संस्कृतस्य रुपस्वरुपमाहात्म्यम् - Part 2

संस्कृते विद्यमानानि विविधानि शास्त्राणि

सन्ति नैकानि शास्त्राण्यैहिकान्यामुष्मिकानि संस्कृते विद्यमानानि। एतेषां सर्वेषां परामर्शनं नाम बहुसमयग्रसिष्ण्विति मत्वा केवलं शृङ्गग्राहिकया भङ्ग्या कतिपयविद्यानामेव परिमितविधौ विवेचनं शक्यम्। एतेषु भाषा-व्याकरणयोः प्रायः पूर्वमेव किञ्चिदिव परामृष्टमिति मुख्यतयावशिष्टानि प्रस्तुतकालेऽपि यथावत्प्रयोजकानि कतिचिद्विलोकयामः।

अत्रेदमवधेयं  यद्भारतस्य जगद्योगदानविवेचनासरे धर्म-ब्रह्म-रस इति त्रितयस्य महदस्ति प्राशस्त्यम् । तत्त्वत्रयस्यास्य स्थूलसंवादं तु पाश्चात्यलोकस्य शिव-सत्य-सुन्दर-मौल्यत्रये (Good, Truth and Beauty) द्रष्टुं शक्यम्। तथापि भारतीयदृशा यदुच्यते धर्म-ब्रह्म-रस-वैषयिकं तत्त्वं तत्सर्वथा निर्विशिष्टसार्वत्रिकानुभवसिद्धं चातो हि परमं मौल्यमिति ज्ञायते। अस्यैव क्रमशो विवेचनं संक्षिप्तेन विधिना कुर्मः।

धर्म इति व्यपदेशेन कश्चन मतातीतो वैश्विको नियमः प्रस्तूयते। धारणशीलतैव धर्मस्य निजा प्रकृतिः। अत्र त्वहिंसा, सत्यं, अस्तेयं, शौचं, इन्द्रियनिग्रह इति सामान्यधर्म एव विवक्षितो न तु देश-कालाद्युपाधिबाधितो विशेषधर्मः। अतो  नात्र कस्यापि मतस्य  वा मताचार्यस्य, प्रवादिनो वा पवित्रग्रन्थस्य प्रसक्तिरुदेति। किमधिकं, श्रद्धाजाड्यमूलीयं न मनागपि निर्विशिष्टे सामान्यधर्मे व्यपदिष्टम्। तथापि नायं सामान्यधर्मो विविधमतविरुद्धश्च। यतोऽत्र मतान्यप्युपाधिमात्रत्वेन स्वीक्रियन्त एव। एवंविधस्य धर्मस्य धृति-क्षमा-दम-अहिंसा-शौच-इन्द्रियनिग्रह-धी-विद्या-सत्य-अक्रोधाख्यलक्षणमेव सार्वजनीनमिति स्वीकार्यम्। अयं तु धर्मो जगतः सकलप्राणिनामर्थकामसम्पादनावसरे दृश्यमानं रागद्वेषवैषम्यं स्वार्थकालुष्यं परिमार्जयतीति सुवेद्यम्। अतो हि संस्कृतवाङ्मये सामान्यधर्ममीमांसात्मकस्य शास्त्रस्य महती प्रसक्तिर्विद्यते। विशिष्य वार्तमानिकजागतिकविषमसन्दर्भेषु सामान्यधर्मस्य परमं प्राशस्त्यं विदितवेदितव्यानां सविधे नेतोऽपि प्रस्तोतव्यमिति विरम्यते।

ब्रह्मशब्दस्तु  केवलं निरुपाधिकस्य सतः, चितः, आनन्दस्य च समाहारसङ्केतः। लोकेऽस्मिन् परमं सर्वसाम्यं तु ब्राह्मभावादन्यत्र परमार्थतो नोहितुमपि शक्यम्। यतोऽत्र निसर्गसिद्धो हि भौतिक-बौद्धिक-भावुक-आर्थिक-सामाजिक-सांस्कृतिक-राजनैतिकभेदव्यवहारः। अस्य प्रहाणाय किल सर्वे भौतवादिनो दैववादिनश्च यतन्ते। किञ्च जाग्रदवस्थाभिनिविष्टैस्तैर्न कदाचन परिहर्तुमलमयं भेदः। अतो हि जाग्रत्स्वप्नसुषुप्त्याख्यं निर्विशिष्टसामान्यानुभवं त्ववस्थात्रयसंज्ञितं समालम्ब्य चिन्तनं कार्यम्। सुषुप्तौ देशकालौ विलीयेते इति  सर्वसामान्यानुभवसिद्धं तथ्यम्। अन्यच्च देशकालकल्पित एव कार्य-कारणभाव इत्यपि स्पष्टम्। किं नाम जगदिदम् ? केवलं देशकालपरिच्छेदपूर्णं कार्यकारणभावबद्धमेव किल। वस्तुतो जगदिदं सर्वथास्मानतिरिच्य विद्यमानं किमप्यन्यदेव । अनेन खलु ज्ञायते यद्द्वितीयवस्तुनो भावनेनैव भय-शोक-मोहादयः सम्भवन्ति च तत्परिणामतो रागद्वेषादयः प्रादुर्भवन्ति। अतो हि तात्पर्येण ज्ञायते यत्सुषुप्तावविद्यमानं जगच्च तज्जन्या रागद्वेषादयश्चाविद्यमाना जाग्रति सर्वान् बाधन्त इति। अस्माद्विरतीच्छवस्तु वस्तुतन्त्रं केवलं सच्चिदानन्दघनं मनसि निधाय कर्तृतन्त्रं सर्वमपि वैदिकं वा लौकिकं शास्त्रजातं सापेक्षमिति हृदि कृत्वा यत्संप्रदायविदां वचनं "अध्यारोपापवादाभ्यां निष्प्रपञ्चं प्रपञ्च्यते " समनुसृत्य स्वस्वरूपं प्रत्यभिज्ञास्यन्ति। अत्र चित्तशुद्धिसाधनानि स्वधर्मानुष्ठानं वा कर्मयोगः, तत्त्वचिन्तनं वा ज्ञानयोगो विभूत्युपासनं वा भक्तियोगश्च। स्वधर्मो नाम न कोऽपि जन्ममात्रेण समारोप्यो वर्ण-जात्यादिविभागलभ्यः कर्तव्यभारः। अयं तु स्वस्य प्रियं सुकरं समर्थं च जीविकाप्रकल्पनं येन स्वात्मनः परेषामपि सुखलाभौ स्याताम्। तत्त्वचिन्तनमिति वेदान्तयोगाङ्गत्वेन यानि भवन्ति श्रवण-मनन-निदिध्यासनानि तान्येव। विभूत्युपासनं तु निसर्गमात्रायां स्थावरजङ्गमात्मकप्रकृत्यां प्रीतिः, मानवप्रकृत्यां च प्रीतिः, तथा मानवनिर्मितायां साहित्य-गीत-वाद्य-नृत्य-नाट्य-चित्र-शिल्प-क्रीडादिरूपायां संस्कृत्यामपि प्रीतिरिति त्रेधा। प्रीतिर्नाम कापि निर्हेतुकी रतिरित्यवोचाम। अनेन चित्तशुद्धिमार्गेण समासादितोऽध्यारोपापवादमहाप्रक्रियाप्रतिष्ठितो ब्रह्मभावस्तु न कदाचन संस्कार्य-वैकार्य-पारिणाम्य-प्राप्यरूपो नित्यसिद्धो निरवद्य इति सर्वमनाकुलम्।

रसस्तु ब्रह्मास्वादसहोदरत्वेन जेगीयमानः समस्तमानवानां मनस्सु नित्यं निहितस्थायिभावानां सत्त्वोद्रेक इति वक्तुमलम्। विभाव-व्यभिचारिभावानुभावादीनां यथोचितमेलनेन किल स्थायिनः प्राप्नुवन्ति भूमानं कमप्यवस्थाविशेषम्। मेलनमिदं वागर्थात्मकं चेत्काव्यं, श्रुतिलयात्मकं चेद्गीतं वादित्रं वा, गतिस्थित्यात्मकं चेन्नृत्यं, रेखावर्णात्मकं चेच्चित्रमिति बहुधा विकल्पाः कलाप्रकारविशिष्टत्वेन समुन्मीलन्ति। किञ्च सर्वत्र विविधकलाकृन्निर्मितं तत्तत्कलारूपं तु वक्रव्यापार इति, तस्य सहृदयहृदि प्रत्यभिज्ञानं ध्वनिरिति, तदामोदनमौचित्यमिति चान्ततो तदास्वादानुभव एव रस इति निष्कर्षः। रसा रस्यन्त इति सविशिष्टस्तरे व्यपदेशः। निर्विशिष्टस्तरे तु रसनं रस इति निरुक्तिः। अत्रौचित्यमेव समस्तदेशकालवस्तुपरिच्छेदानुसारं कलारूपसामञ्जस्यनिर्धारणे प्रधानसाधनायते। एवं रस इति तत्त्वं निश्चप्रचमिति दिक्।

एवं मुख्यतया धर्म-ब्रह्म-रसानां विवेचनानन्तरं गच्छदुल्लेखक्रमेण कानिचिल्लौकिकानि शास्त्राणि संस्कृतमूलीयानि गणनामर्हन्ति। तत्र द्वित्राणि यथा –
आग्नेयस्वरूपयुतस्य पाश्चात्यवैद्यकस्यापेक्षया सरलं वैद्यैकनिर्वाह्यं प्राथमिकभैषज्यभव्यं न्यूनलोकोपप्लवं सौम्यं चातोऽह्यायुर्वेदशास्त्रम्। विद्येयं द्वैतियिककस्तरे च विनियोगमर्हति तरां प्रायेण नवीनशोधनक्रमप्राप्तनैशित्येन।

कृत्स्नं हि शास्त्रमिदमिन्द्रियजय इति प्रवदता भगवता कौटिल्येन समग्रस्यार्थशास्त्रस्य वेदान्तनेपथ्यमेव निरमायि। अस्मिन् प्रकाशे साम्प्रतिकं विश्ववाणिज्यं, जागतिकराजनीतिः, लोकशिक्षण-रक्षणक्रमः सर्वोऽपि कमलमुकुलोन्मीलनक्रमेण निर्वोढव्यः। अत्रास्ति बहुक्रियापादीयं यतश्चाणक्येनैव समस्तमपि तर्कपादजातं विवृतम्।

समाजशास्त्रसम्बन्धि किञ्चिदिव प्रस्तोतव्यमिति चेदिह जगति सर्वेषां संप्रति स्वस्वाधिकारप्राप्तिमात्रकोलाहलो जागर्ति, न तु स्वस्वकर्तव्यनिर्वाहनम्रता। अतो हि वार्तमानिकलोकोपप्लवनिरोधाय भारतीया सामाजिकी सुषमा यत्कर्तव्यकेन्द्रिता किमप्याशाज्योतिरिव दीपयेद्भुवनानि।

एवमेव यथायोग्यं नाट्यशास्त्र-गीतशास्त्र-काव्यशास्त्र-च्छन्दश्शास्त्र-कृषिशास्त्राण्यूहनीयानीति निवेद्य विरम्यते।

उपसंहारः

अयि भो विद्वद्वयस्याः ! शृणुत स्नेहेन मम निवेदनानि। संस्कृतमितीयं भाषा न केवलं कापि प्राक्तनी वाग्व्यवहारभङ्गी, प्रत्युत सदातनी सम्प्रत्यपि व्यवहारसुलभा, सर्वजनमुखसुखवास्तव्या, सर्वविधसंवहनसमर्था च विस्मयावहा विमलमनोहरसंस्कृतिरेव। अस्याः पालन-पोषण-प्रसरण-प्रणयनलोलुपा वयं भवेम; पुनश्च याज्ञवल्क्य-सत्यकाम-सनत्कुमार-उद्दालक-व्यास-वाल्मीकि-श्रीकॄष्ण-पाणिनि-गुणाढ्य-कौटिल्य-भरत-कालिदास-शूद्रक-बाण-विशाखदत्त-सातवाहन-शङ्कर-चरक-सुश्रुत-वाग्भट-आनन्दवर्धन-अभिनव-कुन्तक-भोज-वराहमिहिर-आर्यभट-भास्कर-नीलकण्ठ-माधव-सायण-जयदेव-क्षेमेन्द्रमुखानां सारस्वतसिद्धानां परम्परां प्रवर्तयाम।

Concluded

Author(s)

About:

Dr. Ganesh is a 'shatavadhani' and one of India’s foremost Sanskrit poets and scholars. He writes and lectures extensively on various subjects pertaining to India and Indian cultural heritage. He is a master of the ancient art of avadhana and is credited with reviving the art in Kannada. He is a recipient of the Badarayana-Vyasa Puraskar from the President of India for his contribution to the Sanskrit language.