४.७. अलङ्कारसुधानिधेः सारः शास्त्रपरम्परायां तत्स्थानं च
सायणाचार्यविरचितः अलङ्कारसुधानिधिः ध्वन्यालोकं पुरस्कृत्य काव्यप्रकाशम् अनुसृत्य च काव्यमीमांसायाः प्रमुखाणि प्रमेयाणि सङ्कलय्य विशदयति। बुक्कमहीपतौ विजयनगरं शासति सामाजिके सांस्कृतिके साहित्यके राजनैतिके च क्षेत्रे का स्थितिरासीत्, कानि विक्रमोदग्राणि कार्याणि साधितानि चेति ग्रन्थेनानेन बुध्यते। सायणाचार्यस्य करणत्रयगरिमाणं प्रकाशयन्त्यसौ कृतिः कृतिनो भोगनाथस्य पेशलकाव्यप्रणयनकौशलं प्रपञ्चयति। भोगनाथविरचितानां काव्यानां परिचयः अस्मिन्नेकस्मिन्नेव ग्रन्थे प्राप्यत इति विशेषः। शास्त्रोदयमारभ्य चतुर्दशं शतकं यावत् दक्षिणभारते विरचितेषु अङ्गुलिमेयेषु अलङ्कारशास्त्रग्रन्थेषु अयमेष प्रामुख्यं भजते। प्रशस्तिग्रन्थपरम्परायां एकावली-प्रतापरुद्रीययोः पश्चात् प्राप्तजन्मा स्वकर्तारमेव अभिष्टुवन् वैशिष्ट्यमञ्चतीति दिक्॥
अन्येष्विव शास्त्रेषु अलङ्कारशास्त्रेऽपि सायणाचार्यः कृतभूरिपरिश्रमः समभूत्। अत्र हि तेन भरतः भामहः उद्भटः वामनः रुद्रटः लोल्लटः श्रीशङ्कुकः भट्टनायकः आनन्दवर्धनः अभिनवगुप्तः कुन्तकः महिमभट्टः भोजः मम्मटः मङ्खः हेमचन्द्रः रुय्यकः विद्याधरः भट्टगोपालश्चेति इमे पूर्वसूरयः स्मृताः तदभिप्रायाश्च सप्रमाणम् उल्लिखिताः। बहुषूद्यमेषु व्यापृतः सायणाचार्यो महति कार्यातिपाते सत्यपि एकवली-साहित्यचूडामण्यादीन् स्वकालनैकटिकानपि ग्रन्थान् अध्यगीष्टेति विदित्वा प्रह्वताम् अनुभवामः। वाक्यपदीय-तन्त्रवार्त्तिकादीनां सर्वोपादेयानां ग्रन्थानाम् असकृदुद्धरणं सायणाचार्यस्य बहुश्रुततां द्योतयति॥
अलङ्कारसुधानिधेरुल्लेखा एषु ग्रन्थेषु लक्ष्यन्ते—
- आन्ध्रदेशीयेन कुमारस्वामिना कृतं प्रतापरुद्रीयस्य रत्नापणाख्यं व्याख्यानम्
- द्रविडदेशीयेन अप्पय्यदीक्षितेन विरचिता चित्रमीमांसा, तेनैव प्रणीतं वृत्तिवार्त्तिकं च
- द्रविडदेशीयेन भास्कराचार्येण रचिता साहित्यकल्लोलिनी
- केरलीयेन कृष्णसुधिया सन्दृब्धः काव्यकलानिधिः
- प्रायः कार्णाटकेन श्रीनिवासाचार्येण रचिता अभिज्ञानशाकुन्तलस्य टीका
- मैसूरुनगरीकेण श्रीकृष्णब्रह्मतन्त्रयतीन्द्रेण ग्रथितं लक्ष्मीसहस्रस्य रत्नप्रकाशिकाख्यं व्याख्यानम्
- मैसूरुवास्तव्यया वेङ्कटसुन्दरासानीनाम्न्या विदुष्या सङ्कलितो रसिकजनमनोल्लासिनीसारसङ्ग्रहभरतशास्त्रनामको ग्रन्थः
अनया सूच्या अलङ्कारसुधानिधिः समग्रे दक्षिणभारते प्रचुरप्रचार आसीदिति स्फुटम्॥
अलङ्कारसुधानिधौ स्वेन निर्दिदिक्षितान् विषयानित्थं सङ्गृह्णाति सायणाचार्यः—
दोषा गुणा अलङ्काराः सर्वेऽपि रसगोचराः।
काव्यस्यात्मा रसो यस्मादात्मधर्माश्च ते यतः॥ १.१०८
शब्दार्थौ देहवद्दोषाः श्वित्रादिवदथो गुणाः।
शौर्यादिवदलङ्काराः काञ्चीहाराङ्गदादिवत्॥ १.११८
रसादिध्वनिरात्मैवेत्यनया किं व्यवस्थया। १.११९
एषु केवलम् अलङ्कारसम्बन्धी भागोऽपूर्णः। काव्यदोषान् सङ्ग्रहेण निरूपयन् सायणाचार्यो न महिममम्मटाविव वैरस्यं जनयति। तथा हि ग्रन्थेऽस्मिन् त्रय उन्मेषा एव सन्ति, तेषु तृतीयोऽपूर्ण इति ज्ञायते॥
५. कार्तज्ञ्यनिवेदनम्
मैसूरुस्थितस्य प्राच्यविद्यासंशोधनालयस्य निर्देशकपदमलङ्कुर्वाणः श्रीमान् डा० डि. पि. मधुसूदनाचार्यः सम्पादनकार्येऽस्मिन् अस्मान् नियोज्य आद्यन्तं नितरां सहाकरोत्। तस्मै विदुषे नमोवाकं प्रशास्महे। संशोधनालये कार्यं कुर्वाणा अन्येऽपि विद्वांसः साहाय्यकमाचरन्। तत्तेभ्योऽपि घटयामोऽञ्जलिम्॥
भारतसर्वकारान्तर्गतस्य भारतीयज्ञानपरम्पराविभागस्य राष्ट्रियः संयोजकः डा० गण्टि सूर्यनारायणमूर्तिः कार्येऽस्मिन् परमां प्रीतिं प्रदर्शयन् आर्थिकं साहाय्यम् अकल्पयत्। तस्मै अव्याजबन्धवे प्रणतिततीः समर्पयामः॥
चेन्नैनगरस्थितस्य अड्यार्-ग्रन्थालयस्य निर्देशिका श्रीमती डा० राधा रघुनाथन्-वर्या मौलिकं मातृकाद्वयं कृपया प्रैषयत्। तस्यै विदुष्यै नमः॥
अस्मत्सुहृत् श्रीनिधिः रामचन्द्रसूनुः अड्यार्-ग्रन्थालयस्थितं मातृकाद्वयं संसूच्य अतितराम् उपाकरोत्। वर्धिष्णवे तस्मै नमः॥
स्वनामधन्यो व्याकरणालङ्कारविद्वान् डा० एच्. वि. नागराजराववर्यः अस्माभिः संशोधितस्य ग्रन्थस्य कञ्चन भागम् अवलोक्य पाठान् पर्यस्करोत्। तत्पादपातं नताः स्मः॥
अष्टावधानी काव्यमीमांसाविचक्षणः डा० महेशभट्टः आर्. हार्याडिग्रामाभिजनः स्वयं मातृकाः परिशील्य सम्पूर्णं ग्रन्थं महत्या सूक्ष्मेक्षिकया अशोधयत्, कांश्चन ग्रन्थपातान् निपुणमपूरयत्, लक्ष्मीसहस्रस्य व्याख्यानं च अस्मद्दृष्टिपथम् आनयत्। इत्थं कार्येऽस्मिन् भूयः साहाय्यमकरोत्। तस्मै वत्सलाय विदुषे नमः॥
अस्मद्वयस्यः सुकविः डा० शङ्करो राजारामसूनुः पद्यस्थितान् नैकान् ग्रन्थपातान् सरसं यथोचितं च अपूरयत्। प्रतिभावते तस्मै नमः॥
कर्णाटकसंस्कृतविश्वविद्यालयस्य कुलपतिचरः डा० मल्लेपुरं जि. वेङ्कटेशवर्यः रसिकजनमनोल्लासिनीसारसङ्ग्रहभरतशास्त्रनामकं ग्रन्थं प्रदाय उपाकरोत्। तस्मै नमः॥
कन्नडभाषाविद्वान् श्रीमान् एस्. कार्त्तिकवर्यः अस्मदधीनं कञ्चन ग्रन्थं वेङ्कटसुन्दरासानिविरचितम् अभिज्ञाप्य तस्य यान्त्रिकीम् आवृत्तिं च संव्यभजत। तस्मै नमः॥
अष्टावधानी ज्योतिःशास्त्रविशारदः डा० रामकृष्णः पेजत्तायोपाह्वः संस्कृतभाषयोपनिबद्धां प्रस्तावनां सूक्ष्मेक्षिकया परिशील्य युक्तियुक्तान् परिष्कारान् असूचयत्। तत्तस्मै विद्वद्रसिकाय नमः॥
अस्मत्सुहृदौ सुगृहीतनामानौ सन्दीपो बालकृष्णसूनुः अर्जुनो भारद्वाजश्च आङ्ग्लभाषानिबद्धां प्रस्तावनां प्रपठ्य मौलिकीः सूचनाः प्रायच्छताम्। ताभ्यां नमः॥
श्रीमती सुमित्रा वीरराघवन् ग०-मातृकायाः कांश्चन भागान् निपुणं पठित्वा उपाकरोत्। तस्यै नमः॥
अस्मत्सखः साहित्यचुञ्चुः डा० जि. एस्. राघवेन्द्रः चित्रबन्धानाम् आकृतीः चारु विन्यस्य उपाकरोत्। तस्मै नमः॥
श्रीमान् रजनीशः काश्यपो ग्रन्थमेनं रमणीयया रीत्या विन्यस्य सम्मुद्र्य च उपाकरोत्। तस्मै सुहृदे नमः॥
विद्वदवतंसौ एन्. एस्. वेङ्कटनाथाचार्यः तथा के. एस्. वरदाचार्यः दे०-मातृकालेखने अन्यमातृकास्थितानपि पाठान् निवेश्य उपाकुरुताम्। ताभ्यां सहस्रं नमः॥
पुण्यश्लोकः तत्रभवान् डि. वि. गुण्डप्पवर्यः सायणाचार्यं भोगनाथं चाधिकृत्य पथिदर्शकं शोधकार्यं व्यदधात्, येन वयं नितान्तम् उपकृताः। तस्मै सारस्वतशेवधये नमः॥
डा० बि. आर्. मोडकवर्यः सायणाचार्यम् आगूर्य मार्गदर्शकं ग्रन्थम् अरचयत्, येन वयम् उपकृताः स्मः। तस्मै मनीषिणे नमः॥
डा० डि. सि. सरस्वतीवर्या अलङ्कारसुधानिधिं साकल्येन विमृश्य नः कार्यं सुगमम् अकरोत्। तस्यै विदुष्यै नमः॥
अलङ्कारशास्त्रपारदृश्वा डा० वे. राघववर्यः अलङ्कारसुधानिधेः लिखिताः प्रतीः कारयित्वा भाविशोधकार्याणि परोक्षतया प्रैरयत्। तस्मै विद्वदग्रेसराय नमः॥
महामहोपाध्यायः प्राक्तनविमर्शविचक्षणः तत्रभवान् रा. नरसिंहाचार्यवर्यः शतात् समानां प्राक् अलङ्कारसुधानिधिं प्राथम्येन आविरकरोत्। माधवाचार्यं तदनुजौ चाधिकृत्य पथिदर्शकं शोधलेखं विरचय्य समेषां परवर्तिशोधकार्याणां शङ्कुस्थापनम् अकरोत्। तस्मै लब्धवर्णकुलतिलकाय ग्रन्थमेनं सप्रश्रयं समर्पयन्तो वयं कामपि धन्यताम् अनुभवाम इति सर्वं शिवम्॥
Concluded.