
४.७. अलङ्कारसुधानिधेः सारः शास्त्रपरम्परायां तत्स्थानं च
सायणाचार्यविरचितः अलङ्कारसुधानिधिः ध्वन्यालोकं पुरस्कृत्य काव्यप्रकाशम् अनुसृत्य च काव्यमीमांसायाः प्रमुखाणि प्रमेयाणि सङ्कलय्य विशदयति। बुक्कमहीपतौ विजयनगरं शासति सामाजिके सांस्कृतिके साहित्यके राजनैतिके च क्षेत्रे का स्थितिरासीत्, कानि विक्रमोदग्राणि कार्याणि साधितानि चेति ग्रन्थेनानेन बुध्यते। सायणाचार्यस्य करणत्रयगरिमाणं प्रकाशयन्त्यसौ कृतिः कृतिनो भोगनाथस्य पेशलकाव्यप्रणयनकौशलं प्रपञ...

४.६. उदाहरणपद्यानि
भोगनाथविरचितानि उदाहरणपद्यानि सायणाचार्यविजयनगरसाम्राज्यसम्बद्धानेकविषयस्फोरकाणीति प्रागेव प्रत्यपादि। अत्र विप्रतिपद्यमानाः केचिदाचक्षीरन्—काव्यसहजया नैकालङ्कारभूषितया शैल्या सन्दृब्धानि पद्यानीमानि सत्यदूराणीति। नैवं युक्तं वक्तुम्। सालङ्कारा शैली भूषणमेव न दूषणमिति इहोदाहरिष्यमाणानि पद्यान्यवलोक्य बोद्धुम् अर्हन्ति सन्तः॥
४.६.१. वैदुष्यं सम्प्रदायश्रद्धा च
भगवत्याः श्रुतेः काण्डद्वयेऽपि कृतावगाहः सायणाचार्यः श्रौतविद्यायां...

४.२. गुणदोषौ
शरीरगताः शौर्यादयो गुणा आत्मानमिव काव्यशरीरगताः प्रसादादयो गुणाः काव्यात्मानं रसम् उत्कर्षयन्ति—
शौर्यादय इवात्मानं ये धर्मा अङ्गिनं रसम्।
उत्कर्षयन्ति नियतस्थितयस्ते गुणा इह॥ १.१११
नयन्ति नित्यमुत्कर्षं समवायाद्रसं गुणाः।
शौर्यादय इवात्मानं शरीरेषु शरीरिणाम्॥ १.११३
गुणानां रसधर्मत्वम् अभ्युपगच्छन् सायणाचार्यः शब्दार्थमात्रगोचरांस्तान् कथयतः शास्त्रकृतः प्रत्याचष्टे—
इत्थं रसैकधर्मत्वं गुणानामुपपादितम्।
भ्रान्त्यैव केवलं प्...

४. ग्रन्थविस्तरः तद्विमर्शश्च
ग्रन्थेऽस्मिन् प्रतिपादितानि शास्त्रप्रमेयाणि विषयानुक्रमण्यां साकल्येन निरूपितानि। अत्र केवलं केचन विशिष्टा विषयाः सङ्गृह्य प्रतिपाद्यन्ते।
४.१. कविः काव्यं च
रस एव काव्यस्य परमार्थः सकलमौलिभूतं प्रयोजनं चेति समेषाम् आलङ्कारिकाणाम् ऐककण्ठ्यम्। यदाह भरतमुनिः—“न हि रसादृते कश्चिदर्थः प्रवर्तते” (नाट्यशास्त्रम्, ६.३१ गद्यम्)। सोऽयं रस आनन्दं व्युत्पत्तिं च यौगपद्येन सहृदयेभ्यः प्रयच्छतीति लोचने (३.१४) अभिनवगुप्त आह—“न...

३. अलङ्कारसुधानिधेः स्वरूपं तत्कर्तृत्वं च
यदा हि उपात्तविद्यो द्वितीयः सङ्गमः स्वयं राज्यधुराम् अवोढ तदा सारस्वतानि कार्याणि निर्वर्तयितुं सायणाचार्येण पर्याप्तः अवसरोऽलम्भि। तथा हि उदयगिरिस्थितेन तेन १३५५ वर्षस्य १३६५ वर्षस्य चान्तराले विद्यमाने संवत्सराणां दशके अलङ्कारसुधानिधिः प्रणीत इति प्रतीमः॥
अलङ्कारसुधानिधौ उन्मेषनामानः सन्ति त्रयोऽध्यायाः। (वृत्तौ क्वचिदुल्लासशब्दः प्रयुक्त इत्यन्यदेतत्।) प्रथम उन्मेषः काव्यमार्गप्रतिष्ठापनमिति यथार्...

२. रचयिता
२.१. अन्वयो गुरवश्च
सायणाचार्यः कर्णाटमध्यूषुषोः विप्रदम्पत्योः श्रीमती-मायणयोः पुत्रत्वेन जज्ञे। स हि कुलधनमिव बिभ्राणः श्रौतं तेजः गोत्रेण भारद्वाजः सूत्रेण बौधायनः स्वाध्यायेन यजुषा तैत्तिरीयः कुलेन होय्सळ-कार्णाटश्च बभूव। तत्कुलवृद्धाः हासन-शिवमोग्ग-चिक्कमगळूरुनामकेषु साम्प्रतं प्रसिद्धेषु प्रदेशेषु अवात्सुरिति तद्विदो वदन्ति। इमे च प्रदेशाः पुण्यक्षेत्रं शृङ्गगिरिं निकषा सन्ति, यत्र गतः सायणाचार्यः सर्वा अप्यनवद्या विद्या अधिजगे।...

अलङ्कारसुधानिधिः श्रौत्रार्हन्तीचणेन वेदभाष्यकृता तत्रभवता श्रीसायणाचार्येण विरचितो ग्रन्थः। काव्यमीमांसां विशदयतानेन कारिका-वृत्ति-उदाहरणपद्यात्मकः साम्प्रदायिकः समश्रायि सन्दर्भणक्रमः। सायणाचार्यानुजेन भोगनाथेन प्रणीतान्यत्रत्यानि सम्यञ्चि उदाहरणपद्यानि ग्रन्थकर्तुरनितरसाधारणं मनोवाक्कायपटिमानं परिचाययन्ति, विजयनगरसाम्राज्यसम्बद्धान् नैकान् विशिष्टान् विषयान् अभिव्यञ्जयन्ति च। आनन्दवर्धनोद्घाटितेन विवेकवीध्रेण शास्त्रवर्त्मना क्रममाणः सायणाचार...
