Around Samasyā-pūraṇa: Analysing Literary Creativity - 5
“Kālidāsa composed poems in Kannada”:
वाणीवीणागुणरणनचिन्माधुरीमोदयुक्त्या
गौरीशर्वाद्वयनयजयप्रीतिसंस्फूर्तिशक्त्या।
देशस्यास्य प्रसृमरकलाशास्त्रविज्ञानरक्त्या
कर्णाटोक्त्या कवनमकरोत् कालिदासः कवीन्द्रः॥[1]
