reviving the art in Kannada. He is a recipient of the Badarayana-Vyasa Puraskar from the President of India for his contribution to the Sanskrit language.

Prekshaa Publications

Prekṣaṇīyam is an anthology of essays on Indian classical dance and theatre authored by multifaceted scholar and creative genius, Śatāvadhāni Dr. R Ganesh. As a master of śāstra, a performing artiste (of the ancient art of Avadhānam), and a cultured rasika, he brings a unique, holistic perspective...

Yaugandharam

इदं किञ्चिद्यामलं काव्यं द्वयोः खण्डकाव्ययोः सङ्कलनरूपम्। रामानुरागानलं हि सीतापरित्यागाल्लक्ष्मणवियोगाच्च श्रीरामेणानुभूतं हृदयसङ्क्षोभं वर्णयति । वात्सल्यगोपालकं तु कदाचिद्भानूपरागसमये घटितं यशोदाश्रीकृष्णयोर्मेलनं वर्णयति । इदम्प्रथमतया संस्कृतसाहित्ये सम्पूर्णं काव्यं...

Vanitakavitotsavah

इदं खण्डकाव्यमान्तं मालिनीछन्दसोपनिबद्धं विलसति। मेनकाविश्वामित्रयोः समागमः, तत्फलतया शकुन्तलाया जननम्, मातापितृभ्यां त्यक्तस्य शिशोः कण्वमहर्षिणा परिपालनं चेति काव्यस्यास्येतिवृत्तसङ्क्षेपः।

Vaiphalyaphalam

इदं खण्डकाव्यमान्तं मालिनीछन्दसोपनिबद्धं विलसति। मेनकाविश्वामित्रयोः समागमः, तत्फलतया शकुन्तलाया जननम्, मातापितृभ्यां त्यक्तस्य शिशोः कण्वमहर्षिणा परिपालनं चेति काव्यस्यास्येतिवृत्तसङ्क्षेपः।

Nipunapraghunakam

इयं रचना दशसु रूपकेष्वन्यतमस्य भाणस्य निदर्शनतामुपैति। एकाङ्करूपकेऽस्मिन् शेखरकनामा चित्रोद्यमलेखकः केनापि हेतुना वियोगम् अनुभवतोश्चित्रलेखामिलिन्दकयोः समागमं सिसाधयिषुः कथामाकाशभाषणरूपेण निर्वहति।

Bharavatarastavah

अस्मिन् स्तोत्रकाव्ये भगवन्तं शिवं कविरभिष्टौति। वसन्ततिलकयोपनिबद्धस्य काव्यस्यास्य कविकृतम् उल्लाघनाभिधं व्याख्यानं च वर्तते।

Karnataka’s celebrated polymath, D V Gundappa brings together in the third volume, some character sketches of great literary savants responsible for Kannada renaissance during the first half of the twentieth century. These remarkable...

Karnataka’s celebrated polymath, D V Gundappa brings together in the second volume, episodes from the lives of remarkable exponents of classical music and dance, traditional storytellers, thespians, and connoisseurs; as well as his...

Karnataka’s celebrated polymath, D V Gundappa brings together in the first volume, episodes from the lives of great writers, poets, literary aficionados, exemplars of public life, literary scholars, noble-hearted common folk, advocates...

Evolution of Mahabharata and Other Writings on the Epic is the English translation of S R Ramaswamy's 1972 Kannada classic 'Mahabharatada Belavanige' along with seven of his essays on the great epic. It tells the riveting...

Shiva-Rama-Krishna is an English adaptation of Śatāvadhāni Dr. R Ganesh's popular lecture series on the three great...

Bharatilochana

ಮಹಾಮಾಹೇಶ್ವರ ಅಭಿನವಗುಪ್ತ ಜಗತ್ತಿನ ವಿದ್ಯಾವಲಯದಲ್ಲಿ ಮರೆಯಲಾಗದ ಹೆಸರು. ಮುಖ್ಯವಾಗಿ ಶೈವದರ್ಶನ ಮತ್ತು ಸೌಂದರ್ಯಮೀಮಾಂಸೆಗಳ ಪರಮಾಚಾರ್ಯನಾಗಿ  ಸಾವಿರ ವರ್ಷಗಳಿಂದ ಇವನು ಜ್ಞಾನಪ್ರಪಂಚವನ್ನು ಪ್ರಭಾವಿಸುತ್ತಲೇ ಇದ್ದಾನೆ. ಭರತಮುನಿಯ ನಾಟ್ಯಶಾಸ್ತ್ರವನ್ನು ಅರ್ಥಮಾಡಿಕೊಳ್ಳಲು ಇವನೊಬ್ಬನೇ ನಮಗಿರುವ ಆಲಂಬನ. ಇದೇ ರೀತಿ ರಸಧ್ವನಿಸಿದ್ಧಾಂತವನ್ನು...

Vagarthavismayasvadah

“वागर्थविस्मयास्वादः” प्रमुखतया साहित्यशास्त्रतत्त्वानि विमृशति । अत्र सौन्दर्यर्यशास्त्रीयमूलतत्त्वानि यथा रस-ध्वनि-वक्रता-औचित्यादीनि सुनिपुणं परामृष्टानि प्रतिनवे चिकित्सकप्रज्ञाप्रकाशे। तदन्तर एव संस्कृतवाङ्मयस्य सामर्थ्यसमाविष्कारोऽपि विहितः। क्वचिदिव च्छन्दोमीमांसा च...

The Best of Hiriyanna

The Best of Hiriyanna is a collection of forty-eight essays by Prof. M. Hiriyanna that sheds new light on Sanskrit Literature, Indian...

Stories Behind Verses

Stories Behind Verses is a remarkable collection of over a hundred anecdotes, each of which captures a story behind the composition of a Sanskrit verse. Collected over several years from...