अथाधिक्रियते दत्तपदाख्यः[1] प्रकारः । अयमपि पद्यप्रकारोऽवधानप्रपञ्चे चिरात् समास्थितः सम्मानितश्च । एष पुनरस्य संक्षिप्तः परिचयः । इह प्रष्टा पद्यरचनार्थं वस्तु वृत्तं च निर्दिशन् चत्वारि पद्यान्यपि प्रददाति यानि क्रमेण चतुर्षु पादेषु विन्यस्यता कविना पद्यं प्रणेयं भवति । अत्र प्रष्ट्रा तादृशानि पदानि देयानि यानि निर्दिष्टे विषये भाषायां च दुर्घटानि भवेयुः । अतोऽत्र प्रायेण प्रष्टारो भाषान्तरीयाणि पदानि प्रदाय परिपीडयन्त्यवधानिनम् । तादृशेषु पदेषु दत्तेष्वेव अयं समाह्वः स्वाम् अभिख्यां पुष्णाति । दत्तानि पदानि तेष्वेवार्थेषु प्रयोक्तव्या इति नास्ति नियमः । तदशक्यमपि भवति भाषान्तरीयेषु शब्देषु । प्रष्ट्रा प्रदत्ते पदे विद्यमाना वर्णानुपूर्वी यथा अक्षता भवेत् तथा पदान्तराणि योजयता कविना पद्यं पूर्णतां नेयम् । तदेतत् केनचिदुदाहरणेन स्फुटीक्रियते ।
विषयः – स्त्रीहेतोः पुरुषाणां दुर्विधिः । वृत्तम् – शिखरिणी ।
पदानि – अक्रोट् (acrot), पिस्ता (pista), खर्जूर् (kharjur), बादाम् (badam)
अवधानिनः पद्यम् -
अहल्यार्थं शक्रोऽटति मुनिवने शापविवशः
कपिस्तावन्मित्रं भवति परमं रामनृपतेः ।
निजास्यं खर्जूरोदर इह जहात्युक्तिरतये
निरालम्बा दामच्युतपशुसमा हन्त पुरुषाः ॥[2] (रा. गणेशः)
अहल्याकामुकः शक्रः गौतमशापेन विवशीभूतः स्थानभ्रष्टश्च सन् मुनिवने पर्यटति स्म । श्रीरामस्य निजभार्याप्राप्तौ कपिना मैत्री समास्थेया अभूत् । वाण्यां रतो ब्रह्मा निजास्यं विजहौ । हन्त! पुरुषाः स्त्रीहेतोः रज्ज्वा विश्लिष्टाः पशव इव दिशाहीना भवन्ति ।
इह शक्रोटति (शक्रः अटति) इति कथयता कविना अक्रोट् (acrot) इति वर्णानुपूर्वी साधिता । कपिस्तावत् (कपिः तावत्) इत्यत्र पिस्ता (pista) इति वर्णानुपूर्वी निवेशिता । खर्जूरशब्दस्यानयनार्थं खर्जूरोदरः इति शब्द एव सृष्टः, यस्य हिरण्यगर्भो ब्रह्मा इत्यर्थः ।[3] निरालम्बा दामच्युत.. इत्यनेन पदयुगलेन ‘बादाम्’ समानीता । पद्यं चेदं रमणीयैस्त्रिभिर्दृष्टान्तैः सालङ्कारं सन्निर्दिष्टं विषयं वल्गु वर्णयति । तदेवम् अनवद्यं निरूढोऽयं समाह्वोऽवधानिना ।
एतन्निर्वाहे अवधानिनि नानाविधा सामग्री आवश्यकी । यथा खर्जूरशब्दस्य हिरण्यार्थे प्रयोगः अवधानिनः अमितं शब्दकोशं पिशुनयति । चतुर्थे पादे समासबलेन विसर्गलोपेन च प्रष्ट्रभीष्टा वर्णानुपूर्वी समानीता । अनेनास्य सन्धिसमासादिव्याकृतिज्ञानं विज्ञापितं भवति । ‘शक्रोऽटति’, ‘कपिस्तावत्’ – इत्येताभ्यामपि शब्दयुगलाभ्यां प्रष्ट्रादिष्टे पदे यन्निवेशिते तत्रापि तस्य समुचितपदान्वेषणं सन्धिज्ञानं च साहाय्यम् अकरोत् । सर्वेष्वेतेषु दत्तपदनिर्वाहार्थम् उपात्तानां पदानां निर्दिष्टविषयानुकूलतया संविधानं नानाविषयां व्युत्पत्तिं प्रत्युत्पन्नां मतिं च विना न जातु सुशकम् । यथास्मिन्नुदाहरणे दत्तपदनिर्वाहार्थमुपात्तैः शब्दैः प्रकृतविषयं वर्णयितुं पौराणिक्यः कथाः निपुणम् उपाकार्षुः । एवम् एतद्विधं समाह्वं निर्वोढुं निरवधिका व्युत्पत्तिः, अविच्छिन्ना प्रतिभा, प्रत्युत्पन्ना मतिः, महती धीरता चावश्यकीति स्फुटमेव । समाह्वं प्रष्टृमुखात् शृण्वतः अवधानिनो धिषणा अनुपदमेव तत्तत्पदस्य कीदृशैः छेदैः समुचितपदेषु योजना सम्भवति? तेषां पदानां वर्ण्ये वस्तुनि पुनः कथं योजना? इत्यादीन् विषयान् चिन्तयन्ती विना विलम्बं पद्यप्रबन्धने प्रवर्तेत । ईदृशः समुचितः अविलम्बितश्च निर्वाहः सभ्यानामपि महते विस्मयाय कल्पते । क्वचित् केषाञ्चन पदानां तत्पद्ये तद्भाषायां च नियोजनम् असम्भवमेवेति भासते सचेतसाम् । तथाभूतान्यपि पदानि यदा अवधानी पद्ये निवेशयति तदा सहृदयैरनुभूयमानो विस्मयः तन्मूल आनन्दश्च गिराम् अगम्यः ।
मूलमार्गणम्
चमत्कारपरमः प्रकारोऽयं कदा पुनराविर्भूत इति निश्चप्रचं निगदितुं दुःशकमस्माकम् । सुभाषितरत्नभाण्डागारे चित्रप्रकरणे अस्ति कश्चित् पद्यविशेषो यथा –
सर्वस्य द्वे सुमतिकुमती सम्पदापत्तिहेतू
एको गोत्रे प्रभवति पुमान् यः कुटुम्बं बिभर्ति ।
वृद्धो यूना सह परिचयात्त्यज्यते कामिनीभिः
स्त्री पुंवच्च प्रभवति यदा तद्धि गेहं विनष्टम् ॥ (सुभाषितरत्नभाण्डागारम्, 182)
व्यक्तमेवात्र यत् ‘सर्वस्य द्वे’, ‘एको गोत्रे’, ‘वृद्धो यूना’, ‘स्त्री पुंवच्च’ चैतानि चत्वारि पाणिनिसूत्राण्येव समस्यारूपेण निर्दिष्टानीति । अनर्थकापि पदावली समस्यारूपेण शक्या प्रदातुमिति प्रागुक्तमेव । तस्यामेव कुक्षौ क्वचिदेवं दत्तपदरूपाः समस्याः प्रदातुम् आरब्धाः, ताश्च कालक्रमेण अवधानादिषु काव्यक्रीडासु पृथक्प्रकारतां लेभिर इत्युचितमनुमातुम् ।
इयं दत्तपदी गर्भकवितारूपस्य चित्रकाव्यस्य कश्चन प्रकारः । एकस्मिन् पद्ये तदधिकानां पद्यानाम् अन्तर्भावः किल गर्भकविताया लक्षणम् ।[4] दत्तपद्यां तावद् एकस्मिन् पद्ये न तु पद्यान्तराणि किञ्च कानिचन प्रष्टृनिर्दिष्टानि पदानि अन्तर्निहितानि भवन्ति । असौ च पद्ये प्रष्टृनिर्दिष्टानां पदानां निवेशः श्लेषेण विना दुःशकः । अस्य श्लेषस्य सभङ्ग-अभङ्गरूपौ द्वावपि प्रकारौ इह दत्तपद्यां द्रष्टुं शक्यौ ।
एतत्प्रकारसम्बद्धाः केचिदंशा अधस्ताद् उल्लिख्यन्ते –
- अत्र प्रष्टा पद्यरचनार्थं वस्तु वृत्तं पदचतुष्टयं च निर्दिशेत् । चतुरधिकानां पदानाम् अपेक्षा तेन न कार्या ।
- प्रष्ट्रा निर्दिष्टस्य पदस्य अन्ते कस्यचन स्वराक्षरस्य योजनेन तत् संस्कृतीकृत्य प्रयोक्तुम् अर्हत्यवधानी । यथा cake इति दत्तं पदं केकीति कर्तुम् अर्हत्यवधानी ।
- यदि भाषान्तरीयाणि पदानि दीयन्ते तर्हि तयैव वर्णानुपूर्व्या संस्कृते प्रयोगः शक्यः किं न वेति आदावेव निश्चेयम् । संस्कृते अविद्यमानस्य वर्णस्य प्रसक्तौ तत्स्थाने तत्समीपो वर्णो ग्राह्यः । यथा आङ्ग्लीयः ‘z’ वर्णः संस्कृते न वर्तते । अतः प्रष्ट्रा Dozen इति शब्दो निर्दिष्टश्चेत् तत्समीपगा डजन् इति वा डझन् इति वा वर्णानुपूर्वी शक्या ग्रहीतुम् । तद्वत् safari इति पदे दत्ते सति तत् सफारि इति परिणमय्य पद्यं प्रणेतुं शक्यं कविना ।
- येषां पदानां सन्निवेशो नतमां शक्यः ते नैव प्रदेयाः प्रष्ट्रा । यथा swift, cycling इत्यादयः । यदि दत्तपदीया वर्णानुपूर्वी स्तोकं विपरिणामेन साधनीया न यथायथम्, तर्हि तदप्यादौ स्फुटं निगद्यं प्रष्ट्रा । यथा divorce इति वर्णानुपूर्वी संस्कृते दुःशका ।[5] तदा ‘दैवरस’ इति वा तत्समीपगं रूपान्तरं वा आदाय पद्यं ग्रथनीयं भवति । तदेतत् सकलं प्रष्ट्रा सह सभासम्मुखमेव चर्चयित्वा निश्चित्य च पदमग्रे निधेयम् अवधानिना ।
- यस्मिन् वृत्ते यस्मिन् विषये यानि च पदानि प्रयुज्य पद्यं पृच्छ्यतेऽवधानी, तस्मिन्नेव वृत्ते तस्मिन्नेव विषये तैरेव पदैः पद्यं प्रणीतं स्यात् प्रष्ट्रा । अनेन ‘प्रकृतं समाह्वम् उत्तरयितुं मार्गः कश्चिदस्ति, नायं सर्वात्मना निरुत्तर’ इति निश्चप्रचं भवति । तथा चानेन, दत्तानि पदानि तस्मिन् वृत्ते घटयितुं शक्यानि इत्यपि आदावेव स्फुटं भवति ।
तदेवम्भूतं दत्तपदीसमाह्वम् अवाप्य तथा पद्यं प्रबन्धनीयम् अवधानिना यथा निर्दिष्टो विषयस्तत्र समुचितैः अव्यर्थैश्च शब्दैः वर्णितः स्यात्, दत्तानि पदानि अनुद्भूतावयवतया निविष्टानि च भवेयुः । तादृशं पद्यमेव तन्निर्वाहस्य पक्वतायां मानम् । तत्तादृक्पद्यप्रबन्धने महती व्युत्पत्तिः, नैसर्गिकी प्रतिभा, अमन्दा प्रत्यग्रता च चैतासां हृदयङ्गमः सङ्गमः अवधानिन्यावश्यकी । तदसौ सङ्गमः सत्वरं व्यवस्येद् येन कालव्ययं विनैव पद्यं प्रणीतं भवेत् । तदैव प्रकारोऽयं कलयति निजां निःशेषां कमनीयताम् ।
वस्तुतः सभायाः विस्मापने रञ्जने च धौरेयोऽयं समाह्वः । अतस्तादृशानि पदानि प्रष्ट्रा यत्नेन मृग्याणि, यानि निर्दिष्टवस्तुनो भाषायाश्च नितान्तम् अनन्वितानि, न तावत् सुघटानि च भवेयुः । अत्र वृत्तचयनेऽप्यस्ति किञ्चन स्वारस्यम् । प्रायेण लघुगात्राणि वृत्तानि सुनिर्वहाणि गरीयांसि पुनर्दुःशकानीति भावो बहूनाम् । युक्तं चैतत् । किञ्च दत्तपदीसमाह्वे लघुगात्राण्येव वृत्तानि कष्टाधिक्याय कल्पन्ते । यतो हि दत्तानां पदानाम् अर्थवतो वाक्यस्य च अल्पीयस्येव आस्पदे निवेशनं नितमां क्लिश्नाति कवितल्लजानपि ।
इदं तु निष्कृष्टं वक्तुं दुःशकं यत्पदानि प्रथमं विचिन्त्य ततस्तदुचितो विषयश्चेतव्यः, उताहो विषयं प्रथमं विचिन्त्य ततस्तदनुरोधेन पदानि चेयानीति । प्रायेणात्र प्रष्टारः पटुतमानि पदानि तदनुरोधेन विषयं च पूर्वं निश्चित्य ततः पद्यप्रणयने प्रवर्तन्ते ।
[1] वस्तुतो दत्तपदीति रूपं दुरुपपादं कस्यापि ङीरूपप्रत्ययस्यात्र प्रसङ्गाभावात् । अतो दत्तपदेति सुवचम् । तथाप्यस्मिन्नर्थे दत्तपदीति प्रयोगश्चिराद् रूढ इति कृत्वा रूढेर्बलीयस्त्वमूरीकृत्य चात्र तद्रूपमपि सादरमुपात्तमस्ति ।
[2] अत्र प्रदीयमानानि सर्वाण्युदाहरणानि अवधानपद्यान्येव । अवधानिना स्वबुद्ध्यैकसहायेन अमूनि पद्यानि आशु प्रणीतानीत्यंशोऽत्र सहृदयैर्हृदि कर्तव्यः ।
[3] खर्जूरशब्दोऽत्र हिरण्यार्थकः प्रयुक्तः ।
[4] अस्य विस्तृतं विवरणं चित्रकविताविभागे प्रदास्यते ।
[5] एकाक्षरकोशाः सर्वथाप्रसिद्धशब्दा वा आश्रिताश्चेन्न किञ्चिदसम्भवम् । किञ्च न तादृङ्मार्गोऽत्र शस्यो रसविघातकत्वात् । पद्यं व्युत्पन्नानां ग्रहणयोग्यं रसनयोग्यं च न चेत् स्यात् तर्हि सर्वोऽयमुद्यमो जले हुतमिव भवेत् ।
To be continued.