४.६. उदाहरणपद्यानि
भोगनाथविरचितानि उदाहरणपद्यानि सायणाचार्यविजयनगरसाम्राज्यसम्बद्धानेकविषयस्फोरकाणीति प्रागेव प्रत्यपादि। अत्र विप्रतिपद्यमानाः केचिदाचक्षीरन्—काव्यसहजया नैकालङ्कारभूषितया शैल्या सन्दृब्धानि पद्यानीमानि सत्यदूराणीति। नैवं युक्तं वक्तुम्। सालङ्कारा शैली भूषणमेव न दूषणमिति इहोदाहरिष्यमाणानि पद्यान्यवलोक्य बोद्धुम् अर्हन्ति सन्तः॥
४.६.१. वैदुष्यं सम्प्रदायश्रद्धा च
भगवत्याः श्रुतेः काण्डद्वयेऽपि कृतावगाहः सायणाचार्यः श्रौतविद्यायां निष्णातो यायजूकः सन् संयमिनोऽपि ब्रह्मतत्त्वम् अवगमयितुं समर्थो बभूव। स त्रिवर्गे आसेविती सङ्गीतसाहित्ययोरपि प्रगल्भां व्युत्पत्तिं धारयामास। स्वाग्रजे माधवाचार्ये श्रद्दधानो माधवीयनामनि कृतिकदम्बके बहून् ग्रन्थान् विरचय्य तस्मै समर्पयामास। स्वार्थशून्येन कर्मणानेन प्रेरिताः वेदतदङ्गतदन्तेषु कृतभूरिपरिश्रमा विपश्चिदपश्चिमाः स्वयमन्यान् ग्रन्थान् विरचय्य तस्मै समर्पयामासुः। इत्थं सरस्वत्याः सम्यगनुष्ठिता काचिदनुत्तमा सपर्या। अमूनि पद्यानि दृश्यन्ताम्—
श्रीसायणेन सततं सवनक्रियाभि-
राकारिते मखभुजामधिपे स्वकान्ते।
प्राप्तान् दिवं तदहितान् पुनराहवाय
प्रोत्साहयत्यतिरुषाद्य पुलोमकन्या॥
यं तत्त्वार्थबुभुत्सयैव यतयोऽप्याश्रित्य विज्ञानिनं
वर्तन्ते परमात्मबोधसुखिनः सोऽयं विभुः सायणः।
शान्तः किं प्रतिपाद्यतां प्रियतमासम्भोगलीलापरः
शृङ्गारी किमु कामतः कृतमतिः सङ्गीतसाहित्ययोः॥
वृत्तिर्धातुपुराणसारपथयोरार्यैः कृता माधवैः
सृष्टान्यर्भकभोगनाथकविना काव्यानि गीतान्यपि।
आयुर्वेदसुधानिधिप्रभृतयो वेदान्तसाराग्रिमाः
कोशाः शास्त्रकलाकदम्बकभृतः कस्यापि सृष्टिक्रमाः॥
गङ्गायां निवसन्ति ये मुनिवराः श्रीसायणार्य प्रभो
तेऽपि त्वत्कसभास्तरैर्विदधते स्पर्धां न पुण्यादिकैः।
एते ते द्विजपुङ्गवास्त्रिचतुरान् वेदान् षडङ्गान्वितान्
व्याख्यातुं प्रभवः पृथक्पृथगितो वेदान्तविद्या अपि॥
४.६.२. मन्त्रशक्तिः
शुक्रबृहस्पतिनीत्योः समवाप्तसमानपाण्डित्यः सायणाचार्यः सर्वथा अधृष्यश्चाभिगम्यश्च बभूव। चाणक्यनिभः स शब्दार्थौ सत्कविरिव द्वयं विद्वानपेक्षत इत्यभिजानन् मार्दवं तैक्ष्ण्यं च राज्यनिर्वहणे यथोचितं प्रदर्शयामास। एवं सचिवायत्तसिद्धेः सङ्गमराजस्य कलाः स्वदितुं भूयानवसरो भवति स्म। सङ्गमे प्रगल्भमानाः सर्वेऽपि सायणामात्यवैरवीतिहोत्रपात्रीभूताः सपदि रणमरण्यं वा शिश्रियिरे। इत्थं सङ्गमसायणौ प्रत्यर्थिनः पार्थिवान् नामावशेषान् विदधाते—
लक्ष्मीस्ते मन्त्रशौर्याभ्यामहितेभ्यः समाहृता।
आहृता त्यागभोगाभ्यामद्भुतं सायण प्रभो॥
त्वामेवोपासते सर्वे मन्त्रिणं सायण क्षितौ।
यथा सुमनसः स्वर्गे धिषणं धिषणाधिकम्॥
दैतेयगुरुदेशीयं गुरुदेश्यं च मन्त्रिणा।
गङ्गातनूजकल्पं च ब्रुवते सायणं बुधाः॥
सायणसचिवायत्तं
सङ्गमराजस्य पश्य राज्यमिदम्।
विद्याविनोदरसिकै-
र्विद्वद्भिर्बहुमताभोगम्॥
मन्त्री मायणसायणस्त्रिजगतीमान्यापदानोदयोऽ-
वन्येकाश्रयशून्यवन्यमहिता अन्येऽप्यमी मन्त्रिणः।
स्वेच्छास्वीकृतपूर्वपश्चिमपयोराशिर्नृपः सङ्गमः
फल्गुग्रामटिकापतित्वसुखिनोऽप्यन्ये स्वबुद्ध्या नृपाः॥
कृत्वानन्दमहोदयं कृतधिया येनाधिराज्यं भुवो
दृप्यद्राक्षसशासकेन जनतासौभाग्यमाकल्पितम्।
षट्कर्माभिरताय भद्रमनिशं षाड्गुण्यसंविद्विदे
तस्मै मायणसायणाय भवते श्रीविष्णुगुप्तात्मने॥
भो भोः सायणमन्त्रिशासनमिदं भूमौ समुद्घुष्यतां
ये ये स्वामिनि सङ्गमक्षितिपतौ सेवानभिज्ञा नृपाः।
ते ते कोशमसिं किरीटमथ वा चापं स्वकीयां महीं
बाणान् वा विसृजन्त्वरण्यरणयोरेकं श्रयन्तामिति॥
४.६.३. कीर्तिः वदान्यता च
जीवदुदन्तः सायणाचार्यः। स प्रजासु स्निह्यति स्म, प्रजाश्च तस्मै स्पृहयन्ते स्म। तं सेवित्वैव सर्वोऽपि जनुषः सार्थक्यम् अविन्दत। अभ्यर्थयमानः कश्चित्तस्य सकाशात्कामम् अनवाप्य वदान्यान्तरं गत इति नवः परीवादो न कदाप्यवततार। यतः शून्यशयोऽर्थी पद्भ्यामागतः सिन्धुरसादी निर्जगाम। शिबि-जीमूतवाहनादयः स्थूललक्ष्याः सायणाचार्यस्य कलां नार्हन्ति षोडशीम्, यदुत एष देशकालपात्राणाम् औचितीं निश्चित्य स्मितपूर्वकं प्रभूतं प्रददौ—
कथयामि वः किमपि पुत्रका अहं
क्रियतां विमृश्य तदिदं मनीषया।
यदि सेवितव्यमिति निश्चिता मति-
र्न परं समाश्रयत सायणप्रभोः॥
वत्साः शंसत सायणस्य सविधं हित्वातिदूरं गता-
स्तत्र त्यागदयार्जवैः समुदिता दृष्टाः कति क्ष्माभुजः।
तेभ्यः किन्तु कियच्च रत्नकनकक्षौमादि सम्पादितं
किं वा वारणवाजिचामरसितच्छत्त्रादिभूमार्जितः॥
श्रीमत्सायण मन्त्रिवर्य भवतस्त्यागाभिमानो वृथा
सर्वस्वं त्यजसीति हन्त सकलैर्लोकैः कथं घुष्यसे।
सर्वस्वं त्यजतस्तवान्वहमिदं येनैधते कोटिश-
स्तत्ते दीर्घतरं तपस्तदुदिता कीर्तिश्च न त्यज्यते॥
द्रष्टुं ये त्वामागताः सायणार्य
क्षुद्रग्रावक्षुण्णपादाः कवीन्द्राः।
ते खल्वेते गन्धमातङ्गतुङ्ग-
स्कन्धारूढाः संश्रयन्ते स्वदेशान्॥
सकृदवलोकनेन सचिवेश्वर सायण ते
द्रवति दरिद्रता द्रुतमथापि न मां त्यजति।
किमिदममोघदर्शन सुदर्शनवन्मम वा
प्रतिकलदर्शनप्रणयिनः फलितं सुकृतैः॥
दीनानामभयार्थिनां च शरणं श्रीसायणार्यादृते
को वा दुर्मदकूलमुद्रुजकृपापूरैकपूर्णाशयः।
तस्मै तार्क्ष्यनिगीर्णपन्नगपरित्राता च सिद्धेश्वरः
श्येनत्रस्तकपोतजीवितपरित्राता च नालं शिबिः॥
पाथोराशिजलेन पल्वलजलं स्पर्धेत चेद्युज्यते
युष्माकं च वदान्यमान्यसचिवम्मन्या स्पृहा सायणे।
सोऽयं यूयमिति प्रदानसमये नैषोऽप्रसन्नाननो
न स्तोकं प्रददाति नापि समयापेक्षं न सारोज्झितम्॥
युद्धेष्वायुधसादरीन् वितरणे क्षोणीतलं विप्रसा-
द्रामेण द्विजपुङ्गवेन रचितं श्रीसायणार्येण च।
शौर्यं तत्र समं द्वयोस्त्रिभुवनप्रख्यातचारित्रयो-
रौदार्यं पुनरेकनैकविषयं वैषम्यमालम्बते॥
४.६.४. रूपं पराक्रमश्च
चक्षुष्यः सायणाचार्यः असीम्ना स्थाम्ना सङ्गतोऽभूत्। तं सकृदवलोक्य लोकाः स्वलोकनशक्तेः कृतार्थताम् अविदुः। निजदारेष्वासक्तमनाः स तां नितमां प्रीणयति स्म स्त्रीजनरञ्जिकाभिर्विविधाभिर्विधाभिः। इत्थं वत्सलः सन्नपि शत्रूणां शातनेऽसमानः समभूत्। हरं नृहरिं च स्मारयन्तमेनं रणपण्डितम् अभिभवितुमशक्ताः सपत्नाः “किमेभिर्वृथोच्छूनैर्भुजैः” इति स्वम् अशप्सत। द्वितीयसङ्गमस्य सेनापतिः सायणाचार्यः तद्रिपून्नैकान् अपोथीत्, येषु चोळनृपः चम्पशाम्भुवरायः कनिष्ठिकाम् अधितिष्ठति—
किं वा वसन्तसमयः
किं वा सोमः किमङ्गवान्मदनः।
सायणनामा सचिवः
सत्यं सखि नैव केवलो मनुजः॥
आविःस्मिताननसरोरुहमायताक्ष-
माजानुलम्बिभुजमप्रतिमानरूपम्।
आलोक्य सायण भवन्तममन्दकान्ति-
मक्ष्णोरुपैति फलमायतयोर्ममाली॥
समरविजयवृद्धौ सङ्गमेन्द्रेण दत्तां
कलय मणिविभूषां कातरे कण्ठपाशे।
किमिव मलिनवासाः क्षौममेतद्गृहाणे-
त्यनुनयति सरोषां प्रेयसीं सायणार्यः॥
रम्भे किं न्विदमद्भुतं नववधूवेषग्रहारम्भणं
दृष्टं किं नु तिलोत्तमे न गणयत्यस्मान् सदा सायणः।
एनं वञ्चयितुं रणाङ्गणगतं वेषोऽयमङ्गीकृतः
साध्वेतत्समनुष्ठितं सखि तदप्येष स्वदारैकधीः॥
आकर्ण्य यात्रापटहप्रणादा-
नपोढनिद्रैस्तव सायणार्य।
अरण्यसिंहैररिभूपतीना-
माहन्यते चित्रगतोऽपि हस्ती॥
अमुं शमितशात्रवस्थिरभुजावलेपोदयं
विलोक्य नियतं भवेदधिरणं महाविस्मयः।
नखाग्रहतवैरिणो नरहरेर्हरस्याथवा
नवाम्बुजदलोल्लसन्नयनमात्रदग्धद्विषः॥
खड्गच्छिन्नविपक्षकर्णरुधिरस्रोतोनिपातोक्षितं
तादृग्वेगविवर्तनद्रुतपतन्मालाकरोटीशतम्।
सङ्ग्रामेषु समीक्ष्य सायणपतिं सान्द्रोपवीतस्रजं
संवर्तावधिताण्डवोद्यतहरस्मृत्या जगत्क्षुभ्यति॥
गर्जद्दुर्जयगन्धसिन्धुरघटासङ्घट्टनष्टाष्टदिग्-
रन्ध्रः सान्द्रतुरङ्गहेषितरवैर्ग्रस्तान्यघोषोदयः।
धाटीमोटनलम्पटोद्भटभटव्याधूतधूलीभर-
च्छन्नव्योमपथो विनिर्जिगमिषत्युर्वीजये सायणः॥
सङ्ग्रामेषु समीक्ष्य सङ्गमपतेः सेनापतिं सायणं
त्यक्त्वा मां द्रुतविद्रुतैस्तत इतः किं क्षत्त्रियैश्च क्षतैः।
किं वानेन भुजेन मे प्रविलसन्मौर्वीकिणश्यामिका-
कस्तूरीरसपङ्कसङ्गसततप्रेष्ठप्रकोष्ठश्रिया॥
दिष्ट्या दैष्टिकभावसम्भृतमहासम्पद्विशेषोदयं
जित्वा चम्पनरेन्द्रमूर्जितयशाः प्रत्यागतः सायणः।
रथ्यास्थापितरत्नतोरणरणत्सौवर्णघण्टामिलत्-
स्वर्गङ्गाजलपुष्पलाजनिवहैः पुण्याहघोषैरपि॥
४.६.५. सर्वपथीना सिद्धिः
एतावता सायणाचार्यः “कर्ता महाश्चर्याणाम् आहर्ता क्रतूनाम् आदर्शः सर्वशास्त्राणाम् उत्पत्तिः कलानां कुलभवनं गुणानाम् आगमः काव्यामृतरसानाम् उदयशैलो मित्रमण्डलस्य उत्पातकेतुरहितजनस्य प्रवर्तयिता गोष्ठीबन्धानाम् आश्रयो रसिकानां प्रत्यादेशो धनुष्मतां धौरेयः साहसिकानाम् अग्रणीर्विदग्धानां” चेति स्फुटं गृहीतम्। अत्रेमानि पद्यानि भवन्ति—
त्यागे भोगे तथाचारे विचारे विनये नये ।
सायणार्य इव ख्यातः सायणार्यः समेधते॥
तव रूपमिवाचार आचार इव ते यशः।
मेरुणा सदृशं रूपं सत्यं सायणमन्त्रिणः॥
अमुष्य श्लाघन्ते भुवि जननवन्तो वितरणं
रणं स्वर्गे लोके रिपुनृपतयः खड्गनिहताः।
कलायां यो यस्यामधिकपटुरेष प्रतिकलं
कलैषा ह्यस्यैवेत्यहह बहुमानं वितनुते॥
साहित्यार्णवपारसञ्चरतया ख्याता परा शेमुषी
निःशेषक्षपितद्विषन्नयपथा नीतिर्निजा शाश्वती।
सम्पत्तिर्वरवाजिवारणवती सर्वोपकारक्षमा
साम्राज्यं तव सायणार्य सततं शंसन्ति साम्यासहम्॥
शास्त्राणां समयैषिता नियमयत्येकत्र सत्योद्यमं
शस्त्राणामथ साहसव्यसनिता प्रोद्दीपयत्यन्यतः।
विद्यासंसृतिसक्तिविभ्रमजुषोः स्पर्धानुबन्धात्तयोः
सिद्ध्यै सायणमन्त्रिणः प्रभवति श्लाघ्यं द्वयोर्मेलनम्॥
४.६.६. गार्हस्थ्यं जीवनम्
अलङ्कारसुधानिधौ बहुषु स्वरसेषु पद्येषु जाग्रत्स्वपि सायणाचार्यगृहवृत्तान्तवेदयितॄणां पद्यविशेषाणामस्ति महद्वैशिष्ट्यम्। एतेभ्यो हि सायणाचार्यस्य गृहं शिशुशिक्षादिप्रौढविद्योपासनान्ताशेषशेमुषीविलासानां विकासभूमिरभूदिति, त्रयः तत्पुत्राः प्रतिस्वं वेदे सङ्गीते साहित्ये च कृतविद्या इति च ज्ञायते। दैवं गुरुजनं धेनुं च प्रत्यहं प्रत्युषसि वन्दमानः सायणाचार्यः सदाचारस्य प्रशस्यं पन्थानं प्रादर्शयत्—
माधवार्यो माधवार्यः सायणः सायणः परम्।
भोगनाथो भोगनाथः प्रथते भुवनत्रये॥
क्वचिद्व्याख्यातॄणां विविधपदवाक्यादिपदवी-
विमर्शः काव्यानां क्वचन सरसानां विरचितम्।
क्वचिद्वीणावादव्यसनि शिशुशिक्षाविलसितं
कथं वाचां भूमौ भवति भवनं सायणविभोः॥
वत्स व्यञ्जय कम्पण व्यसनिनः सङ्गीतशास्त्रे तव
प्रौढिं मायण गद्यपद्यरचनापाण्डित्यमुन्मुद्रय।
शिक्षां दर्शय शिङ्गण क्रमजटाचर्चासु वेदेष्विति
स्वान् पुत्रानुपलालयन् गृहगतः सम्मोदते सायणः॥
मातर्मानय पादपद्मरजसा मौली ममाश्लिष्यतां
तात त्वं च समेधयालिकगतां प्रीतिं नखज्योत्स्नया।
अम्ब त्वं कपिले गृहाण यवसग्रासान्ममार्घ्यानुगा-
नित्याराधयतीश्वरं गुरुजनं गां चान्वहं सायणः॥
४.६.७. द्वितीयः सङ्गमः सायणाचार्येण तत्प्रबोधनं च
द्वितीयसङ्गमे प्रथमे वयसि विद्यमाने तत्पिता कम्पणो देवभूयं जगाम। अतः सायणाचार्य एव तं प्रबोध्य राज्यधुरां वोढुं समर्थं विदधे। सर्वविद्याप्रदीपिकाम् आन्वीक्षिकीं लोकसंस्थितिकारकं धर्मशास्त्रं सर्वविद्याप्रतिष्ठां वेदान्तविद्यां च तं निपुणम् अध्याप्य सञ्चस्कार। एताभिः स्वानुरूपाभिः क्रियाभिर्भगवतो बादरायणस्य अवतार इति लोकम्पृणां कीर्तिं च प्राप। सङ्गमोऽपि गुरौ भक्तिं विद्योपादाने सक्तिं राज्यपालने शक्तिं च कलयन् दिने दिने समैधत। प्राप्ते च काले सिंहासनमारुह्य स्थितिकर्तेव प्रजाः पालयामास—
सङ्गमेन्द्र नरेन्द्र त्वय्यकृतास्त्रपरिग्रहे।
निधायोर्वीधुरमगात्स्वाराज्यं कम्पणः कथम्॥
आन्वीक्षिक्यामधिकविहृतौ हर्षशोकव्युदासे
मार्गोल्लेखं विदधति नृणां मानवे धर्मशास्त्रे।
सम्यक्छिक्षां सचिवगमितः शैशवे सायणार्य
प्रौढिं गाढां प्रकटयति ते सङ्गमेन्द्रः प्रयोगे॥
लोकोद्वेगकरद्विषद्विहतये प्राबोधयस्त्वं प्रभो
पार्थं प्रागधुनाप्यपार्थसुमनःकार्पण्यविच्छित्तये।
बाल्येऽपि प्रतिबोधयस्यवहितं श्रीसङ्गमक्ष्मापतिं
बोधैकास्पद सायणार्य भगवद्द्व्यासावतारस्तथा॥
श्रीमत्सङ्गम भूमिपाल महतस्त्वत्कीर्तिदुग्धोदधेः
सन्ध्या विद्रुमवल्लरी जलधराः शैला नभः शैवलम्।
तारा मौक्तिकपङ्क्तयः शशधरः शङ्खः पतङ्गो मणि-
र्मध्ये तस्य कृतस्थितिः स भगवान्नारायणस्त्वं विभो॥
दुर्दान्तेषु रुषा कषायकलुषोन्मेषा सतामानने-
ष्वव्याजोन्मिषितप्रसादसुभगा नित्यं दयाशालिनी।
सैषा वामविलोचनामुखसमालोकेषु हेवाकिनी
दृष्टिः संसदि सङ्गमक्षितिपतेर्नानारसा दृश्यते॥